तथा तासां वदन्तीनां परुषं दारुणं बहु।
राक्षसीनामसौम्यानां रुरोद जनकात्मजा ॥ 5.25.1 ॥
एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी।
उवाच परमत्रस्ता बाष्पगद्गदया गिरा ॥ 5.25.2 ॥
न मानुषी राक्षसस्य भार्या भवितुमर्हति।
कामं खादत मां सर्वा न करिष्यामि वो वचः ॥ 5.25.3 ॥
सा राक्षसीमध्यगता सीता सुरसुतोपमा।
न शर्म लेभे दुःखार्ता रावणेन च तर्जिता ॥ 5.25.4 ॥
वेपते स्माधिकं सीता विशन्तीवाङ्गमात्मनः।
वने यूथपरिभ्रष्टा मृगी कोकैरिवार्दिता ॥ 5.25.5 ॥
सा त्वशोकस्य विपुलां शाखामालम्ब्य पुष्पिताम्।
चिन्तयामास शोकेन भर्तारं भग्नमानसा ॥ 5.25.6 ॥
सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः।
चिन्तयन्ती न शोकस्य तदाऽन्तमधिगच्छति ॥ 5.25.7 ॥
सा वेपमाना पतिता प्रवाते कदली यथा।
राक्षसीनां भयत्रस्ता विवर्णवदनाऽभवत् ॥ 5.25.8 ॥
तस्याः सा दीर्घविपुला वेपन्त्या सीतया तदा।
ददृशे कम्पिनी वेणी व्यालीव परिसर्पती ॥ 5.25.9 ॥
सा निःश्वसन्ती दुःखार्ता शोकोपहतचेतना।
आर्ता व्यसृजदश्रूणि मैथिली विललाप ह ॥ 5.25.10 ॥
रा रामेति च दूःखार्ता हा पुनर्लक्ष्मणेति च।
हा श्वश्रु मम कौसल्ये हा सुमित्रेति भामिनी ॥ 5.25.11 ॥
लोकप्रवादः सत्योऽयं पण्डितैः समुदाहृतः।
अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा ॥ 5.25.12 ॥
यत्राहमेवं क्रूराभी राक्षसीभिरिहार्दिता।
जीवामि हीना रामेण मुहूर्तमपि दुःखिता ॥ 5.25.13 ॥
एषाऽल्पपुण्या कृपणा विनशिष्याम्यनाथवत्।
समुद्रमध्ये नौः पूर्णा वायुवेगैरिवाहता ॥ 5.25.14 ॥
भर्तारं तमपश्यन्ती राक्षसीवशमागता।
सीदामि खलु शोकेन कूलं तोयहतं यथा ॥ 5.25.15 ॥
तं पद्मदलपत्रक्षं सिंहविक्रान्तगामिनम्।
धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम् ॥ 5.25.16 ॥
सर्वथा तेन हीनाया रामेण विदितात्मना।
तीक्ष्णं विषमिवास्वाद्य दुर्लभं मम जीवितम् ॥ 5.25.17 ॥
कीदृशं तु मया पापं पुरा जन्मान्तरे कृतम्।
येनेदं प्राप्यते दुःखं मया घोरं सुदारुणम् ॥ 5.25.18 ॥
जीवितं त्यक्तुमिच्छामि शोकेन महता वृता।
राक्षसीभिश्च रक्ष्यन्त्या रामो नासाद्यते मया ॥ 5.25.19 ॥
धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम्।
न शक्यं यत् परित्यक्तुमात्मच्छन्देन जीवितम् ॥ 5.25.20 ॥