ततः सीतामुपागम्य राक्षस्यो विकृताननाः।
परुषं परुषा नार्य ऊचुस्तां वाक्यमप्रियम् ॥ 5.24.1 ॥
किं त्वमन्तःपुरे सीते सर्वभूतमनोहरे।
महार्हशयनोपेते न वासमनुमन्यसे ॥ 5.24.2 ॥
मानुषी मानुषस्यैव भार्यात्वं बहु मन्यसे।
प्रत्याहर मनो रामान्न त्वं जातु भविष्यसि ॥ 5.24.3 ॥
त्रैलोक्यवसुभोक्तारं रावणं राक्षसेश्वरम्।
भर्तारमुपसङ्गम्य विहरस्व यथासुखम् ॥ 5.24.4 ॥
मानुषी मानुषं तं तु राममिच्छसि शोभने।
राज्याद् भ्रष्टमसिद्धार्थं विक्लवं त्वमनिन्दिते ॥ 5.24.5 ॥
राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा।
नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ॥ 5.24.6 ॥
यदिदं लोकविद्विष्टमुदाहरथ सङ्गताः।
नैतन्मनसि वाक्यं मे किल्बिषं प्रतिभाति वः ॥ 5.24.7 ॥
न मानुषी राक्षसस्य भार्या भवितुमर्हति।
कामं खादत मां सर्वा न करिष्यामि वो वचः ॥ 5.24.8 ॥
दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः।
तं नित्यमनुरक्ताऽस्मि यथा सूर्यं सुवर्चला ॥ 5.24.9 ॥
यथा शची महाभागा शक्रं समुपतिष्ठति।
अरुन्धती वसिष्ठं च रोहिणी शशिनं यथा ॥ 5.24.10 ॥
लोपामुद्रा यथाऽगस्त्यं सुकन्या च्यवनं चथा।
सावित्री सत्यवन्तं च कपिलं श्रीमती यथा ॥ 5.24.11 ॥
नैषधं दमयन्तीव भैमी पतिमनुव्रता।
तथाहमिक्ष्वाकुवरं रामं पतिमनुव्रता ॥ 5.24.12 ॥
सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्च्छिताः।
भर्त्सयन्ति स्म परुषैर्वाक्यै रावणचोदिताः ॥ 5.24.13 ॥
अवलीनः स निर्वाक्यो हनुमान् शिंशुपाद्रुमे।
सीतां सन्तर्जयन्तीस्ता राक्षसीरशृणोत् कपिः ॥ 5.24.14 ॥
तामभिक्रम्य सङ्क्रुद्धा वेपमानां समन्ततः।
भृशं संलिलिहुर्दीप्तान् प्रलम्बान् दशनच्छदान् ॥ 5.24.15 ॥
ऊचुश्च परमक्रुद्धाः प्रगृह्याशु परश्वधान्।
नेयमर्हति भर्तारं रावणं राक्षसाधिपम् ॥ 5.24.16 ॥
सम्भर्त्स्यमाना भीमाभी राक्षसीभिर्वरानना।
सा बाष्पमुपामार्जन्ती शिंशुपां तामुपागमत् ॥ 5.24.17 ॥
ततस्तां शिंशुपां सीता राक्षसीभिः समावृता।
अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता ॥ 5.24.18 ॥
तां कृशां दीनवदनां मलिनाम्बरधारिणीम्।
भर्त्सयाञ्चक्रिरे सीतां राक्षस्यस्तां समन्ततः ॥ 5.24.19 ॥
ततस्तां विनता नाम राक्षसी भीमदर्शना।
अब्रवीत् कुपिताकारा कराला निर्णतोदरी ॥ 5.24.20 ॥
सीते पर्याप्तमेतावद्भर्तुः स्नेहो निदर्शितः।
सर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते ॥ 5.24.21 ॥
परितुष्टाऽस्मि भद्रं ते मानुषस्ते कृतो विधिः।
ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि ॥ 5.24.22 ॥
रावणं भज भर्तारं भर्तारं सर्वरक्षसाम्।
विक्रान्तं रूपवन्तं च सुरेशमिव वासवम् ॥ 5.24.23 ॥
दक्षिणं त्यागशीलं च सर्वस्य प्रियदर्शनम् ॥ 5.24.24 ॥
मानुषं कृपणं रामं त्यक्त्वा रावणमाश्रय।
दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता ॥ 5.24.25 ॥
अद्यप्रभृति सर्वेषां लोकानामीश्वरीभव।
अग्नेः स्वाहा यथा देवी शचीवेन्द्रस्य शोभने ॥ 5.24.26 ॥
एतदुक्तं च मे वाक्यं यदि त्वं न करिष्यसि।
अस्मिन् मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम् ॥ 5.24.27 ॥
अन्या तु विकटा नाम लम्बमानपयोधरा।
अब्रवीत् कुपिता सीतां मुष्टिमुद्यम्य गर्जती ॥ 5.24.28 ॥
बहून्यप्रियरूपाणि वचनानि सुदुर्मते।
अनुक्रोशान्मृदुत्वाच्च सोढानि तव मैथिलि ॥ 5.24.29 ॥
न च नः कुरुषे वाक्यं हितं कालपुरस्सरम् ॥ 5.24.30 ॥
आनीतासि समुद्रस्य पारमन्यैर्दुरासदम्।
रावणान्तःपुरं घोरं प्रविष्टा चासि मैथिलि ॥ 5.24.31 ॥
रावणस्य गृहे रुद्धामस्माभिस्तु सुरक्षिताम्।
न त्वां शक्तः परित्रातुमपि साक्षात् पुरन्दरः ॥ 5.24.32 ॥
कुरुष्व हितवादिन्या वचनं मम मैथिलि।
अलमश्रुप्रपातेन त्यज शोकमनर्थकम् ॥ 5.24.33 ॥
भज प्रीतिं प्रहर्षं च त्यजैतां नित्यदैन्यताम्।
सीते राक्षसराजेन सह क्रीड यथासुखम् ॥ 5.24.34 ॥
जानासि हि यथा भीरु स्त्रीणां यौवनमध्रुवम्।
यावन्न ते व्यतिक्रामेत्तावत् सुखमवाप्नुहि ॥ 5.24.35 ॥
उद्यानानि च रम्याणि पर्वतोपवनानि च।
सह राक्षसराजेन चर त्वं मदिरेक्षणे ॥ 5.24.36 ॥
स्त्रीसहस्राणि ते सप्त वशे स्थास्यन्ति सुन्दरि।
रावण भज भर्तारं भर्तारं सर्वरक्षसाम् ॥ 5.24.37 ॥
उत्पाट्य वा ते हृदयं भक्षयिष्यामि मैथिलि।
यदि मे व्याहृतं वाक्यं न यथावत् करिष्यसि ॥ 5.24.38 ॥
ततश्चण्डोदरी नाम राक्षसी क्रोधमूर्च्छिता।
भ्रामयन्ती महच्छूलमिदं वचनमब्रवीत् ॥ 5.24.39 ॥
इमां हरिणलोलाक्षीं त्रासोत्कम्पिपयोधराम्।
रावणेन हृतां दृष्ट्वा दौर्हृदो मे महानभूत् ॥ 5.24.40 ॥
यकृत्प्लीहमथोत्पीडं हृदयं च सबन्धनम्।
अन्त्राण्यपि तथा शीर्षं खादेयमिति मे मतिः ॥ 5.24.41 ॥
ततस्तु प्रघसा नाम राक्षसी वाक्यमब्रवीत्।
कण्ठमस्या नृशंसायाः पीडयाम किमास्यते ॥ 5.24.42 ॥
निवेद्यतां ततो राज्ञे मानुषी सा मृतेति ह।
नात्र कश्चन सन्देहः खादतेति स वक्ष्यति ॥ 5.24.43 ॥
ततस्त्वजामुखी नाम राक्षसी वाक्यमब्रवीत्।
विशस्येमां ततः सर्वाः समान् कुरुत पीलुकान् ॥ 5.24.44 ॥
विभजाम ततः सर्वा विवादो मे न रोचते।
पोयमानीयतां क्षिप्रं लेह्यमुच्चावचं बहु ॥ 5.24.45 ॥
ततः शूर्पणखा नाम राक्षसी वाक्यमब्रवीत्।
अजामुख्या यदुक्तं हि तदेव मम रोचते ॥ 5.24.46 ॥
सुरा चानीयतां क्षिप्रं सर्वशोकविनाशिनी।
मानुषं मांसमास्वाद्य नृत्यामोऽथं निकुम्भिलाम् ॥ 5.24.47 ॥
एवं सम्भर्त्स्यमाना सा सीता सुरसुतोपमा।
राक्षसीभिः सुघोराभिर्घैर्यमुत्सृज्य रोदिति ॥ 5.24.48 ॥