इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः।
सन्दिश्य च ततः सर्वा राक्षसीर्निर्जगाम ह ॥ 5.23.1 ॥
निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते।
राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः ॥ 5.23.2 ॥
ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्च्छिताः।
परं परुषया वाचा वैदेहीमिदमब्रुवन् ॥ 5.23.3 ॥
पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः।
दशग्रीवस्य भार्यात्वं सीते न बहु मन्यसे ॥ 5.23.4 ॥
प्रजापतीनां षण्णां तु चतुर्थो यः प्रजापतिः।
मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः ॥ 5.23.5 ॥
पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः।
नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः ॥ 5.23.6 ॥
तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः।
तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि ॥ 5.23.7 ॥
ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत्।
विवर्त्य नयने कोपान्मार्जारसदृशेक्षणा ॥ 5.23.8 ॥
येन देवास्त्रयस्त्रिंशद्देवराजश्च निर्जिताः।
भर्त्सयन्ती तदा घोरमिदं वचनमब्रवीत् ॥ 5.23.9 ॥
वीर्योत्सिक्तस्य शूरस्य सङ्ग्रामेष्वनिवर्तिनः।
बलिनो वीर्ययुक्तस्य भार्यात्वं किं न लप्स्यसे ॥ 5.23.10 ॥
प्रियां बहुमतां भर्यां त्यक्त्वा राजा महाबलः।
सर्वासां च महाभागां त्वामुपैष्यति रावणः ॥ 5.23.11 ॥
समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम्।
अन्तःपुरं समुत्सृज्य त्वामुपैष्यति रावणः ॥ 5.23.12 ॥
अन्या तु विकटा नाम राक्षसी वाक्यमब्रवीत् ॥ 5.23.13 ॥
असकृद्देवता युद्धे नागगन्धर्वदानवाः।
निर्जिताः समरे येन स ते पार्श्वमुपागतः ॥ 5.23.14 ॥
किमद्य राक्षसेन्द्रस्य भार्यात्वं नेच्छसेऽधमे।
ततस्तु दुर्मुखी नाम राक्षसी वाक्यमब्रवीत् ॥ 5.23.15 ॥
यस्य सूर्यो न तपति भीतो यस्य च मारुतः।
न वाति स्मायतापाङ्गे किं त्वं तस्य न तिष्ठसि ॥ 5.23.16 ॥
पुष्पवृष्टिं च तरवो मुमुचुर्यस्य वै भयात्।
शैलाश्च सुभ्रूः पानीयं जलदाश्च यदेच्छति ॥ 5.23.17 ॥
तस्य नैर्ऋतराजस्य राजराजस्य भामिनि।
किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि ॥ 5.23.18 ॥
साधु ते तत्त्वतो देवि कथितं साधु भामिनि।
गृहाण सुस्मिते वाक्यमन्यथा न भविष्यसि ॥ 5.23.19 ॥