सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः।
प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम् ॥ 5.22.1 ॥
यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा।
यथा यथा प्रियं वक्ता परिभूतस्तथा तथा ॥ 5.22.2 ॥
सन्नियच्छति मे क्रोधं त्वयि कामः समुत्थितः।
द्रवतोऽमार्गमासाद्य हयानिव सुसारथिः ॥ 5.22.3 ॥
वामः कामो मनुष्याणां यस्मिन् किल निबद्ध्यते।
जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते ॥ 5.22.4 ॥
एतस्मात्कारणान्न त्वां घातयामि वरानने।
वधार्हामवमानार्हां मिथ्या प्रव्रजिते रताम् ॥ 5.22.5 ॥
परुषाणीह वाक्यानि यानि यानि ब्रवीषि माम्।
तेषु तेषु वधो युक्तस्तव मैथिलिदारुणः ॥ 5.22.6 ॥
एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः।
क्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत् ॥ 5.22.7 ॥
द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः।
ततः शयनमारोह त्वं वरवर्णिनि ॥ 5.22.8 ॥
ऊर्ध्वं द्वाभ्यां तु मासाभ्यां भर्तारं मामनिच्छतीम्।
मम त्वां प्रातराशार्थमारभन्ते महानसे ॥ 5.22.9 ॥
तां तर्ज्यमानां सम्प्रेक्ष्य राक्षसेन्द्रेण जानकीम्।
देवगन्धर्वकन्यास्ता विषेदुर्विकृतेक्षणाः ॥ 5.22.10 ॥
ओष्ठप्रकारैरपरा वक्त्रनेत्रैस्तथाऽपराः।
सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा ॥ 5.22.11 ॥
ताभिराश्वासिता सीता रावणं राक्षसाधिपम्।
उवाचात्महितं वाक्यं वृत्तशौष्डीर्यगर्वितम् ॥ 5.22.12 ॥
नूनं न ते जनः कश्चिदस्ति निःश्रेयसे स्थितः।
निवारयति यो न त्वां कर्मणोऽस्याद्विगर्हितात् ॥ 5.22.13 ॥
मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः।
त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसाऽपि कः ॥ 5.22.14 ॥
राक्षसाधमरामस्य भार्याममिततेजसः।
उक्तवानसि यच्छापं क्व गतस्तस्य मोक्ष्यसे ॥ 5.22.15 ॥
यथा दृप्तश्च मातङ्गः शशश्च सहितो वने।
तथा द्विरदवद्रामस्त्वं नीच शशवत् स्मृतः ॥ 5.22.16 ॥
स त्वमिक्ष्वाकुनाथं वै क्षिपन्निह न लज्जसे।
चक्षुषोर्विषयं तस्य न तावदुपगच्छसि ॥ 5.22.17 ॥
इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गले।
क्षितौ न पतिते कस्मान्मामनार्य निरीक्षितः ॥ 5.22.18 ॥
तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य च।
कथं व्याहरतो मां तेन न जिह्वा व्यवशीर्यते ॥ 5.22.19 ॥
असन्देशात्तु रामस्य तपसश्चानुपालनात्।
न त्वां कुर्मि दशग्रीव भस्म भस्मार्ह तेजसा ॥ 5.22.20 ॥
नापहर्तुमहं शक्या तस्य रामस्य धीमतः।
विधिस्तव वधार्थाय विहितो नात्र संशयः ॥ 5.22.21 ॥
शूरेण धनदभ्रात्रा बलैः समुदितेन च।
अपोह्य रामं कस्माद्धि दारचौर्यं त्वया कृतम् ॥ 5.22.22 ॥
सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः।
विवृत्य नयने क्रूरे जानकीमन्ववैक्षत ॥ 5.22.23 ॥
नीलजीमूतसङ्काशो महाभुजशिरोधरः।
सिंहसत्त्वगतिः श्रीमान् दीप्तजिह्वाग्रलोचनः ॥ 5.22.24 ॥
चलाग्रमुकुटप्रांशुश्चित्रमाल्यानुलेपनः।
रक्तमाल्याम्बरधरस्तप्ताङ्गदविभूषणः ॥ 5.22.25 ॥
श्रोणीसूत्रेण महता मेचकेन सुसंवृतः।
अमृतोत्पादनद्धेन भुजगेनेव मन्दरः ॥ 5.22.26 ॥
ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः।
शुशुभेऽचलसङ्काशः श्रृङ्गाभ्यामिव मन्दरः ॥ 5.22.27 ॥
तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः।
रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः ॥ 5.22.28 ॥
स कल्पवृक्षप्रतिमो वसन्त इव मूर्तिमान्।
श्मशानचैत्यप्रितिमो भूषितोऽपि भयङ्करः ॥ 5.22.29 ॥
अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः।
उवाच रावणः सीतां भुजङ्ग इव निःश्वसन् ॥ 5.22.30 ॥
अनयेनाभिसम्पन्नमर्थहीनमनुव्रते।
नाशयाम्यहमद्य त्वां सूर्यः सन्ध्यामिवौजसा ॥ 5.22.31 ॥
इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः।
सन्दिदेश ततः सर्वां राक्षसीर्घोरदर्शनाः ॥ 5.22.32 ॥
एकाक्षीमेककर्णां च कर्णप्रावराणां तथा।
गोकर्णीं हस्तिकर्णीं च लम्बकर्णीमकर्णिकाम् ॥ 5.22.33 ॥
हस्तिपाद्यश्वपाद्यौ च गोपादीं पादचूलिकाम्।
एकाक्षीमेकपादीं च पृथुपादीमपादिकाम् ॥ 5.22.34 ॥
अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम्।
अतिमात्रास्यनेत्रं च दीर्घजिह्वामजिह्विकाम् ॥ 5.22.35 ॥
अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम्।
यथा मद्वशगा सीता क्षिप्रं भवति जानकी ॥ 5.22.36 ॥
प्रतिलोमानुलोमैश्च सामदानादिभेदनैः।
आवर्जयत वैदेहीं दण्डस्योद्यमनेन च ॥ 5.22.37 ॥
इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः।
काममन्युपरीतात्मा जारकीं पर्यतर्जयत् ॥ 5.22.38 ॥
उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी।
परिष्वज्य दशग्रीवमिदं वचनमब्रवीत् ॥ 5.22.39 ॥
मया क्रीड महाराज सीतया किं तवानया।
विवर्णया कृपणया मानुष्या राक्षसेश्वर ॥ 5.22.40 ॥
नूनमस्या महाराज न दिव्यान् भोगसत्तमान्।
विदधात्यमरश्रेष्ठस्तव बाहुबलार्जितान् ॥ 5.22.41 ॥
अकामां कामयानस्य शरीरमुपतप्यते।
इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना ॥ 5.22.42 ॥
एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली।
प्रहसन् मेघसङ्काशो राक्षसः स न्यवर्तत ॥ 5.22.43 ॥
प्रस्थितः स दशग्रीवः कम्पयन्निव मेदिनीम्।
ज्वलद्भास्करवर्णाभं प्रविवेश निवेशनम् ॥ 5.22.44 ॥
देवगन्धर्वकन्याश्च नागकन्याश्च सर्वतः।
परिवार्य दशग्रीवं विविशुस्तद्गृहोत्तमम् ॥ 5.22.45 ॥
स मैथिलीं धर्मपरामवस्थितां प्रवेपमानां परिभर्त्स्य रावणः।
विहाय सीतां मदनेन मोहितः स्वमेव वेश्म प्रविवेश भास्वरम् ॥ 5.22.46 ॥