तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः।
आर्ता दीनस्वरा दीनं प्रत्युवाच शनैर्वचः ॥ 5.21.1 ॥
चिन्तयन्ती वरारोहा पतिमेव पतिव्रता।
तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता ॥ 5.21.2 ॥
निवर्तय मनो मत्तः स्वजने क्रियतां मनः।
न मां प्रार्थयितुं युक्तं सुसिद्धिमिव पापकृत् ॥ 5.21.3 ॥
अकार्यं न मया कार्यमेकपत्न्या विगर्हितम्।
कुलं सम्प्राप्तया पुण्यं कुले महति जातया ॥ 5.21.4 ॥
एवमुक्त्वा तु वैदेही रावणं तं यशस्विनी।
राक्षसं पृष्ठतः कृत्वा भूयो वचनमब्रवीत् ॥ 5.21.5 ॥
नाहमौपयिकी भार्या परभार्या सती तव।
साधुधर्मवेक्षस्व साधु साधुव्रतं चर ॥ 5.21.6 ॥
यथा तव तथाऽन्येषां दारा रक्ष्या निशाचर।
आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम् ॥ 5.21.7 ॥
अतुष्टं स्वेषु दारेषु चपलं चलितेन्द्रितम्।
नयन्ति निकृतिप्रज्ञं परदाराः पराभवम् ॥ 5.21.8 ॥
इह सन्तो न वा सन्ति सतो वा नानुवर्तसे।
तथाहि विपरीता ते बुद्धिराचारवर्जिता ॥ 5.21.9 ॥
वचो मिथ्याप्रणीतात्मा पथ्यमुक्तं विचक्षणैः।
राक्षसानामभावाय त्वं वा न प्रतिपद्यसे ॥ 5.21.10 ॥
अकृतात्मानमासाद्य राजानमनये रतम्।
समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च ॥ 5.21.11 ॥
तथेयं त्वां समासाद्य लङ्का रत्नौघसङ्कुला।
अपराधात्तवैकस्य नचिराद्विनशिष्यति ॥ 5.21.12 ॥
स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनः।
अभिनन्दन्ति भूतानि विनाशे पापकर्मणः ॥ 5.21.13 ॥
एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः।
दिष्ट्यैतद्व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः ॥ 5.21.14 ॥
शक्या लोभयितुं नाहमैश्वर्येण धनेन वा।
अनन्या राघवेणाहं भास्करेण प्रभा यथा ॥ 5.21.15 ॥
उपधाय भुजं तस्य लोकनाथस्य सत्कृतम्।
कथं नामोपधास्यामि भुजमन्यस्य कस्यचित् ॥ 5.21.16 ॥
अहमौपयिकी भार्या तस्यैव वसुधापतेः।
व्रतस्नातस्य धीरस्य विद्येव विदितात्मनः ॥ 5.21.17 ॥
साधु रावण रामेण मां समानय दुःखिताम्।
वने वाशितया सार्धं करेण्वेव गजाधिपम् ॥ 5.21.18 ॥
वधं चानिच्छता घोरं त्वयाऽसौ पुरुषर्षभः।
विदितः स हि धर्मज्ञः शरणागतवत्सलः ॥ 5.21.19 ॥
तेन मैत्री भवतु ते यदि जीवितुमिच्छसि।
प्रसादयस्व त्वं चैनं शरणागतवत्सलम् ॥ 5.21.20 ॥
मां चास्मै प्रयतो भूत्वा निर्यातयितुमर्हसि ॥ 5.21.21 ॥
एवं हि ते भवेत् स्वस्ति सम्प्रदाय रघूत्तमे।
अन्यथा त्वं हि कुर्वाणो वधं प्राप्यसि रावण ॥ 5.21.22 ॥
वर्जयेद्वज्रमुत्सृष्टं वर्जयेदन्तकश्चिरम्।
त्वद्विधं तु न सङ्क्रुद्धौ लोकनाथः स राघवः ॥ 5.21.23 ॥
रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम्।
शतक्रतुविसृष्टस्य निर्घोषमशनेरिव ॥ 5.21.24 ॥
इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः।
इषवो निपतिष्यन्ति रामलक्ष्मणलक्षणाः ॥ 5.21.25 ॥
रक्षांसि परिनिघ्नन्तः पुर्यामस्यां समन्ततः।
असम्पातं करिष्यन्ति पतन्तः कङ्कवाससः ॥ 5.21.26 ॥
राक्षसेन्द्रमहासर्पान् स रामगरुडो महान्।
उद्धरिष्यति वेगेन वैनतेय इवोरगान् ॥ 5.21.27 ॥
अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिन्दमः।
असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः ॥ 5.21.28 ॥
जनस्थाने हतस्थाने निहते रक्षसां बले।
अश्क्तेन त्वया रक्षः कृतमेतदसाधु वै ॥ 5.21.29 ॥
आश्रमं तु तयोः शून्यं प्रविश्य नरसिंहयोः।
गोचरं गतयोर्भ्रात्रोरपनीता त्वयाऽधम ॥ 5.21.30 ॥
नहि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया।
शक्यं सन्दर्शने स्थातुं शुना शार्दूलयोरिव ॥ 5.21.31 ॥
तस्य ते विग्रहे ताभ्यां युगग्रहणमस्थिरम्।
वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य निग्रहः ॥ 5.21.32 ॥
क्षिप्रं तव स नाथो मे रामः सौमित्रिणा सह।
तोयमल्पमिवादित्यः प्राणानादास्यते शरैः ॥ 5.21.33 ॥
गिरिं कुबेरस्य गतोऽपधाय वा सभां गतो वा वरुणस्य राज्ञः।
असंशयं दाशरथेर्न मोक्ष्यसे महाद्रुमः कालहतोऽशनेरिव ॥ 5.21.34 ॥