०२० सीता-रावणसंवादः

स तां पतिव्रतां दीनान्निरानन्दां तपस्विनीम्।
साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः ॥ 5.20.1 ॥
मां दृष्ट्वा नागनासोरु गूहमाना स्तनोदरम्।
अदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि ॥ 5.20.2 ॥
कामये त्वां विशालाक्षि बहु मन्यस्व मां प्रिये।
सर्वाङ्गगुणसम्पन्ने सर्वलोकमनोहरे ॥ 5.20.3 ॥
नेह केचिन्मनुष्या वा राक्षसाः कामरुपिणः।
व्यपसर्पतु ते सीते भयं मत्तः समुत्थितम् ॥ 5.20.4 ॥
स्वधर्मो रक्षसां भीरु सर्वथैव न संशयः।
गमनं वा परस्त्रीणां हरणं सम्प्रमथ्य वा ॥ 5.20.5 ॥
एवं चैतदकामां तु न त्वां स्प्रक्ष्यामि मैथिलि।
काम कामः शरीरे मे यथाकामं प्रवर्तताम् ॥ 5.20.6 ॥
देवि नेह भयं कार्यं मयि विश्वसिहि प्रिये।
प्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा ॥ 5.20.7 ॥
एकवेणी धराशय्या ध्यानं मलिनमम्बरम्।
अस्थानेऽप्युपवासश्च नैतान्यौपयिकानि ते ॥ 5.20.8 ॥
विचित्राणि च माल्यानि चन्दनान्यगुरूणि च।
विविधानि च वासांसि दिव्यान्याभरणानि च ॥ 5.20.9 ॥
महार्हाणि च पानानि शयनान्यासनानि च।
गीतं नृत्त च वाद्यं च लभ मां प्राप्य मैथिलि ॥ 5.20.10 ॥
स्त्रीरत्नमसि मैवं भूः कुरु गात्रेषु भूषणम्।
मां प्राप्य हि कथं नु स्यास्त्वमनर्हा सुविग्रहे ॥ 5.20.11 ॥
इदं ते चारु सञ्जातं यौवनं व्यतिवर्तते।
यदतीतं पुनर्नैति स्रोतः शीघ्रमपामिव ॥ 5.20.12 ॥
त्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वसृक्।
न हि रूपोपमा त्वन्या तवास्ति शुभदर्शने ॥ 5.20.13 ॥
त्वां समासाद्य वैदेहि रूपयौवनशालिनीम्।
कः पुमानतिवर्तेत साक्षादपि पितामहः ॥ 5.20.14 ॥
यद्यत् पश्यामि ते गात्रं शीतांशुसदृशानने।
तस्मिंस्तस्मिन् पृथुश्रोणि चक्षुर्मम निबद्ध्यते ॥ 5.20.15 ॥
बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः।
सर्वासामेव भद्रं ते ममाग्रमहिषी भव ॥ 5.20.16 ॥
लोकेभ्यो यानि रत्नानि सम्प्रमथ्याहृतानि वै।
तानि मे भीरु सर्वाणि राज्यं चैतदहं च ते ॥ 5.20.17 ॥
विजित्य पृथिवीं सर्वां नानानगरमालिनीम्।
जनकाय प्रदास्यामि तव हेतोर्विलासिनि ॥ 5.20.18 ॥
नेह पश्यामि लोकेऽन्यं यो मे प्रतिबलो भवेत्।
पश्य मे सुमहद्वीर्यमप्रतिद्वन्द्वमाहवे ॥ 5.20.19 ॥
असकृत् संयुगे भग्ना मया विमृदितध्वजाः।
अशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः ॥ 5.20.20 ॥
इच्छया क्रियतामद्य प्रतिकर्म तवोत्तमम् ॥ 5.20.21 ॥
सप्रभाण्यवसज्यन्तां तवाङ्गे भूषणानि च।
साधु पश्यामि रूपं संयुक्तं प्रतिकर्मणा ॥ 5.20.22 ॥
प्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने।
भुङ्क्ष्व भोगान् यथाकामं पिब भीरु रमस्व च ॥ 5.20.23 ॥
ललस्व मयि विस्रब्धा धृष्टमाज्ञापयस्व च।
मत्प्रसादाल्ललन्त्याश्च ललन्तां बान्धवास्तव ॥ 5.20.24 ॥
ऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशश्च मे ॥ 5.20.25 ॥
निक्षिप्त विजयो रामो गत श्रीर्वनगोचरः।
व्रती स्थण्डिलशायी च शङ्के जीवति वा न वा ॥ 5.20.26 ॥
नहि वैदेहि रामस्त्वां द्रष्टुं वाप्युपलप्स्यते।
पुरोबलाकैरसितैर्मेघैर्ज्योत्स्नामिवावृताम् ॥ 5.20.27 ॥
न चापि मम हस्तात्त्वां प्राप्तुमर्हति राघवः।
हिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामिव ॥ 5.20.28 ॥
चारुस्मिते चारुदति चारुनेत्रे विलासिनि।
मनो हरसि मे भीरु सुपर्णः पन्नगं यथा ॥ 5.20.29 ॥
क्लिष्टकौशोयवसनां तन्वीमप्यनलङ्कृताम्।
त्वां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम् ॥ 5.20.30 ॥
अन्तः पुरनिवासिन्यः स्त्रियः सर्वगुणान्विताः।
यावन्त्यो मम सर्वासामैश्वर्यं कुरु जानकि ॥ 5.20.31 ॥
मम ह्यसितकेशान्ते त्रैलोक्यप्रवराः स्त्रियः।
तास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा ॥ 5.20.32 ॥
यानि वैश्रवणे सुभ्रु रत्नानि च धनानि च।
तानि लोकांश्च सुश्रोणि मां च भुङ्क्ष्व यथासुखम् ॥ 5.20.33 ॥
न रामस्तपसा देवि न बलेन न विक्रमैः।
न धनेन मया तुल्यस्तेजसा यशसापि वा ॥ 5.20.34 ॥
पिब विहर रमस्व भुङ्क्ष्व भोगान् धननिचयं प्रदिशामि मेदिनीं च।
मयि लल ललने यथासुखं त्वं त्वयि च समेत्य ललन्तु बान्धवास्ते ॥ 5.20.35 ॥
कुसुमिततरुजालसन्ततानि भ्रमरयुतानि समुद्रतीरजानि।
कनकविमलहारभूषिताङ्गी विहर मया सह भीरु काननानि ॥ 5.20.36 ॥