०१९ रावणेन सीतादर्शनम्

तस्मिन्नेव ततः काले राजपुत्री त्वनिन्दिता।
रूपयौवनसम्पन्नं भूषणोत्तमभूषितम् ॥ 5.19.1 ॥
ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपम्।
प्रावेपत वरारोहा प्रवाते कदली यथा ॥ 5.19.2 ॥
आच्छाद्योदरमूरुभ्यां बाहुभ्यां च पयोधरौ।
उपविष्टा विशालाक्षी रुदन्ती वरवर्णिनी ॥ 5.19.3 ॥
दशग्रीवस्तु वैदेहीं रक्षितां राक्षसीगणैः।
ददर्श सीतां दुःखार्तां नावं सन्नामिवार्णवे ॥ 5.19.4 ॥
असंवृतायामासीनां धरण्यां संशितव्रताम्।
छिन्नां प्रपतितां भूमौ शाखामिव वनस्पतेः ॥ 5.19.5 ॥
मलमण्डनचित्राङ्गीं मण्डनार्हाममण्डिताम्।
मृणाली पङ्कदिग्धेव विभाति न विभाति च ॥ 5.19.6 ॥
समीपं राजसिंहस्य रामस्य विदितात्मनः।
सङ्कल्पहयसंयुक्तैर्यान्तीमिव मनोरथैः ॥ 5.19.7 ॥
शुष्यन्तीं रुदतीमेकां ध्यानशोकपरायणाम्।
दुःखस्यान्तमपश्यन्तीं रामां राममनुव्रताम् ॥ 5.19.8 ॥
वेष्टमानां तथाऽऽविष्टां पन्नगेन्द्रवधूमिव।
धूप्यमानां ग्रहेणेव रोहिणीं धूमकेतुना ॥ 5.19.9 ॥
वृत्तशीलकुले जातामाचारवति धार्मिके।
पुनः संस्कारमापन्नां जातामिव च दुष्कुले ॥ 5.19.10 ॥
अभूतेनापवादेन कीर्तिं निपतितामिव।
आम्नायानामयोगेन विद्यां प्रशिथिलामिव ॥ 5.19.11 ॥
सन्नामिव महाकीर्तिं श्रद्धामिव विमानिताम्।
पूजामिव परिक्षीणामाशां प्रतिहतामिव ॥ 5.19.12 ॥
आयतीमिव विध्वस्तामाज्ञां प्रतिहतामिव।
दीप्तामिव दिशं काले पूजामपहृतामिव ॥ 5.19.13 ॥
पद्मिनीमिव विध्वस्तां हतशूरां चमूमिव।
प्रभामिव तमोध्वस्तामुपक्षीणामिवापगाम् ॥ 5.19.14 ॥
वेदीमिव परामृष्टां शान्तामग्निशिखामिव।
पौर्णमासीमिव निशां राहुग्रस्तेन्दुमण्डलाम् ॥ 5.19.15 ॥
उत्कृष्टापर्णकमलां वित्रासितविहङ्गमाम्।
हस्तिहस्तपरामृष्टामाकुलां पद्मिनीमिव ॥ 5.19.16 ॥
पतिशौकातुरां शुष्कां नदीं विस्रावितामिव।
परया मृजया हीनां कृष्णपक्षनिशामिव ॥ 5.19.17 ॥
सुकुमारीं सुजाताङ्गी रत्नगर्भगृहोचिताम्।
तप्यभानामिवोष्णेन मृणालीमचिरोद्धृताम् ॥ 5.19.18 ॥
गृहीतामालितां स्तम्भे यूथपेन विनाकृताम्।
निःश्वसन्तीं सुदुःखार्तां गजराजवधूमिव ॥ 5.19.19 ॥
एकया दीर्घया वेण्या सोभमानामयत्नतः।
नीलया नीरदापाये वनराज्या महीमिव ॥ 5.19.20 ॥
उपवासेन शोकेन ध्यनेन च भयेन च।
परिक्षीणां कृशां दीनामल्पाहारां तपोधनाम् ॥ 5.19.21 ॥
आयाचमानां दःखार्तां प्राञ्जलिं देवतामिव।
भावेन रघुमुख्यस्य दशग्रीवपराभवम् ॥ 5.19.22 ॥
समीक्षमाणां रुदतीमनिन्दितां सुपक्ष्मताम्रायलोचनाम्।
अनुव्रतां राममतीव मैथिलीं प्रलोभयामास वधाय रावणः ॥ 5.19.23 ॥