०१८ अशोकवाटिकायां रावणागमनम्

तथा विप्रेक्षमाणस्य वनं पुष्पितपादपम्।
विचिन्वतश्च वैदेहीं किञ्चिच्छेषा निशाऽभवत् ॥ 5.18.1 ॥
षडङ्गवेदविदुषां क्रतुप्रवरयाजिनाम्।
शुश्राव ब्रह्मघोषांश्च विरात्रे ब्रह्मरक्षसाम् ॥ 5.18.2 ॥
अथ मङ्गलवादित्रैः शब्दैः श्रोत्रमनोहरैः।
प्राबुध्यत महाबाहुर्दशग्रीवो महाबलः ॥ 5.18.3 ॥
विबुध्य तु यथाकाले राक्षसेन्द्रः प्रतापवान्।
स्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयत् ॥ 5.18.4 ॥
भृशं नियुक्तस्तस्यां च मदनेन मदोत्कटः।
न स तं राक्षसः कामं शशाकात्मनि गूहितुम् ॥ 5.18.5 ॥
स सर्वाभरणैर्युक्तो बिभ्रच्छ्रियमनुत्तमाम्।
तां नगैर्बहुभिर्जुष्टां सर्वपुष्पफलोपगैः ॥ 5.18.6 ॥
वृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम्।
सदामदैश्च विहगैर्विचित्रां परमाद्भुताम् ॥ 5.18.7 ॥
ईहामृगैश्च विविधैर्जुष्टां दृष्टिमनोहरैः।
वीथीः सम्प्रेक्षमाणश्च मणिकाञ्चनतोरणाः ॥ 5.18.8 ॥
नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम्।
अशोकवनिकामेव प्राविशत् सन्ततद्रुमाम् ॥ 5.18.9 ॥
अङ्गनाशतमात्रं तु तं व्रजन्तामनुव्रजत्।
महेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः ॥ 5.18.10 ॥
दीपिकाः काञ्चनीः काश्चिज्जगृहृस्तत्र योषितः।
वालव्यजनहस्ताश्च तालवृन्तानि चापराः ॥ 5.18.11 ॥
काञ्चनैरपि भृङ्गारैर्जहुः सलिलमग्रतः।
मण्डलाग्रान् बृसीं चैव गृह्यान्याः पृष्ठतो ययुः ॥ 5.18.12 ॥
काचिद्रत्नमयीं स्थालीं पूर्णां पानस्य भामिना।
दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना ॥ 5.18.13 ॥
राजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम्।
सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ ॥ 5.18.14 ॥
निद्रामदपरीताक्ष्यो रावणस्योत्तमाः स्त्रियः।
अनुजग्मुः पतिं वीरं धनं विद्युल्लता इव ॥ 5.18.15 ॥
व्याविद्धहारकेयूराः समामृदितवर्णकाः।
समागलितकेशान्ताः सस्वेदवदनास्तथा ॥ 5.18.16 ॥
घूर्णन्त्यो मदशेषेण निद्र्या च शुभाननाः।
स्वेदक्लिष्टाङ्गकुसुमाः सुमाल्याकुलमूर्धजाः ॥ 5.18.17 ॥
प्रयान्तं नैर्ऋतपतिं नार्यो मदिरलोचनाः।
बहुमानाच्च कामाच्च प्रिया भार्यास्तमन्वयुः ॥ 5.18.18 ॥
स च कामपराधीनाः पतिस्तासां महाबलः।
सीतासक्तमना मन्दो मदाञ्चितगतिर्बभौ ॥ 5.18.19 ॥
ततः काञ्चीनिनादं च नूपुराणां च निःस्वनम्।
शुश्राव परमस्त्रीणां स कपिर्मारुतात्मजः ॥ 5.18.20 ॥
तं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम्।
द्वारदेशमनुप्राप्तं ददर्श हनुमान् कपिः ॥ 5.18.21 ॥
दीपिकाभिरनेकाभिः समन्तादवभासितम्।
गन्धतैलावसिक्ताभिर्ध्रियमाणाभिरग्रतः ॥ 5.18.22 ॥
कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम्।
समक्षमिव कन्दर्पमपविद्धशरासनम् ॥ 5.18.23 ॥
मथितामृतफेनाभमरजो वस्त्रमुत्तमम्।
सलीलमनुकर्षन्तं विमुक्तं सक्तमङ्गदे ॥ 5.18.24 ॥
तं पत्रविटपे लीनः पत्रपुष्पघनावृतः।
समीपमिव सङ्क्रान्तं निध्यातुमुपचक्रमे ॥ 5.18.25 ॥
अवेक्षमाणस्तु ततो ददर्श कपिकुञ्जरः।
रूपयौवनसम्पन्ना रावणस्य वरस्त्रियः ॥ 5.18.26 ॥
ताभिः परिवृतो राजा सुरूपाभिर्महायशाः।
तन्मृगद्विजसंवुष्टं प्रविष्टः प्रमदावनम् ॥ 5.18.27 ॥
क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः।
तेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः ॥ 5.18.28 ॥
वृतः परमनारीभिस्ताराभिरिव चन्द्रमाः।
तं ददर्श महातेजास्तेजोवन्तं महाकपिः ॥ 5.18.29 ॥
रावणोऽयं महाबाहुरिति सञ्चिन्त्य वानरः।
अवप्लुतो महातेजा हनुमान् मारुतात्मजः ॥ 5.18.30 ॥
स तथा प्युग्रतेजाः सन् निर्धूतस्तस्य तेजसा।
पत्रगुह्यान्तरे सक्तो हनुमान् संवृतोऽभवत् ॥ 5.18.31 ॥
स तामसितकेशान्तां सुश्रोणीं संहतस्तनीम्।
दुदृक्षुरसितापाङ्गामुपावर्तत रावणः ॥ 5.18.32 ॥