ततः कुमुदषण्डाभो निर्मलो निर्मलं स्वयम्।
प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम् ॥ 5.17.1 ॥
साचिव्यमिव कुर्वन् स प्रभया निर्मलप्रभः।
चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम् ॥ 5.17.2 ॥
स ददर्श ततः सीतां पूर्णचन्द्रनिभाननाम्।
शोकभारैरिव न्यस्तां भारैर्नावमिवाम्भसि ॥ 5.17.3 ॥
दिदृक्षमाणो वैदेहीं हनुमान् मारुतात्मजः।
स ददर्शाविदूरस्था राक्षसीर्घोरदर्शनाः ॥ 5.17.4 ॥
एकाक्षीमेककर्णां च कर्णप्रावराणां तथा।
अकर्णां शङ्कुकर्णां च मस्तकीच्छ्वासनासिकाम् ॥ 5.17.5 ॥
अतिकायोत्तमाङ्गीं च तनुदार्घशिरोधराम्।
ध्वस्तकेशीं तथाऽकेशीं केशकम्बलधारिणीम् ॥ 5.17.6 ॥
लम्बकर्णललाटां च लम्बोदरपयोधराम्।
लम्बोष्ठीं चुबुकोष्ठीं च लम्बास्यां लम्बजानुकाम् ॥ 5.17.7 ॥
ह्रस्वदीर्घां तथा कुब्जां विकटां वामनां तथा।
करालां भुग्नवक्त्रां च पिङ्गाक्षीं विकृताननाम् ॥ 5.17.8 ॥
विकृताः पिङ्गलाः कालीः क्रोधनाः कलहप्रियाः।
कालायसमहाशूलकृटमुद्गरधारिणीः ॥ 5.17.9 ॥
वराहमृगशार्दूलमहिषाजशिवामुखीः।
गजोष्ट्रहयपादीश्च निखातशिरसोऽपराः ॥ 5.17.10 ॥
एकहस्तैकपादाश्च खरकर्ण्यः श्वकर्णिकाः।
गोकर्णीर्हस्तिकर्णीश्च हरिकर्णीस्तथाऽपराः ॥ 5.17.11 ॥
अनासा अतिनासाश्च तिर्यङ्नासा विनासिकाः।
गजसन्निभनासाश्च ललाटोच्छ्वासनासिकाः ॥ 5.17.12 ॥
हस्तिपादा महापादा गोपादाः पादचूडिकाः।
अतिमात्रशिरोग्रीवा अतिमात्रकुचोदरीः ॥ 5.17.13 ॥
अतिमात्रास्यनेत्रश्च दीर्घजिह्वानखास्तथा।
अजामुखीर्हस्तिमुखीर्गोमुखीः सूकरीमुखीः ॥ 5.17.14 ॥
हयोष्ट्रखरवक्त्राश्च राक्षसीर्घोरदर्शनाः।
शूलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः ॥ 5.17.15 ॥
कराला धूम्रकेशीश्च राक्षसीर्विकृताननाः।
पिबन्तीः सततं पानं सदा मांससुराप्रियाः ॥ 5.17.16 ॥
ता ददर्श कपिश्रेष्ठो सोमहर्षणदर्शनाः।
स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिम् ॥ 5.17.17 ॥
तस्याधस्ताच्च तां देवीं राजपुत्रीमनिन्दिताम्।
लक्षयामास लक्ष्मीवान् हनुमान् जनकात्मजाम् ॥ 5.17.18 ॥
निष्प्रभां शोकसन्तप्तां मलसङ्कुलमूर्धजाम् ॥ 5.17.19 ॥
क्षीणपुण्यां च्युतां भूमौ तारां निपतितामिव।
चारित्रव्यपदेशाढ्यां भर्तृदर्शनदुर्गताम् ॥ 5.17.20 ॥
भूषणैरुत्तमैर्हीनां भर्तृवात्सल्यभूषणाम्।
राक्षसाधिपसंरुद्धां बन्धुभिश्च विनाकृताम् ॥ 5.17.21 ॥
चन्द्ररेखां पयोदान्ते शारदाभ्रैरिवावृताम्।
क्लुष्टरूपामसंस्पर्शादयुक्तामिव वल्लकीम् ॥ 5.17.22 ॥
सीतां भर्तृवशे युक्तामयुक्तां राक्षसीवशे ॥ 5.17.23 ॥
अशोकवनिकामध्ये शोकसागरमाप्लुताम्।
ताभिः परिवृतां तत्र सग्रहामिव रोहिणीम् ॥ 5.17.24 ॥
सा मलेन च दिग्धाङ्गी वपुषा चाप्यलङ्कृता।
मृणाली पङ्कदिग्धेव विभाति न विभाति च ॥ 5.17.25 ॥
मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम् ॥ 5.17.26 ॥
तां देवीं दीनवदनामदीनां भर्तृतेजसा।
रक्षितां स्वेन शीलेन सीतामसितलोचनाम् ॥ 5.17.27 ॥
तां दृष्ट्वा हनुमान् सीतां मृगशावनिभेक्षणाम् ॥ 5.17.28 ॥
मृगकन्यामिव त्रस्तां वीक्षमाणां समन्ततः।
दहन्तीमिव निःश्वासैर्वृक्षान् पल्लवधारिणः ॥ 5.17.29 ॥
ता क्षमां सुविभक्ताङ्गीं विनाभरणशोभिनीम्।
प्रहर्षमतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम् ॥ 5.17.30 ॥
मुमोच हनुमांस्तत्र नमश्चक्रे च राघवम्।
कारकविभक्तेर्बलीयस्त्वान्नमस्करोति देवानित्यादाविव द्वितीया ॥ 5.17.31 ॥
नमस्कृत्वा स रामाय लक्ष्मणाय च वीर्यवान्।
सीतादर्शनसंहृष्टो हनुमान् संवृतोऽभवत् ॥ 5.17.32 ॥