प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुङ्गवः।
गुणाभिरामं रामं च पुनश्चिन्तापरोऽभवत् ॥ 5.16.1 ॥
स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः।
सीतामाश्रित्य तेजस्वी हनुमान् विललाप ह ॥ 5.16.2 ॥
मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया।
यदि सीतापि दुःखार्ता कालो हि दुरतिक्रमः ॥ 5.16.3 ॥
रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः।
नात्यर्थं क्षुभ्यते देवी गङ्गेव जलदागमे ॥ 5.16.4 ॥
तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम्।
राघवोऽर्हति वैदेहीं तं चेयमसितेक्षणा ॥ 5.16.5 ॥
तां दृष्ट्वा नवहेमाभां लोककान्तामिव श्रियम्।
जगाम मनसा रामं वचनं चेदमब्रवीत् ॥ 5.16.6 ॥
अस्या हेतोर्विशालाक्ष्या हतो वाली महाबलः।
रावणप्रतिमो वीर्ये कबन्धश्च निपातितः ॥ 5.16.7 ॥
विराधश्च हतः सङ्ख्ये राक्षसो भीमविक्रमः।
वने रामेण विक्रम्य महेन्द्रेणेव शम्बरः ॥ 5.16.8 ॥
चतुर्दश सहस्रीणि रक्षसां भीमकर्मणाम्।
निहतानि जनस्थाने शरैरग्निशिखोपमैः ॥ 5.16.9 ॥
खरश्च निहतः सङ्ख्ये त्रिशिराश्च निपातितः।
दूषणश्च महातेजा रामेण विदितात्मना ॥ 5.16.10 ॥
ऐश्वर्यं वानराणां च दुर्लभं वालिपालितम्।
अस्या निमित्ते सुग्रीवः प्राप्तवान् लोकसत्कृतम् ॥ 5.16.11 ॥
सागरश्च मया क्रान्तः श्रीमान्नदनदीपतिः।
अस्या होतोर्विशालाक्ष्याः पुरी चेयं निरीक्षिता ॥ 5.16.12 ॥
यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत्त्।
अस्याः कृते जगच्चापि युक्तमित्येव मे मतिः ॥ 5.16.13 ॥
राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा।
त्रैलोक्यराज्यं सकलं सीताया नाप्नुयात् कलाम् ॥ 5.16.14 ॥
इयं सा धर्मशीलस्य मैथिलस्य महात्मनः।
सुता जनकराजस्य सीता भर्तृदृढव्रता ॥ 5.16.15 ॥
उत्थिता मेदिनीं भित्त्वा क्षेत्रे हलमुखक्षते।
पद्मरेणुनिभैः कीर्णा शुभैः केदारपांसुभिः ॥ 5.16.16 ॥
विक्रान्तस्यार्यशीलस्य संयुगेष्वनिवर्तिनः।
स्नुषा दशरथस्यैषा ज्येष्ठा राज्ञो यशस्विनी ॥ 5.16.17 ॥
धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः।
इयं सा दयिता भार्या राक्षसीवशमागता ॥ 5.16.18 ॥
सर्वान् भोगान् परित्यज्य भर्तृस्नेहबलात्कृता।
अचिन्तयित्वा दुःखानि प्रविष्टा निर्जनं वनम् ॥ 5.16.19 ॥
सन्तुष्टा फलमूलेन भर्तृशुश्रूषणे रता।
या परां भजते प्रीतिं वनेऽपि भवने यथा ॥ 5.16.20 ॥
सेयं कनकवर्णाङ्गी नित्यं सुस्मितभाषिणी।
सहते यातनामेतामनर्थानामभागिनी ॥ 5.16.21 ॥
इमां तु शीलसम्पन्नां द्रष्टुमर्हति राघवः।
रावणेन प्रमथितां प्रपामिव पिपासितः ॥ 5.16.22 ॥
अस्या नूनं पुनर्लाभाद्राघवः प्रीतिमेष्यति।
राजा राज्यपरिभ्रष्टः पुनः प्राप्येव नेदिनीम् ॥ 5.16.23 ॥
कामभोगैः परित्यक्ता हीना बन्धुजनेन च।
धारयत्यात्मनो देहं तत्समागमकाङ्क्षिणी ॥ 5.16.24 ॥
नैषा पश्यति राक्षस्यो नेमान् पुष्पफलद्रुमान्।
एकस्थहृदया नूनं राममेवानुपश्यति ॥ 5.16.25 ॥
भर्ता नाम परं नार्या भूषणं भूषणादपि।
एषा तु रहिता तेन भूषणार्हा न शोभते ॥ 5.16.26 ॥
दुष्करं कुरुते रामो हीनो यदनया प्रभुः।
धारयत्यात्मनो देहं न दुःखेनावसीदति ॥ 5.16.27 ॥
इमामसितकेशान्तां शतपत्रनिभेक्षणाम्।
सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथितं मनः ॥ 5.16.28 ॥
क्षितिक्षमापुष्करसन्निभाक्षी या रक्षिता राघवलक्ष्मणाभ्याम्।
सा राक्षसीभिर्विकृतेक्षणाभिः संरक्ष्यते सम्प्रति वृक्षमूले ॥ 5.16.29 ॥
हिमहतनलिनीव नष्टशोभा व्यसनपरम्परयाऽतिपीड्यामाना।
सहचररहितेव चक्रवाकी जनकसुता कृपणां दशां प्रपन्ना ॥ 5.16.30 ॥
अस्या हि पुष्पवनताग्रशाखाः शोकं दृढं वै जनयन्त्यशोकाः।
हिमव्यपायेन च मन्दरश्मिरभ्युत्थितो नैकसहस्ररश्मिः ॥ 5.16.31 ॥
इत्येवमर्थं कपिरन्ववेक्ष्य सीतेयमित्येव निविष्टबुद्धिः।
संश्रित्य तस्मिन्निषसाद वृक्षे बली हरीणामृषभस्तरवस्वी ॥ 5.16.32 ॥