०१५ हनुमता सीतादर्शनम्

स वीक्षमाणस्तत्रस्थो मार्गमाणश्च मैथिलीम्।
अवेक्षमाणश्च महीं सर्वां तामन्ववैक्षत ॥ 5.15.1 ॥
सन्तानकलताभिश्च पादपैरुशोभिताम्।
दिव्यगन्धरसोपेतां सर्वतः समलङ्कृताम् ॥ 5.15.2 ॥
तां स नन्दनसङ्काशां मृगपक्षिभिरावृताम्।
हर्म्यप्रासादसंवाधां कोकिलाकुलनिस्वनाम् ॥ 5.15.3 ॥
काञ्चनोत्पलपद्माभिर्वापीभिरुपशोभिताम्।
बह्वासनकुथोपेतां बहुभूमिगृहायुताम् ॥ 5.15.4 ॥
सर्वर्तुकुसुमैः रम्यां फलवद्भिश्च पादपैः।
पुष्पितानामशोकानां श्रिया सूर्योदयप्रभाम् ॥ 5.15.5 ॥
प्रदीप्तामिव तत्रस्थो मारुतिः समुदैक्षत।
निष्पत्रशाखां विहगैः क्रियमाणामिवासकृत् ॥ 5.15.6 ॥
विनिष्पितद्भिः शतशश्चित्रैः पुष्पावतंसकैः।
आमूलपुष्पनिचितैरशोकैः शोकनाशनैः ॥ 5.15.7 ॥
पुष्पभारातिभारैश्च स्पृशद्भिरिव मेदिनीम्।
कर्णिकारैः कुसुमितैः किंशुकैश्च सुपुष्पितैः ॥ 5.15.8 ॥
स देशः प्रभया तेषां प्रदीप्त इव सर्वतः।
पुन्नागाः सप्तपर्णाश्च चम्पकोद्दालकास्तथा ॥ 5.15.9 ॥
शातकुम्भनिभाः केचित् केचिदग्निशिखोपमाः।
नीलाञ्जननिभाः केचित्तत्राशोकाः सहस्रशः ॥ 5.15.10 ॥
नन्दनं विविधोद्यानं चित्रं चैत्ररथं यथा।
अतिवृत्तमिवाचिन्त्यं दिव्यं रम्यं श्रियावृतम् ॥ 5.15.11 ॥
द्वितीयमिव चाकाशं पुष्पज्योतिर्गणायुतम्।
पुष्परत्नशतैश्चित्रं पञ्चमं सागरं यथा ॥ 5.15.12 ॥
सर्वर्तुपुष्पैर्निचितं पादपैर्मधुगन्धिभिः।
नानानिनादैरुद्यानं रम्यं मृगगणैर्द्विजैः ॥ 5.15.13 ॥
अनेकग्रन्धप्रवहं पुण्यगन्धं मनोरमम्।
शैलेन्द्रमिव गन्धाढ्यं द्वितीयं गन्धमादनम् ॥ 5.15.14 ॥
अशोकवनिकायां तु तस्यां वानरपुङ्गवः।
स ददर्शाविदूरस्थं चैत्यप्रासादमुच्छ्रितम् ॥ 5.15.15 ॥
मध्ये स्तम्भसहस्रेण स्थितं कैलासपाण्डुरम्।
प्रवालकृतसोपानं तप्तकाञ्जनवेदिकम् ॥ 5.15.16 ॥
मुष्णन्तमिव चक्षूंषि द्योतमानमिव श्रिया।
विमलं प्रांशुभावत्वादुल्लिखन्तमिवाम्बरम् ॥ 5.15.17 ॥
ततो मलिनसंवीतां राक्षसीभिः समावृताम्।
उपवासकृशां दीनां निःश्वसन्तीं पुनः पुनः ॥ 5.15.18 ॥
ददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलाम्।
मन्दं प्रख्यायमानेन रूपेण रुचिरप्रभाम् ॥ 5.15.19 ॥
पिनद्धां धूमजालेन शिखामिव विभावसोः।
पीतेनैकेन संवीतां क्लिष्टेनोत्तमवाससा ॥ 5.15.20 ॥
सपङ्कामनलङ्कारां विपद्मामिव पद्मिनीम्।
व्रीडितां दुःखसन्तप्तां परिम्लानां तपस्विनीम् ॥ 5.15.21 ॥
ग्रहेणाङ्गारकेणेव पीडितामिव रोहिणीम्।
अश्रुपर्णमुखीं दीनां कृशामनशनेन च ॥ 5.15.22 ॥
शोकध्यानपरां दीनां नित्यं दुःखपरायणाम्।
प्रियं जनमपश्यन्तीं पश्यन्तीं राक्षसीगणम् ॥ 5.15.23 ॥
स्वगणेन मृगीं हीनां श्वगणाभिवृतामिव।
नीलनागाभया वेण्या जघनं गतयैकया ॥ 5.15.24 ॥
नीलया नीरदापाये वनराज्या महीमिव।
सुखार्हां दुःखसन्तप्तां व्यसनानामकोविदाम् ॥ 5.15.25 ॥
तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम्।
तर्कयामास सीतेति कारणैरुपपादिभिः ॥ 5.15.26 ॥
ह्रियमाणा तदा तेन रक्षसा कामरूपिणा।
यथारूपा हि दृष्टा वै तथारूपेयमङ्गना ॥ 5.15.27 ॥
पूर्णचन्द्राननां सुभ्रूं चारुवृत्तपयोधराम्।
कुर्वन्तीं प्रभया देवीं सर्वावितिमिरा दिशः ॥ 5.15.28 ॥
तां नीलकेशीं बिम्बोष्ठीं सुमघ्यां सुप्रतिष्ठिताम्।
सीतां पद्मपलाशाक्षीं मन्मथस्य रतिं यथा ॥ 5.15.29 ॥
इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव।
भूमौ सुतनुमासीनां नियतामिव तापसीम् ॥ 5.15.30 ॥
निश्वासबहुलां भीरुं भुजगेन्द्रवधूमिव।
शोकजालेन महता विततेन न राजतीम् ॥ 5.15.31 ॥
संसक्तां धूमजालेन शिखामिव विभावसोः।
तां स्मृतीमिव सन्दिग्धामृद्धिं निपतितामिव ॥ 5.15.32 ॥
विहतामिव च श्रद्धामाशां प्रतिहतामिव।
सोपसर्गां यथा सिद्धिं बुद्धिं सकलुषामिव ॥ 5.15.33 ॥
अभूतेनापवादेन कीर्तिं निपतितामिव।
रामोपरोधव्यथितां रक्षोहरणकर्शिताम् ॥ 5.15.34 ॥
अबलां मृगशावाक्षीं वीक्षमाणां ततस्ततः।
बाष्पाम्बुपरिपूर्णेन कृष्णवक्राक्षिपक्ष्मणा ॥ 5.15.35 ॥
वदनेनाप्रसन्नेन निःश्वसन्तीं पुनःपुनः ॥ 5.15.36 ॥
मलपङ्कधरां दीनां मण्डनार्हाममण्डिताम्।
प्रभां नक्षत्रराजस्य कालमेघैरिवावृताम् ॥ 5.15.37 ॥
तस्य सन्दिदिहे बुद्धिर्मुहुः सीतां निरीक्ष्य तु।
आम्नायानामयोगेन विद्यां प्रशिथिलामिव ॥ 5.15.38 ॥
दुःखेन बुबुधे सीतां हनुमाननलङ्कृताम्।
संस्कारेण यथा हीनां वाचमर्थान्तरं गताम् ॥ 5.15.39 ॥
तां समीक्ष्य विशालाक्षीं राजपुत्रीमनिन्दिताम्।
तर्कयामास सीतेति कारणैरुपपादिभिः ॥ 5.15.40 ॥
वैदेह्या यानि चाङ्गेषु तदा रामोऽन्वकीर्तयत्।
तान्याभरणजालानि शाखाशोभीन्यलक्षयत् ॥ 5.15.41 ॥
मणिविद्रुमचित्राणि हस्तेष्वाभरणानि च।
श्यामानि चिरयुक्तत्वात्तथा संस्थानवन्ति च ॥ 5.15.42 ॥
तान्येवैतानि मन्येऽहं यानि रामोऽन्वकीर्तयत् ॥ 5.15.43 ॥
तत्र यान्यवहीनानि तान्यहं नोपलक्षये।
यान्यस्या नावहीनानि तानीमानि न संशयः ॥ 5.15.44 ॥
पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम्।
उत्तरीयं नगासक्तं तदा दृष्टं प्लवङ्गमैः ॥ 5.15.45 ॥
भूषणानि च मुख्यानि दृष्टानि धरणीतले।
अनयैवापविद्धानि स्वनवन्ति महान्ति च ॥ 5.15.46 ॥
इदं चिरगृहीतत्वाद्वसनं क्लिष्टवत्तरम्।
तथापि नूनं तद्वर्णं तथा श्राद्यथेतरत् ॥ 5.15.47 ॥
इयं कनकवर्णाङ्गी रामस्य महिषी प्रिया।
प्रनष्टापि सती याऽस्य मनसो न प्रणश्यति ॥ 5.15.48 ॥
इयं सा यत्कृते रामश्चतुर्भिः परितप्यते।
कारुण्येनानृशंस्येन शोकेन मदनेन च ॥ 5.15.49 ॥
स्त्री प्रनष्टेति कारुण्यादाश्रितेत्यानृशंस्यतः।
पत्नी नष्टेति शोकेन प्रियेति मदनेन च ॥ 5.15.50 ॥
अस्या देव्या यथा रूपमङ्गप्रत्यङ्गसौष्ठवम्।
रामस्य च यथारूपं तस्येयमसितेक्षणा ॥ 5.15.51 ॥
अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम्।
तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति ॥ 5.15.52 ॥
दुष्करं कृतवान् रामो हीनो यदनया प्रभुः।
धारयत्यात्मनो देहं न शोकेनावसीदति ॥ 5.15.53 ॥
दुष्करं कुरुते रामो य इमां मत्तकाशिनीम्।
सीतां विना महाबाहुर्मुहूर्तमपि जीवति ॥ 5.15.54 ॥
एवं सीतां तदा दृष्ट्वा हृष्टः पवनसम्भवः।
जगाम मनसा रामं प्रशशंस च तं प्रभुम् ॥ 5.15.55 ॥