०१४ अशोकवाटिकाप्रवेशः

स मूहर्तमिव ध्यात्वा मनसा चाधिगम्य ताम्।
अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः ॥ 5.14.1 ॥
स तु संहृष्टसर्वाङ्गः प्राकारस्थो महाकपिः।
पुष्पिताग्रान् वसन्तादौ ददर्श विविधान् द्रुमान् ॥ 5.14.2 ॥
सालानशोकान् भव्यांश्च चम्पकांश्च सुपुष्पितान्।
उद्दालकान्नागवृक्षांश्चूतान् कपिमुखानपि ॥ 5.14.3 ॥
अथाम्रवणसञ्छन्ना लताशतसमावृताम्।
ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम् ॥ 5.14.4 ॥
स प्रविश्य विचित्रां तां विहगैरभिनादिताम्।
राजतैः काञ्चनैश्चैव पादपैः सर्वतो वृताम् ॥ 5.14.5 ॥
विहगैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम्।
उदितादित्यसङ्काशां ददर्श हनुमान् कपिः ॥ 5.14.6 ॥
वृतां नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः।
कौकिलैर्भृङ्गराजैश्च मत्तैर्नित्यनिषेविताम् ॥ 5.14.7 ॥
प्रहृष्टमनुजे काले मृगपक्षिसमाकुले।
मत्तबर्हिणसङ्घुष्टां नानाद्विजगणायुताम् ॥ 5.14.8 ॥
मार्गमाणो वरारोहां राजपुत्रीमनिन्दिताम्।
सुखप्रसुप्तान् विहगान् बोधयामास वानरः ॥ 5.14.9 ॥
उत्पतद्भिर्द्विजगणैः पक्षैः सालाः समाहताः।
अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः ॥ 5.14.10 ॥
पुष्पावकीर्णः शुशुभे हनुमान् मारुतात्मजः।
अशोकवनिकामध्ये यथा पुष्पमयो गिरिः ॥ 5.14.11 ॥
दिशः सर्वाः प्रधावन्तं वृक्षषण्डगतं कपिम्।
दृष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे ॥ 5.14.12 ॥
वृक्षेभ्यः पतितैः पुष्पैरवकीर्णा पृथग्विधैः।
रराज वसुधा तत्र प्रमदेव विभूषिता ॥ 5.14.13 ॥
तरस्विना ते तरवस्तरसाऽभिप्रकम्पिताः।
कुसुमानि विचित्राणि ससृजुः कपिना तदा ॥ 5.14.14 ॥
निर्धूतपत्रशिखराः शीर्णपुष्पफलद्रुमाः।
निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः ॥ 5.14.15 ॥
हनूमता वेगवता कम्पितास्ते नगोत्तमाः।
पुष्पपर्णफलान्याशु मुमुचुः पुष्पशालिनः ॥ 5.14.16 ॥
विहङ्गसङ्घैर्हीनास्ते स्कन्धमात्राश्रया द्रुमाः।
बभूवुरगमाः सर्वे मारुतेनेव निर्धुताः ॥ 5.14.17 ॥
निर्धूतकेशी युवतिर्यथा मृदितवर्णका।
निष्पीतशुभदन्तोष्ठी नखैर्दन्तैश्च विक्षिता ॥ 5.14.18 ॥
तथा लाङ्गूलहस्तैश्च चरणाभ्यां च मर्दिता।
बभूवाशोकवनिका प्रभग्नवरपादपा ॥ 5.14.19 ॥
महालतानां दामानि व्यधमत्तरसाकपिः।
यथा प्रावृषि विन्ध्यस्य मेघजालानि मारुतः ॥ 5.14.20 ॥
स तत्र मणिभूमीश्च राजतीश्च मनोरमाः।
तथा काञ्चनभूमीश्च ददर्श विचरन् कपिः ॥ 5.14.21 ॥
वापीश्च विविधाकाराः पूर्णाः परमवारिणा।
महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः ॥ 5.14.22 ॥
मुक्ताप्रवालसिकताः स्फाटिकान्तरकुट्टिमाः।
काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभिताः ॥ 5.14.23 ॥
फुल्लपद्मोत्पलवनाश्चक्रवाकोपकूजिताः।
नत्यूहरुतसङ्घुष्टा हंससारसनादिताः ॥ 5.14.24 ॥
दीर्घाभिर्द्रुमयुक्ताभिः सरिद्भिश्च समन्ततः।
अमुतोपमतोयाभिः शिवाभिरुपसंस्कृताः ॥ 5.14.25 ॥
लताशतैरवतताः सन्तानकसमावृताः।
नानागुल्मावृतघनाः करवीरकृतान्तराः ॥ 5.14.26 ॥
ततोऽम्बुधरसङ्काशं प्रवृद्धशिखरं गिरिम्।
विचित्रकूटं कूटैश्च सर्वतः परिवारितम् ॥ 5.14.27 ॥
शिलागृहैरवततं नानावृक्षैः समावृतम्।
ददर्श हरिशार्दूलो रम्यं जगति पर्वतम् ॥ 5.14.28 ॥
ददर्श च नगात्तस्मान्नदीं निपतितां कपिः।
अङ्कादिव समुत्पत्य प्रियस्य पतितां प्रियाम् ॥ 5.14.29 ॥
जले निपतिताग्रैश्च पादपैरुपशोभिताम्।
वार्यमाणामिव क्रुद्धां प्रमदां प्रियबन्धुभिः ॥ 5.14.30 ॥
पुनरावृत्ततोयां च ददर्श स महाकपिः।
प्रसन्नामिव कान्तस्य कान्तां पुनरुपस्थिताम् ॥ 5.14.31 ॥
तस्यादूरात्स पद्मिन्यो नानाद्विजगणायुताः।
ददर्श हरिशार्दूलो हनुमान् मारुतात्मजः ॥ 5.14.32 ॥
कृत्रिमां दीर्घिकां चापि पूर्णां शीतेन वारिणा।
मणिप्रवरसोपानां मुक्तासिकतशोभिताम् ॥ 5.14.33 ॥
विविधैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम्।
प्रासादैः सुमहद्भिश्च निर्मितैर्विश्वकर्मणा ॥ 5.14.34 ॥
काननैः कृत्रिमैश्चापि सर्वतः समलङ्कृताम् ॥ 5.14.35 ॥
ये केचित् पादपास्तत्र पुष्पोपगफलोपगाः।
सच्छत्राः सवितर्दीकाः सर्वे सौवर्णवेदिकाः ॥ 5.14.36 ॥
काञ्चनीं शिंशुपामेकां ददर्श हनुमान् कपिः।
वृतां हेममयीभिस्तु वेदिकाभिः समन्ततः ॥ 5.14.37 ॥
सोऽपश्यद्भूमिभागांश्च गर्तप्रस्रवणानि च।
सुवर्णवृक्षानपरान् ददर्श शिखिसन्निभान् ॥ 5.14.38 ॥
तेषां द्रुमाणां प्रभया मेरोरिव दिवाकरः।
अमन्यत तदा वीरः काञ्चनोऽस्मीति वानरः ॥ 5.14.39 ॥
तां काञ्चनैस्तरुगणैर्मारुतेन च वीजिताम्।
किङ्किणीशतनिर्घोषां दृष्ट्वा विस्मयमागमत् ॥ 5.14.40 ॥
स पुष्पिताग्रां रुचिरां तरुणाङ्कुरपल्लवाम्।
तामारुह्य महाबाहुः शिंशुपां पर्णसंवृताम् ॥ 5.14.41 ॥
इतो द्रक्ष्यामि वैदेहीं रामदर्शनलालसाम्।
इतश्चेतश्च दुःखार्तां सम्पतन्तीं यदृच्छया ॥ 5.14.42 ॥
अशोकवनिका चेयं दृढं रम्या दुरात्मनः।
चम्पकैश्चन्दनैश्चापि वकुलैश्च विभूषिता ॥ 5.14.43 ॥
इयं च नलिनी रम्या द्विजसङ्घनिषेविता।
इमां सा राममहिषी नूनमेष्यति जानकी ॥ 5.14.44 ॥
सा रामा राममहिषी राघवस्य प्रिया सती।
वनसञ्चारकुशला नूनमेष्यति जानकी ॥ 5.14.45 ॥
अथवा मृगशावाक्षी वनस्यास्य विचक्षणा।
वनमेष्यति साऽऽर्येह रामचिन्तानुकर्शिता ॥ 5.14.46 ॥
रामशोकाभिसन्तप्ता सा देवी वामलोचना।
वनवासे रता नित्यमेष्येत वनचारिणी ॥ 5.14.47 ॥
वनेचराणां सततं नूनं स्पृहयते पुरा।
रामस्य दयिता भार्या जनकस्य सुता सती ॥ 5.14.48 ॥
सन्ध्याकालमनाः श्यामा ध्रुवमेष्यति जानकी।
नदीं चेमां शिवजलां सन्ध्यार्थे वरवर्णिनी ॥ 5.14.49 ॥
तस्याश्चाप्यनुरूपेयमशोकवनिका शुभा।
शुभा या पार्थिवेन्द्रस्य पत्नी रामस्य सम्मता ॥ 5.14.50 ॥
यदि जीवति सा देवी ताराधिपनिभानना।
आगमिष्यति साऽवश्यमिमां शिवजलां नदीम् ॥ 5.14.51 ॥
एवं तु मत्वा हनुमान् महात्मा प्रतीक्षमाणो मनुजेन्द्रपत्नीम्।
अवेक्षमाणश्च ददर्श सर्वं सुपुष्पिते पर्णघने निलीनः ॥ 5.14.52 ॥