विमानात्तु सुसङ्क्रम्य प्राकारं हरियूथपः।
हनुमान् वेगवानासीद्यथा विद्युद् घनान्तरे ॥ 5.13.1 ॥
सम्परिक्रम्य हनुमान् रावणस्य निवेशनात्।
अदृष्ट्वा जानकीं सीतामब्रवीद्वचनं कपिः ॥ 5.13.2 ॥
भूयिष्ठं लोलिता लङ्का रामस्य चरता प्रियम्।
नहि पश्यामि वैदेहीं सीतां सर्वाङ्गशोभनम् ॥ 5.13.3 ॥
नद्योऽनूपवनान्ताश्च दुर्गाश्च धरणीधराः।
लोलिता वसुधा सर्वा न तु पश्यामि जानकीम् ॥ 5.13.4 ॥
इह सम्पतिना सीता रावणस्य निवेशने।
आख्याता गृध्रराजेन न च पश्यामि तामहम् ॥ 5.13.5 ॥
किन्नु सीताऽथ वैदेही मैथिली जनकात्मजा।
उपतिष्ठेत विवशा रावणं दुष्टचारिणम् ॥ 5.13.6 ॥
क्षिप्रमुत्पततो मन्ये सातामादाय रक्षसः।
बिभ्यतो रामबाणानामन्तरा पतिता भवेत् ॥ 5.13.7 ॥
अथवा ह्रियमाणायाः पथि सिद्धनिषेविति।
मन्ये पतितमार्याया हृदयं प्रेक्ष्य सागरम् ॥ 5.13.8 ॥
रावणस्योरुवेगेन भुजाभ्यां पीडितेन च।
तया मन्ये विशालाक्ष्या त्यक्तं जीवितमार्यया ॥ 5.13.9 ॥
उपर्युपरि वा नूनं सागरं क्रमतस्तथा।
विवेष्टमाना पतिता समुद्रे जनकात्मजा ॥ 5.13.10 ॥
अहो क्षुद्रेण वाऽनेन रक्षन्ती शीलमात्मनः।
अबन्धुर्भक्षिता सीता रावणेन तपस्विनी ॥ 5.13.11 ॥
अथवा राक्षसेन्द्रस्य पत्नीभिरसितेक्षणा।
अदुष्टा दुष्टभावाभिर्भक्षिता सा भविष्यति ॥ 5.13.12 ॥
सम्पूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम्।
रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता ॥ 5.13.13 ॥
हा राम लक्ष्मणेत्येवं हाऽयोध्ये चेति मैथिली।
विलप्य बहु वैदेही न्यस्तदेहा भविष्यति ॥ 5.13.14 ॥
अथवा निहिता मन्ये रावणस्य निवेशने।
नूनं लालप्यते सीता पञ्जरस्थेव शारिका ॥ 5.13.15 ॥
जनकस्य सुता सीता रामपत्नी सुमध्यमा।
कथमुत्पलपत्राक्षी रावणस्य वशं व्रजेत् ॥ 5.13.16 ॥
विनष्टा वा प्र(ण)नष्टा वा मृता वा जनकात्मजा।
रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम् ॥ 5.13.17 ॥
निवेद्यमाने दोषः स्याद्दोषः स्यादनिवेदने।
कथन्नु खलु कर्तव्यं विषमं प्रतिभाति मे ॥ 5.13.18 ॥
अस्मिन्नेवं गते कार्ये प्राप्तकालं क्षमं च किम्।
भवेदिति मतं भूयो हनुमान् प्रविचारयत् ॥ 5.13.19 ॥
यदि सीतामदृष्ट्वाऽहं वानरेन्द्रपुरीमितः।
गमिष्यामि ततः को मे पुरुषार्थो भविष्यति ॥ 5.13.20 ॥
ममेदं लङ्घनं व्यर्थं सागरस्य भविष्यति।
प्रवेशश्चैव लङ्काया राक्षसानां च दर्शनम् ॥ 5.13.21 ॥
किं मां वक्ष्यति सुग्रीवो हरयो वा समागताः।
किष्किन्धां समनुप्राप्तं तौ वा दशरथात्मजौ ॥ 5.13.22 ॥
गत्वा तु यदि काकुत्स्थं वक्ष्यामि परमप्रियम्।
न दृष्टेति मया सीता ततस्त्यक्ष्यति जीवितम् ॥ 5.13.23 ॥
परुषं दारुणं क्रूरं तीक्ष्णमिन्द्रियतापनम्।
सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यति ॥ 5.13.24 ॥
तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसम्।
भृशानुरक्तो मेधावी न भविष्यति लक्ष्मणः ॥ 5.13.25 ॥
विनष्टौ भ्रातरौ श्रुत्वा भरतोऽपि मरिष्यति।
भरतं च मृतं दृष्ट्वा शत्रुघ्नो न भविष्यति ॥ 5.13.26 ॥
पुत्रान् मृतान् समीक्ष्याथ न भविष्यन्ति मातरः।
कौसल्या च सुमित्रा च कैकेयी च न संशयः ॥ 5.13.27 ॥
कृतज्ञः सत्यसन्धश्च सुग्रीवः प्लवगाधिपः।
रामं तथागतं दृष्ट्वा ततस्त्यक्ष्यति जीवितम् ॥ 5.13.28 ॥
दुर्मना व्यथिता दीना निरानन्दा तपस्विनी।
पीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितम् ॥ 5.13.29 ॥
वालिजेन तु दुःखेन पीडिता शोककर्शिता।
पञ्जत्वं च गते राज्ञि तारापि न भविष्यति ॥ 5.13.30 ॥
मातापित्रोर्विनाशेन सुग्रीवव्यसनेन च।
कुमारोऽप्यङ्गदः कस्माद्धारयिष्यति जावितम् ॥ 5.13.31 ॥
भर्तृजेन तु दुःखेन ह्यभिभूता वनौकसः।
शिरांस्यभिहनिष्यन्ति तलैर्मुष्टिभिरेव च ॥ 5.13.32 ॥
सान्त्वेनानुप्रदानेन मानेन च यशस्विना।
लालिताः कपिराजेन प्राणांस्त्यक्ष्यन्ति वानराः ॥ 5.13.33 ॥
न वनेषु न शैलेषु न निरोधेषु वा पुनः।
क्रीडामनुभविष्यन्ति समेत्य कपिकुञ्जराः ॥ 5.13.34 ॥
सपुत्रदाराः सामात्या भर्तृव्यसनपीडिताः।
शैलाग्रेभ्यः पतिष्यन्ति समेत्य विषमेषु च ॥ 5.13.35 ॥
विषमुद्बन्धनं वापि प्रवेशं ज्वलनस्य वा।
उपवासमथो शास्त्रं प्रचरिष्यन्ति वानराः ॥ 5.13.36 ॥
घोरमारोदनं मन्ये गते मयि भविष्यति।
इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम् ॥ 5.13.37 ॥
सोऽहं नैव गमिष्यामि किष्किन्धां नगरीमितः।
न च शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिलीं विना ॥ 5.13.38 ॥
मय्यगच्छति चेहस्थे धर्मात्मानौ महारथौ।
आशया तौ धरिष्येते वानराश्च मनस्विनः ॥ 5.13.39 ॥
हस्तादानो मुखादानो नियतो वृक्षमूलिकः।
वानप्रस्थो भविष्यामि ह्यदृष्ट्वा जनकात्मजाम् ॥ 5.13.40 ॥
सागरानूपजे देशे बहुमूलफलोदके।
चितां कृत्वा प्रवेक्ष्यामि समिद्धमरणीसुतम् ॥ 5.13.41 ॥
उपविष्टस्य वा सम्यग् लिङ्गिनीं साधयिष्यतः।
शरीरं भक्षयिष्यन्ति वायसाः श्वापदानि च ॥ 5.13.42 ॥
इदं महर्षिभिर्दृष्टं निर्याणमिति मे मतिः।
सम्यगापः प्रवेक्ष्यामि न चेत्पश्यामि जानकीम् ॥ 5.13.43 ॥
सुजातमूला सुभगा कीर्तिमाला यशस्विनी।
प्रभग्ना चिररात्रीयं मम सीतामपश्यतः ॥ 5.13.44 ॥
तापसो वा भविष्यामि नियतो वृक्षमूलिकः।
नेतः प्रतिगमिष्यामि तामदृष्ट्वाऽसितेक्षणाम् ॥ 5.13.45 ॥
यदीतः प्रतिगच्छामि सीतामनधिगम्य ताम्।
अङ्गदः सह तैः सर्वैर्वानरैर्न भविष्यति ॥ 5.13.46 ॥
विनाशे बहवो दोषा जीवन् भद्राणि पश्यति।
तस्मात्प्राणान् धरिष्यामि ध्रुवो जीवितसङ्गमः ॥ 5.13.47 ॥
एवं बहुविधं दुःखं मनसा धारयन् मुहुः।
नाध्यगच्छत्तदा पारं शोकस्य कपिकुञ्जरः ॥ 5.13.48 ॥
रावणं वा वधिष्यामि दशग्रीवं महाबलम्।
काममस्तु हृता सीता प्रत्याचीर्णं भविष्यति ॥ 5.13.49 ॥
अथवैनं समुत्क्षिप्य उपर्युपरि सागरम्।
रामायोपहरिष्यामि पशुं पशुपतेरिव ॥ 5.13.50 ॥
इति चिन्तां समापन्नः सीतामनधिगम्य ताम्।
ध्यानशोकपरीतात्मा चिन्तयामास वानरः ॥ 5.13.51 ॥
यावत्सीतां हि पश्यामि रामपत्नीं यशस्विनीम्।
तावदेतां पुरीं लङ्कां विचिनोमि पुनः पुनः ॥ 5.13.52 ॥
सम्पातिवचनाच्चापि रामं यद्यानयाम्यहम्।
अपश्यन् राघवो भार्यां निर्दहेत् सर्ववानरान् ॥ 5.13.53 ॥
इहैव नियताहारो वत्स्यामि नियतेन्द्रियाः।
न मत्कृते विनश्येयुः सर्वे ते नरवानराः ॥ 5.13.54 ॥
अशोकवनिका चेयं दृश्यते या महाद्रुमा।
इमामधिगमिष्यामि न हीयं विचिता मया ॥ 5.13.55 ॥
वसून् रुद्रांस्तथाऽऽदित्यानश्विनौ मरुतोऽपि च।
नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः ॥ 5.13.56 ॥
जित्वा तु राक्षसान् सर्वानिक्ष्वाकुकुलनन्दिनीम्।
सम्प्रदास्यामि रामाय यथा सिद्धिं तपस्विने ॥ 5.13.57 ॥
स मुहूर्तमिव ध्यात्वा चिन्तावग्रथितेन्द्रियः।
उदतिष्ठन्महातेजा हनूमान् मारुतात्मजः ॥ 5.13.58 ॥
नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै।
नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः ॥ 5.13.59 ॥
स तेभ्यस्तु नमस्कृत्य सुग्रीवस्य च मारुतिः।
दिशः सर्वाः समालोक्य ह्यशोकवनिकां प्रति ॥ 5.13.60 ॥
स गत्वा मनसा पूर्वमशोकवनिकां शूभाम्।
उत्तरं चिन्तयामास वानरो मारुतात्मजः ॥ 5.13.61 ॥
ध्रुवं तु हक्षोबहुला भविष्यति वनाकुला।
अशोकवनिका चिन्त्या सर्वसंस्कारसंस्कृता ॥ 5.13.62 ॥
रक्षिणश्चात्र विहिता नूनं रक्षन्ति पादपान्।
भगवानपि सर्वात्मा नातिक्षोभं प्रवाति वै ॥ 5.13.63 ॥
सङ्क्षिप्तोऽयं मयाऽऽत्मा च रामार्थे रावणस्य च।
सिद्धिं मे संविधास्यन्ति देवाः सर्षिगणास्त्विह ॥ 5.13.64 ॥
ब्रह्मा स्वयम्भूर्भगवान् देवाश्चैव दिशन्तु मे।
सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रभृत् ॥ 5.13.65 ॥
वरुणः पाशहस्तश्च सोमादित्यौ तथैव च।
अश्विनौ च महात्मानौ मरुतः शर्व एव च ॥ 5.13.66 ॥
सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः।
दास्यन्ति मम ये चान्ये ह्यदृष्टाः पथिगोचराः ॥ 5.13.67 ॥
तदुन्नसं पाण्डुरदन्तमव्रणं शुचिस्मितं पद्मपलाशलोचनम्।
द्रक्ष्ये तदार्यावदनं कदान्वहं प्रसन्नताराधिपतुल्यदर्शनम् ॥ 5.13.68 ॥
क्षुद्रेण पापेन नृशंसकर्मणा सुदारुणालङ्कृतवेषधारिणा।
बलाभिभूता ह्यबला तपस्विनी कथं नु मे दृष्टिपथेऽद्य सा भवेत् ॥ 5.13.69 ॥