०१२ हनूमन्निर्वेदः

स तस्य मध्ये भवनस्य मारुतिर्लतागृहांश्चित्रगृहान्निशागृहान्।
जगाम सीतां प्रति दर्शनोत्सुको न चैव तां पश्यति चारुदर्शनाम् ॥ 5.12.1 ॥
स चिन्तयामास ततो महाकपिः प्रियामपश्यन् रघुनन्दनस्य ताम्।
ध्रुवं हि सीता म्रियते यथा न मे विचिन्वतो दर्शनमेति मैथिला ॥ 5.12.2 ॥
सा राक्षसानां प्रवरेण जानकी स्वशीलसंरक्षणतत्परा सती।
अनेन नूनं प्रतिदुष्टकर्मणा हता भवेदार्यपथे परे स्थिता ॥ 5.12.3 ॥
विरूपरूपा विकृता विवर्चसो महानना दीर्घविरूपदर्शनाः।
समीक्ष्य सा राक्षसराजयोषितो भयाद्विनष्टा जनकेश्वरात्मजा ॥ 5.12.4 ॥
सीतामदृष्ट्वा ह्यनवाप्य पौरुषं विहृत्य कालं सह वानरैश्चिरम्।
न मेऽस्ति सुग्रीवसमीपगा गतिः सुतीक्ष्णदण्डो बलवांश्च वानरः ॥ 5.12.5 ॥
दृष्टमन्तःपुरं सर्वं दृष्टा रावणयोषितः।
न सीता दृश्यते साध्वी वृथा जातो मम श्रमः ॥ 5.12.6 ॥
गत्वा तत्र त्वया वीर किं कृतं तद्वदस्व नः।
अदृष्ट्वा किं प्रवक्ष्यामि तामहं जनकात्मजाम् ॥ 5.12.7 ॥
ध्रुवं प्रायमुपैष्यन्ति कालस्य व्यतिवर्तने ॥ 5.12.8 ॥
किं वा वक्ष्यति वृद्धश्च जाम्बवानङ्गदश्च सः।
गतं पारं समुद्रस्य वानराश्च समागताः ॥ 5.12.9 ॥
अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम्।
अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः ॥ 5.12.10 ॥
करोति सफलं जन्तोः कर्म यत्तत्करोति सः।
तस्मादनिर्वेदकृतं यत्नं चेष्टेऽहमुत्तमम् ॥ 5.12.11 ॥
भूयस्तावद्विचेष्यामि देशान् रावणपालितान्।
आपानशाला विचितास्तथा पुष्पगृहाणि च ॥ 5.12.12 ॥
चित्रशालाश्च विचिता भूयः क्रीडागृहाणि च।
निष्कुटान्तररथ्याश्च विमानानि च सर्वशः ॥ 5.12.13 ॥
इति सञ्चिन्त्य भुयोऽपि विचेतुमुपचक्रमे।
भूमीगूहांश्चैत्यगृहान् गृहातिगृहकानपि ॥ 5.12.14 ॥
उत्पतन्निपतंश्चापि तिष्ठन् गच्छन् पुनः पुनः।
अपावृण्वंश्च द्वाराणि कपाटान्यवघाटयन् ॥ 5.12.15 ॥
प्रविशन्निष्पतंश्चापि प्रपतन्नुत्पतन्नपि।
सर्वमप्यवकासं स विचचार महाकपिः ॥ 5.12.16 ॥
चतुरङ्गुलमात्रोऽपि नावकाशः स विद्यते।
रावणान्तःपुरे तस्मिन् यं कपिर्न जगाम सः ॥ 5.12.17 ॥
प्राकारान्तररथ्याश्च वेदिकाश्चैत्यसंश्रयाः।
दीर्घिकाः पुष्करिण्यश्च सर्वं तेनावलोकितम् ॥ 5.12.18 ॥
राक्षस्यो विविधाकारा विरूपा विकृतास्तथा।
दृष्टा हनुमता तत्र न तु सा जनकात्मजा ॥ 5.12.19 ॥
रूपेणाप्रतिमा लोके वरा विद्याधरस्त्रियः।
दृष्टा हनुमता तत्र न तु राघवनन्दिनी ॥ 5.12.20 ॥
नागकन्या वरारोहाः पूर्णचन्द्रनिभाननाः।
दृष्टा हनुमता तत्र न तु सीता सुमध्यमा ॥ 5.12.21 ॥
प्रमथ्य राक्षसेन्द्रेण नागकन्या बलाद्धृताः।
दृष्टा हनुमता तत्र न सा जनकनन्दिनी ॥ 5.12.22 ॥
सोऽपश्यंस्तां महाबाहुः पश्यंश्चान्या वरस्त्रियः।
विषसाद मुहुर्धीमान् हनुमान् मारुतात्मजः ॥ 5.12.23 ॥
उद्योगं वानरेन्द्राणां प्लवनं सागरस्य च।
व्यर्थं वीक्ष्यानिलसुतश्चिन्तां पुनरुपागमत् ॥ 5.12.24 ॥
अवतीर्य विमानाच्च हनुमान् मारुतात्मजः।
चिन्तामुपजगामाथ शोकोपहतचेतनः ॥ 5.12.25 ॥