अवधूय च तां बुद्धिं बभूवावस्थितस्तदा।
जगाम चापरां चिन्तां सीतां प्रति महाकपिः ॥ 5.11.1 ॥
न रामेण वियुक्ता सा स्वप्तुमर्हति भमिनी।
न भोक्तुं नाप्यलङ्कर्तुं न पानमुसेवितुम् ॥ 5.11.2 ॥
नहि रामसमः कश्चिद्विद्यते त्रिदशेष्वपि।
अन्येयमति निश्चित्य पानभूमौ चचार सः ॥ 5.11.3 ॥
नृत्तेन चापराः क्लान्ताः पानविप्रहतास्तथा।
मुरजेषु मृदङ्गेषु पीठिकासु च संस्थिताः ॥ 5.11.4 ॥
तथाऽऽस्तरणमुख्येषु संविष्टाश्चापराः स्त्रियः ॥ 5.11.5 ॥
रूपसँल्लापशीलेन युक्तगीतार्थभाषिणा।
देशकालाभियुक्तेन युक्तवाक्याभिधायिना ॥ 5.11.6 ॥
रताभिरतसंसुप्तं ददर्श हरियूथपः ॥ 5.11.7 ॥
तासां मध्ये महाबाहुः शुशुभे राक्षसेश्वरः।
गोष्ठे महति मुख्यानां गवां मध्ये यथा वृषः ॥ 5.11.8 ॥
स राक्षसेन्द्रः शुशुभे ताभिः परिवृतः स्वयम्।
करेणुभिर्यथाऽरण्ये परिकार्णो महाद्विपः ॥ 5.11.9 ॥
सर्वकामैरुपेतां च पानभूमिं महात्मनः।
ददर्श हरिशार्दूलस्तस्य रक्षःपतेर्गृहे ॥ 5.11.10 ॥
मृगाणां महिषाणां च वराहाणां च भागशः।
तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः ॥ 5.11.11 ॥
रौक्मेषु च विशालेषु भाजनेष्वर्धभक्षितान्।
ददर्श हरिशूर्दूलो मयूरान् कुक्कुटांस्तथा ॥ 5.11.12 ॥
वराहवार्ध्राणसकान् दधिसौवर्चलायुतान्।
शल्यान् मृगमयूरांश्च हनुमानन्ववैक्षत ॥ 5.11.13 ॥
क्रकरान् विविधान् सिद्धांश्चकोरानर्धभक्षितान् ॥ 5.11.14 ॥
महिषानेकशल्यांश्च च्छागांश्च कृतनिष्ठितान्।
लेह्यानुच्चावचान् पेयान् भोज्यानि विविधानि च ॥ 5.11.15 ॥
तथाम्ललवणोत्तंसैर्विविधै रागषाडवैः।
हारनूपुरकेयूरैरपविद्धैर्महाधनैः ॥ 5.11.16 ॥
पानभाजनविक्षिप्तैः फलैश्च विविधैरपि।
कृतपुष्पोपहारा भूरधिकं पुष्यति श्रियम् ॥ 5.11.17 ॥
तत्र तत्र च विन्यस्तैः सुश्लिष्टैः शयनासनैः।
पानभूमिर्विना वह्निं प्रदीप्तेवोपलक्ष्यते ॥ 5.11.18 ॥
बहुप्रकारैर्विविधैर्वरसंस्कारसंस्कृतैः।
मांसैः कुशलसंयुक्तैः पानभूमिगतैः पृथम् ॥ 5.11.19 ॥
दिव्याः प्रसन्ना विविधाः सुराः कृतसुरा अपि।
शर्करासवमाध्वीकपुष्पासवफलासवाः ॥ 5.11.20 ॥
वासचूर्णैश्च विविधैर्दृष्टास्तैस्तैः पृथक् पृथक्।
सन्तता शुशुभे भूमिर्माल्यैश्च बहुसंस्थितैः ॥ 5.11.21 ॥
हिरण्मयैश्च विविधैर्भाजनैः स्पाटिकैरपि।
जाम्बूनदमयैश्चान्यैः करकैरभिसंवृता ॥ 5.11.22 ॥
राजतेषु च कुम्भेषु जाम्बनदमयेषु च।
पानश्रेष्ठं तदा भूरिकपिस्तत्र ददर्श सः ॥ 5.11.23 ॥
सोऽपश्यच्छातकुम्भानि शीधोर्मणिमयानि च।
राजतानि च पूर्णानि भाजनानि महाकपिः ॥ 5.11.24 ॥
क्वचिदर्धावशेषाणि क्वचित् पीतानि सर्वशः।
क्वचिन्नैव प्रपीतानि पानानि स ददर्श ह ॥ 5.11.25 ॥
क्वचिद्भक्ष्यांश्च विविधान् क्वचित्पानानि भागशः।
क्वचिदन्नावशेषाणि फश्यन् वै विचचार ह ॥ 5.11.26 ॥
क्वचित् प्रभिन्नैः करकैः क्वचिदालोलितैर्घटैः।
क्वचित्सम्पृक्तमाल्यानि जलानि च फलानि च ॥ 5.11.27 ॥
शयनान्यत्र नारीणां शुभ्राणि बहुधा पुनः।
परस्परं समाश्लिष्य काश्चित्सुप्ता वराङ्गनाः ॥ 5.11.28 ॥
काश्चिच्च वस्त्रमन्यस्याः स्वपन्त्याः परिधाय च।
आहृत्य चाबलाः सुप्ता निद्राबलपराजिताः ॥ 5.11.29 ॥
तासामुच्छ्वासवातेन वस्त्रं माल्यं च गात्रजम्।
नात्यर्थं स्पन्दते चित्रं प्राप्य मन्दमिवानिलम् ॥ 5.11.30 ॥
विविधस्य च माल्यस्य धूपस्य विविधस्य च।
बहुधा मारुतस्तत्र गन्धं विविधमुद्वहन् ॥ 5.11.31 ॥
रसानां चन्दनानां त धूपानां चैव मूर्च्छितः।
प्रववौ सुरभिर्गन्धो विमाने पुष्पके तदा ॥ 5.11.32 ॥
श्यामा वदातास्तत्रान्याः काश्चित् कृष्णा वराङ्गनाः।
काश्चित् काञ्चनवर्णाङ्ग्यः प्रमदा राक्षसालये ॥ 5.11.33 ॥
तासां निद्रावशत्वाच्च मदनेन विमूर्च्छितम्।
पद्मिनीनां प्रसुप्तानां रूपमासीद्यथैव हि ॥ 5.11.34 ॥
एवं सर्वमशेषेण रावणान्तःपुरं कपिः।
ददर्श सुमहातेजा न ददर्श च जानकीम् ॥ 5.11.35 ॥
निरीक्षमाणश्च तदा ताः स्त्रियः स महाकपिः।
जगाम महतीं चिन्तां धर्मसाध्वसशङ्कितः ॥ 5.11.36 ॥
इदं खलु ममात्यर्थं धर्मलोपं करिष्यति।
नहि मे परदाराणां दृष्टिर्विषयवर्तिनी ॥ 5.11.37 ॥
अयं चात्र मया दृष्टः परदारपरिग्रहः ॥ 5.11.38 ॥
तस्य प्रादुरभूच्चिन्ता पुनरन्या मनस्विनः।
निश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी ॥ 5.11.39 ॥
कामं दृष्टा मया सर्वा विश्वस्ता रावणस्त्रियः।
नहि मे मनसः किञ्चिद्वैकृत्यमुपपद्यते ॥ 5.11.40 ॥
मनो हि हेतुः सर्वेषामिन्द्रियाणां प्रवर्तने।
शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम् ॥ 5.11.41 ॥
नान्यत्र हि मया शक्या वैदेही परिमार्गितुम्।
स्त्रियो हि स्त्रीषु दृश्यन्ते सदा सम्परिमार्गणे ॥ 5.11.42 ॥
यस्य सत्त्वस्य या योनिस्तस्यां तत् परिमार्ग्यते।
न शक्या प्रमदा नष्टा मृगीषु परिमार्गितुम् ॥ 5.11.43 ॥
तदिदं मार्गितं तावच्छुद्धेन मनसा मया।
रावणान्तःपुरं सर्वं दृश्यते न च जानकी ॥ 5.11.44 ॥
देवगन्धर्वकन्याश्च नागकन्याश्च वीर्यवान्।
अवेक्षमाणो हनुमान्नैवापश्यत जानकीम् ॥ 5.11.45 ॥
तामपश्यन् कपिस्तत्र पश्यंश्चान्या वरस्त्रियः।
अपक्रम्य तदा वीरः प्रघ्यातुमुपचक्रमे ॥ 5.11.46 ॥
स भूयस्तु परं श्रीमान् मारुतिर्यत्नमास्थितः।
आपानभूमिमुत्सृज्य तद्विचेतुं प्रचक्रमे ॥ 5.11.47 ॥