००९ रावणान्तःपुरवर्णनम्

तस्यालयवरिष्ठस्य मध्ये विपुलमायतम्।
ददर्श भवनश्रेष्ठं हनुमान् मारुतात्मजः ॥ 5.9.1 ॥
अर्द्धयोजनविस्तीर्णमायतं योजनं हि तत्।
भवनं राक्षसेन्द्रस्य बहुप्रासादसङ्कुलम् ॥ 5.9.2 ॥
मार्गमाणस्तु वैदेहीं सातामायतलोचनाम्।
सर्वतः परिचक्राम हनुमानरिनूदनः ॥ 5.9.3 ॥
उत्तमं राक्षसावासं हनुमानवलोकयन्।
आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् ॥ 5.9.4 ॥
चतुर्विषाणैर्द्विरदैस्त्रिविषाणैस्तथैव च।
परिक्षिप्तमसम्बाधं रक्ष्यमाणमुदायुधैः ॥ 5.9.5 ॥
राक्षसीभिश्च पत्नीभी रावणस्य निवेशनम्।
आहृताभिश्च विक्रम्य राजकन्याभिरावृतम् ॥ 5.9.6 ॥
तन्नक्रमकराकीर्णं तिमिङ्गिलझषाकुलम्।
वायुवेगसमाधूतं पन्नगैरिव सागरम् ॥ 5.9.7 ॥
या हि वैश्रवणे लक्ष्मीर्या चेन्द्रे हरिवाहने।
सा रावणगृहे सर्वा नित्यमेवानपायिनी ॥ 5.9.8 ॥
या च राज्ञः कुबेरस्य यमस्य वरुणस्य च।
तादृशी तद्विशिष्टा वा ऋद्धी रक्षोगृहेष्विह ॥ 5.9.9 ॥
तस्य हर्म्यस्य मध्यस्थं वेश्म चान्यत्सुनिर्मितम्।
बहुनिर्यूहसङ्कीर्णं ददर्श पवनात्मजः ॥ 5.9.10 ॥
विमानं पुष्पकं नाम सर्वरत्नविभूषितम्।
परेण तपसा लेभे यत्कुबेरः पितामहात् ॥ 5.9.11 ॥
कुबेरमोजसा जित्वा लेभे तद्राक्षसेश्वरः ॥ 5.9.12 ॥
ईहामृगसमायुक्तैः कार्तस्वरहिरण्मयैः।
सुकृतैराचितं स्तम्भैः प्रदीप्तमिव च श्रिया ॥ 5.9.13 ॥
मेरुमन्दरसङ्काशैरुल्लिखद्भिरिवाम्बरम्।
कूटागारैः शुभाकारैः सर्वतः समलङ्कृतम् ॥ 5.9.14 ॥
ज्वलनार्कप्रतीकाशं सुकृतं विश्वकर्मणा।
हेमसोपानसंयुक्तं चारुप्रवरवेदिकम् ॥ 5.9.15 ॥
जालवातायनैर्युक्तं काञ्चनैः स्फाटिकैरपि।
इन्द्रनीलमहानीलमणिप्रवरवेदिकम् ॥ 5.9.16 ॥
विद्रुमेण विचित्रेण मणिभिश्च महाधनैः।
निस्तुलाभिश्च मुक्ताभिस्तलेनाभिविराजितम् ॥ 5.9.17 ॥
चन्दनेन च रक्तेन तपनीयनिभेन च।
सुपुण्यगन्धिना युक्तमादित्यतरुणोपमम् ॥ 5.9.18 ॥
कूटागारैर्वराकारैर्विविधैः समलङ्कृतम्।
विमानं पुष्पकं दिव्यमारुरोह महाकपिः ॥ 5.9.19 ॥
तत्रस्थः स तदा गन्धं पानभक्ष्यान्नसम्भवम्।
दिव्यं सम्मूर्च्छितं जिघ्रद्रूपवन्तमिवानिलम् ॥ 5.9.20 ॥
स गन्धस्तं महासत्त्वं बन्धुर्बन्धुमिवोत्तमम्।
इत एहीत्युवाचेव तत्र यत्र स रावणः ॥ 5.9.21 ॥
ततस्तां प्रस्थितः शालां ददर्श महतीं शुभाम्।
रावणस्य मनःकान्तां कान्तामिव वरस्त्रियम् ॥ 5.9.22 ॥
मणिसोपानविकृतां हेमजालविभूषिताम्।
स्फाटिकैरावृततलां दन्तान्तरितरूपिकाम् ॥ 5.9.23 ॥
मुक्ताभिश्च प्रवालैश्च रूप्यचामीकरैरपि।
विभूषितां मणिस्तम्भैः सुबहुस्तम्भभूषिताम् ॥ 5.9.24 ॥
समैर्ऋजुभिरत्युच्चैः समन्तात् सुविभूषितैः।
स्तम्भैः पक्षैरिवात्युच्चैर्दिवं सम्प्रस्थितामिव ॥ 5.9.25 ॥
महत्या कुथयाऽऽस्तीर्णां पृथिवीलक्षणाङ्कया।
पृथिवीमिव विस्तीर्णां सराष्ट्रगृहमालिनीम् ॥ 5.9.26 ॥
नादितां मत्तविहगैर्दिव्यगन्धाधिवासिताम्।
परार्घ्यास्तरणोपेतां रक्षोधिपनिषेविताम् ॥ 5.9.27 ॥
धूम्रामगरुधूपेन विमलां हंसपाण्डुराम्।
चित्रां पुष्पोपहारेण कल्माषीमिव सुप्रभाम् ॥ 5.9.28 ॥
मनस्संह्लादजननीं वर्णस्यापि प्रसाधिनीम्।
तां शोकनाशिनीं दिव्यां श्रियः सञ्जननीमिव ॥ 5.9.29 ॥
इन्द्रियाणीन्द्रियार्थैस्तु पञ्च पञ्चभिरुत्तमैः।
तर्पयामास मातेव तदा रावणपालिता ॥ 5.9.30 ॥
स्वर्गोऽयं देवलोकोऽयमिन्द्रस्येयं पुरी भवेत्।
सिद्धिर्वेयं परा हि स्यादित्यमन्यत मारुतिः ॥ 5.9.31 ॥
प्रध्यायत इवापश्यत् प्रदीपांस्तत्र काञ्चनान्।
धूर्तानिव महाधूर्तैर्देवनेन पराजितान् ॥ 5.9.32 ॥
दीपानां च प्रकाशेन तेजसा रावणस्य च।
अर्चिर्भिर्भूषणानां च प्रदीप्तेत्यभ्यमन्यत ॥ 5.9.33 ॥
ततोऽपश्यत्कुथासीनं नानावर्णाम्बरस्रजम्।
सहस्रं वरनारीणां नानावेषविभूषितम् ॥ 5.9.34 ॥
परिवृत्तेऽर्धरात्रे तु पाननिद्रावशं गतम्।
क्रीडित्वोपरतं रात्रौ सुष्वाप बलवत्तदा ॥ 5.9.35 ॥
तत्प्रसुप्तं विरुरुचे निःशब्दान्तरभूषणम्।
निःशब्दहंसभ्रमरं यथा पद्मवनं महत् ॥ 5.9.36 ॥
तासां संवृतदन्तानि मीलिताक्षाणि मारुतिः।
अपश्यत् पद्मगन्धीनि वदनानि सुयोषिताम् ॥ 5.9.37 ॥
प्रबुद्धानीव पद्मानि तासां भूत्वा क्षपाक्षये।
पुनः संवृतपत्राणि रात्राविव बभुस्तदा ॥ 5.9.38 ॥
इमानि मुखपद्मानि नियतं मत्तषट्पदाः।
अम्बुजानीव फुल्लानि प्रार्थयन्ति पुनः पुनः ॥ 5.9.39 ॥
इति चामयन्त श्रीमानुपपत्त्या महाकपिः।
मेने हि गुणतस्तानि समानि सलिलोद्भवैः ॥ 5.9.40 ॥
सा तस्य शुशुभे शाला ताभिः स्त्रीभिर्विराजिता।
शारदीव प्रसन्ना द्यौस्ताराभिरभिशोभिता ॥ 5.9.41 ॥
स च ताभिः परिवृतः शुशुभे राक्षसाधिपः।
यथा ह्युडुपतिः श्रीमांस्ताराभिरभिसंवृतः ॥ 5.9.42 ॥
याश्च्यवन्तेऽम्बरात्ताराः पुण्यशेषसमावृताः।
इमास्ताः सङ्गताः कृत्स्ना इति मेने हरिस्तदा ॥ 5.9.43 ॥
ताराणामिव सुव्यक्तं महतीनां शुभार्चिषाम्।
प्रभावर्णप्रसादाश्च विरेजुस्तत्र योषिताम् ॥ 5.9.44 ॥
व्यावृत्तगुरुपीनस्रक्प्रकीर्णवरभूषणाः।
पानव्यायामकालेषु निद्रापहृतचेतसः ॥ 5.9.45 ॥
व्यावृत्ततिलकाः काश्चित् काश्चिदुद्भ्रान्तनूपुराः।
पार्श्वे गलितहाराश्च काश्चित् परमयोषितः ॥ 5.9.46 ॥
मुक्ताहारावृताश्चान्याः काश्चिद्विस्रस्तवाससः।
व्याविद्धरशनादामाः किशोर्य इव वाहिताः ॥ 5.9.47 ॥
सुकुण्डलधराश्चान्याविच्छिन्नमृदुतस्रजः।
गजेन्द्रमृदिताः फुल्ला लता इव महावने ॥ 5.9.48 ॥
चन्द्रांशुकिरणाभाश्च हाराः कासाञ्चिदुत्कटाः।
हंसा इव बभुः सुप्ताः स्तनमध्येषु योषिताम् ॥ 5.9.49 ॥
अपरासां च वैडुर्याः कादम्बा इव पक्षिणः।
हेमसूत्राणि चान्यासां चक्रवाका इवाभवन् ॥ 5.9.50 ॥
हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः।
आपगा इव ता रेजुर्जघनैः पुलिनैरिव ॥ 5.9.51 ॥
किङ्किणीजालसङ्कोशास्ता हैमविपुलाम्बुजाः।
भावग्राहा यशस्तीराः सुप्ता नद्य इवाबभुः ॥ 5.9.52 ॥
मृदुष्वङ्गेषु कासाञ्चित् कुचाग्रेषु च संस्थिताः।
बभूवुर्भूषणानीव शुभा भूषणराजयः ॥ 5.9.53 ॥
अंशुकान्ताश्च कासाञ्चिन्मुखमारुतकम्पिताः।
उपर्युपरि वक्त्राणां व्याधूयन्ते पुनः पुनः ॥ 5.9.54 ॥
ताः पताका इवोद्धूताः पत्नीनां रुचिरप्रभाः।
ननावर्णसुवर्णानां वक्त्रमूलेषु रेजिरे ॥ 5.9.55 ॥
ववल्गुश्चात्र कासाञ्चित् कुण्डलानि शुभार्चिषाम्।
मुखमारुतसंसर्गान्मन्दं मन्दं सुयोषिताम् ॥ 5.9.56 ॥
शर्करासवगन्धैश्च प्रकृत्या सुरभिः सुखः।
तासां वदननिःश्वासः सिषेवे रावणं तदा ॥ 5.9.57 ॥
रावणाननशङ्काश्च काश्चिद्रावणयोषितः।
मूखानि स्म सपत्नीनामुपाजिघ्रन् पुनः पुनः ॥ 5.9.58 ॥
अत्यर्थं सक्तमनसो रावणे ता वरस्त्रियः।
अस्वतन्त्राः सपत्नीनां प्रियमेवाचरंस्तदा ॥ 5.9.59 ॥
बाहूनुपनिधायान्याः पारिहार्यविभूषितान्।
अंशुकानि च रम्याणि प्रमदास्तत्र शिश्यिरे ॥ 5.9.60 ॥
अन्या वक्षसि चान्यस्यास्तस्याः काश्चित्पुनर्भुजम्।
अपरा त्वङ्कमन्यस्यास्तस्याश्चाप्यपरा भुजौ ॥ 5.9.61 ॥
ऊरुपार्श्वकटीपृष्टमन्योन्यस्य समाश्रिताः।
परस्परनिविष्टाङ्ग्यो मदस्नेहवशानुगाः ॥ 5.9.62 ॥
अन्योन्यभुजसूत्रेण स्त्रीमाला ग्रथिता हि सा।
मालेव ग्रथिता सूत्रे शुशुभे मत्तषट्पदा ॥ 5.9.63 ॥
लतानां माधवे मासि फुल्लानां वायुसेवनात्।
अन्योन्यमालाग्रथितं संसक्तकुसुमोच्चयम् ॥ 5.9.64 ॥
व्यतिवेष्टितसुस्कन्धमन्योन्यभ्रमराकुलम्।
आसीद्वनमिवोद्धूतं स्त्रीवनं रावणस्य तत् ॥ 5.9.65 ॥
उचितेष्वपि सुव्यक्तं न तासां योषितां तदा।
विवेकः शक्य आधातुं भूषणाङ्गाम्बरस्रजाम् ॥ 5.9.66 ॥
रावणे सुखसंविष्टे ताः स्त्रियो विविधप्रभाः।
ज्वलन्तः काञ्चना दीपाः प्रैक्षन्तानिमिषा इव ॥ 5.9.67 ॥
राजर्षिपितृदैत्यानां गन्धर्वाणां च योषितः।
राक्षसानां च याः कन्यास्तस्य कामवशं गताः ॥ 5.9.68 ॥
युद्धकामेन ताः सर्वा रावणेन हृताः स्त्रियः।
समदा मदनेनैव मोहिताः काश्चिदागताः ॥ 5.9.69 ॥
न तत्र काश्चित् प्रमदाः प्रसह्य वीर्योपपन्नेव गुणेन लब्धाः।
न चान्यकामापि न चान्यपूर्वा विना वरार्हां जनकात्मजां ताम् ॥ 5.9.70 ॥
न चाकुलीना न च हीनरूपा नादक्षिणा नानुपचारयुक्ता।
भार्याऽभवत्तस्य न हीनसत्त्वा न चापि कान्तस्य न कामनीया ॥ 5.9.71 ॥
बभूव बुद्धिस्तु हरीश्वरस्य यदीदृशी राघवधर्मपत्नी।
इमा यथा राक्षसराजभार्याः सुजातमस्येति हि साधुबुद्धेः ॥ 5.9.72 ॥
पुनश्च सोऽचिन्तयदार्तरूपो ध्रुवं विशिष्टा गुणतो हि सीता।
अथायमस्यां कृतवान् महात्मा लङ्केश्वरः कष्टमनार्यकर्म ॥ 5.9.73 ॥