००८ पुष्पकविमानवर्णनम्

स तस्य मध्ये भवनस्य संस्थितं महद्विमानं मणिवज्रचित्रितम्।
प्रतप्तजाम्बूनदजालकृत्रिमं ददर्श वीरः पवनात्मजः कपिः ॥ 5.8.1 ॥
तदप्रमेयाऽप्रतिकारकृत्रिमं कृतं स्वयं साध्विति विश्वकर्मणा।
दिवं गतं वायुपथप्रतिष्ठितं व्यराजतादित्यपथस्य लक्ष्मवत् ॥ 5.8.2 ॥
न तत्र किञ्चिन्नकृतं प्रयत्नतो न तत्र किञ्चिन्नमहार्हरत्नवत्।
न ते विशेषा नियताः सुरेष्वपि न तत्र किञ्चिन्न महाविशेषवत् ॥ 5.8.3 ॥
तपः समाधानपराक्रमार्जितं मनःसमाधानविचारचारिणम्।
अनेकसंश्तानाविशेषनिर्मितं ततस्ततस्तुल्यविशेषदर्शनम् ॥ 5.8.4 ॥
मनस्समाधाय तु शीघ्रगामिनं दुरावरं मारुततुल्यगामिनम्।
महात्मनां पुण्यकृतां महर्द्धिनां यशस्विनामग्र्य मुदामिवालयम् ॥ 5.8.5 ॥
विशेषमालम्ब्य विशेषसंस्थितं विचित्रकूटं बहुकूटमण्डितम्।
मनोभिरामं शरदिन्दुनिर्मलं विचित्रकूटं शिखरं गिरेर्यथा ॥ 5.8.6 ॥
वहन्ति यं कुण्डलशोभितानना महाशना व्योमचरा निशाचराः।
विवृत्तविध्वस्तविशाललोचना महाजवा भूतगणाः सहस्रशः ॥ 5.8.7 ॥
वसन्तपुष्पोत्करचारुदर्शनं वसन्तमासादपि कान्तदर्शनम्।
स पुष्पकं तत्र विमानमुत्तमं ददर्श तद्वानरवीरसत्तमः ॥ 5.8.8 ॥