००७ हनुमता पुष्पकविमानदर्शनम्

स वेश्मजालं बलवान् ददर्श व्यासक्तवैडूर्यसुवर्णजालम्।
यथा महत् प्रावृषि मेघजालं विद्युत्पिनद्धं सविहङ्गजालम् ॥ 5.7.1 ॥
निवेशनानां विविधाश्च शालाः प्रधानशङ्खायुधचापशालाः।
मनोहराश्चापि पुनर्विशाला ददर्श वेश्माद्रिषु चन्द्रशालाः ॥ 5.7.2 ॥
गृहाणि नानावसुराजितानि देवासुरैश्चापि सुपूजितानि।
सर्वैश्च दोषैः परिवर्जितानि कपिर्ददर्श स्वबलार्जितानि ॥ 5.7.3 ॥
तानि प्रयत्नाभिसाहितानि मयेन साक्षादिव निर्मितानि।
महीतले सर्वगुणोत्तराणि ददर्श लङ्काधिपतेर्गृहाणि ॥ 5.7.4 ॥
ततो ददर्शोच्छ्रितमेघरूपं मनोहरं काञ्चनचारुरूपम्।
रक्षोधिपस्यात्मबलानुरूपं गृहोत्तमं ह्यप्रतिरूपरूपम् ॥ 5.7.5 ॥
महीतले स्वर्गमिव प्रकीर्णं श्रिया ज्वलन्तं बहुरत्नकीर्णम्।
नानातरूणां कुसुमावकीर्णं गिरेरिवाग्रं रजसाऽवकीर्णम् ॥ 5.7.6 ॥
नारीप्रवेकैरिव दीप्यमानं तडिद्भिरम्भोदवदर्च्यमानम्।
हंसप्रवेकैरिव वाह्यमानं श्रिया युतं खे सुकृतां विमानम् ॥ 5.7.7 ॥
यथा नगाग्रं बहुधातुचित्रं यथा नभश्च ग्रहचन्द्रचित्रम्।
ददर्श युक्तीकृतमेघचित्रं विमानरत्नं बहुरत्नचित्रम् ॥ 5.7.8 ॥
मही कृता पर्वतराजिपूर्णा शैलाः कृता वृक्षवितानपूर्णाः।
वृक्षाः कृताः पुष्पवितानपूर्णाः पुष्पं कृतं केसरपत्त्रपूर्णम् ॥ 5.7.9 ॥
कृतानि वेश्मानि च पाण्डुराणि तथा सुपुष्पाण्यपि पुष्कराणि।
पुनश्च पद्मानि सकेसराणि धन्यानि चित्राणि तथा वनानि ॥ 5.7.10 ॥
पुष्पाह्वयं नाम विराजमानं रत्नप्रभाभिश्च विवर्द्धमानम्।
वेश्मोत्तमानामपि चोच्चमानं महाकपिस्तत्र महाविमानम् ॥ 5.7.11 ॥
कृताश्च वैडुर्यमया विहङ्गा रूप्यप्रवालैश्च तथा विहङ्गाः।
चित्राश्च नानावसुभिर्भुजङ्गा जात्यानुरूपास्तुरगाः शुभाङ्गाः ॥ 5.7.12 ॥
प्रवालजाम्बूनदपुष्पपक्षाः सलीलमावर्जितजिह्मपक्षः।
कामस्य साक्षादिव भान्ति पक्षाः कृता विहङ्गाः सुमुखाः सुपक्षाः ॥ 5.7.13 ॥
नियुज्यमानास्तु गजाः सुहस्ताः सकेसराश्चोत्पलपत्रहस्ताः।
बभूव देवी च कृता सुहस्ता लक्ष्मीस्तथा पद्मिनि पद्महस्ता ॥ 5.7.14 ॥
इतीव तद् गृहमभिगम्य शोभनं सविस्मयो नगमिव चारुशोभनम्।
पुनश्च तत्परमसुगन्धिसुन्दरं हिमात्यये नगमिव चारुकन्दरम् ॥ 5.7.15 ॥
ततः स तां कपिरभिपत्य पूजितां चरन् पुरीं दशमुखबाहुपालिताम्।
अदृश्य तां जनकसुतां सुपूजितां सुदुःखितः पतिगुणवेगनिर्जिताम् ॥ 5.7.16 ॥
ततस्तदा बहुविधभावितात्मनः कृतात्मनो जनकसुतां सुवर्त्मनः।
अपश्यतोऽभवदतिदुःखितं मनः सुचक्षुषः प्रविचरतो महात्मनः ॥ 5.7.17 ॥