स निकामं विमानेषु विषण्णः कामरूपधृक्।
विचचार पुनर्लङ्कां लाघवेन समन्वितः ॥ 5.6.1 ॥
आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम्।
प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम् ॥ 5.6.2 ॥
रक्षितं राक्षसैर्घोरैः सिंहैरिव महद्वनम्।
समीक्षमाणो भवनं चकाशे कपिकुञ्जरः ॥ 5.6.3 ॥
रूप्यकोपहितैश्चित्रैस्तोरणैर्हेमभूषितैः।
विचित्राभिश्च कक्ष्याभिर्द्वारैश्च रुचिरैर्वृतम् ॥ 5.6.4 ॥
गजास्थितैर्महामात्रैः शूरैश्च विगतश्रमैः।
उपस्थितमसंहार्यैर्हयैः स्यन्दनयायिभिः ॥ 5.6.5 ॥
सिंहव्याघ्रतनुत्राणैर्दान्तकाञ्चनराजतैः।
घोषवद्भिर्विचित्रैश्च सदा विचरितं रथैः ॥ 5.6.6 ॥
बहुरत्नसमाकीर्णं परार्घ्यासनभाजनम्।
महारथसमावासं महारथमहास्वनम् ॥ 5.6.7 ॥
दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः।
विविधैर्बहुसाहस्रैः परिपूर्णं समन्ततः ॥ 5.6.8 ॥
विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम्।
मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समन्ततः ॥ 5.6.9 ॥
मुदितप्रमदारत्नं राक्षसेन्द्रनिवेशनम्।
वराभरणसंह्रादैः समुद्रस्वननिस्वनम् ॥ 5.6.10 ॥
तद्राजगुणसम्पन्नं मुख्यैश्चागुरुचन्दनैः।
महाजनैः समाकीर्णं सिंहैरिव महद्वनम् ॥ 5.6.11 ॥
भेरीमृदङ्गाभिरुतं शङ्खघोषनिनादितम्।
नित्यार्चितं पर्वहुतं पूजितं राक्षसैः सदा ॥ 5.6.12 ॥
महात्मनो महद्वेश्म महारत्नपरिच्छदम्।
महारत्नसमाकीर्णं ददर्श स महाकपिः ॥ 5.6.13 ॥
विराजमानं वपुषा गजाश्वरथसङ्कुलम्।
लङ्काभरणमित्येव सोऽमन्यत महाकपिः ॥ 5.6.14 ॥
चचार हनुमांस्तत्र रावणस्य समीपतः ॥ 5.6.15 ॥
गृहाद् गृहं राक्षसानामुद्यानानि च वानरः।
वीक्षमाणो ह्यसन्त्रस्तः प्रासादांश्च चचार सः ॥ 5.6.16 ॥
अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम्।
ततोऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् ॥ 5.6.17 ॥
अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम्।
विभीषणस्य च तदा पुप्लुवे स महाकपिः ॥ 5.6.18 ॥
शुकस्य च महातेषाः सारणस्य च धीमतः।
तथा चेन्द्रजितो वेश्म जगाम हरियूथपः ॥ 5.6.19 ॥
जम्बुमालेः सुमालेश्च जगाम हरिसत्तमः।
रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च ॥ 5.6.20 ॥
वज्रकायस्य च तथा पुप्लुवे स महाकपिः।
धूम्राक्षस्य च सम्पातेर्भवनं मारुतात्मजः ॥ 5.6.21 ॥
विद्युद्रूपस्य भीमस्य घनस्य विघनस्य च ॥ 5.6.22 ॥
शुकनासस्य वक्रस्य शठस्य विकटस्य च।
ब्रह्मकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ॥ 5.6.23 ॥
युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य नादिनः।
विद्युज्जिह्वेन्द्रजिह्वानां तथा हस्तिमुखस्य च ॥ 5.6.24 ॥
करालस्य पिशाचस्य शोणिताक्षस्य चैव हि।
क्रममाणः क्रमेणैव हनुमान् मारुतात्मजः ॥ 5.6.25 ॥
तेषु तेषु महार्हेषु भवनेषु महायशाः।
तेषामृद्धिमतामृद्धिं ददर्श स महाकपिः ॥ 5.6.26 ॥
सर्वेषां समतिक्रम्य भवनानि समन्ततः।
आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् ॥ 5.6.27 ॥
विचरन् हरिशार्दूलो राक्षसीर्विकृतेक्षणाः।
शूलमुद्गरहस्ताश्च शक्तितोमरधारिणीः ॥ 5.6.28 ॥
ददर्श विविधान् गुल्मांस्तस्य रक्षःपतेर्गृहे।
राक्षसांश्च महाकायान्नानाप्रहरणोद्यतान् ॥ 5.6.29 ॥
रक्तान् श्वेतान् सितांश्चैव हरींश्चापि महाजवान्।
कुलीनान् रूपसम्पन्नान् गजान् परगजारुजान् ॥ 5.6.30 ॥
निष्ठितान् गजशिक्षायामैरावतसमान् युधि।
निहन्तॄन् परसैन्यानां गहे तस्मिन् ददर्श सः ॥ 5.6.31 ॥
क्षरतश्च यथा मेघान् स्रवतश्च यथा गिरीन्।
मेघस्तनितनिर्घोषान् दुर्धर्षान् समरे परैः ॥ 5.6.32 ॥
सहस्रं वाहिनीस्तत्र जाम्बूनदपरिष्कृताः।
हेमजालपरिच्छन्नास्तरुणादित्यसन्निभाः ॥ 5.6.33 ॥
ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ॥ 5.6.34 ॥
शिबिका विविधाकाराः स कपिर्मारुतात्मजः।
लतागृहाणि चित्राणि चित्रशाला गृहाणि च ॥ 5.6.35 ॥
कामस्य गृहकं रम्यं दिवागृहकमेव च।
ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ॥ 5.6.36 ॥
स मन्दरगिरिप्रख्यं मयूरस्थानसङ्कुलम्।
ध्वजयष्टिभिराकीर्णं ददर्श भवनोत्तमम् ॥ 5.6.37 ॥
अनेकरत्नसङ्कीर्णं निधिजालं समन्तत।
धीरनिष्ठितकर्मान्तं गृहं भूतपतेरिव ॥ 5.6.38 ॥
अर्चिर्भिश्चापि रत्नानां तेजसा रावणस्य च।
विरराजाथ तद्वेश्म रश्मिमानिव रश्मिभिः ॥ 5.6.39 ॥
जाम्बूनदमयान्येव शयनान्यासनानि च।
भाजनानि च मुख्यानि ददर्श हरियूथपः ॥ 5.6.40 ॥
मनोरममसम्बाधं कुबेरभवनं यथा।
नूपुराणां च घोषेण काञ्चीनां निनदेन च ॥ 5.6.41 ॥
मृदङ्गतलघोषैश्छ घोषवद्भिर्विनादितम्।
प्रासादसङ्घातयुतं स्त्रीरत्नशतसङ्कुलम् ॥ 5.6.42 ॥
सुव्यूढकक्ष्यं हनुमान् प्रविवेश महागृहम् ॥ 5.6.43 ॥