००५ रावणप्रासादवर्णनम्

ततः स मध्यं गतमंशुमन्तं ज्योत्स्नावितानं महदुद्वमन्तम्।
ददर्श धीमान् दिवि भानुमन्तं गोष्ठे वृषं मत्तमिव भ्रमन्तम् ॥ 5.5.1 ॥
लोकस्य पापानि विनाशयन्तं महोदधिं चापि समेधयन्तम्।
भूतानि सर्वाणि विराजयन्तं ददर्श शीतांशुमथाभियान्तम् ॥ 5.5.2 ॥
या भाति लक्ष्मीर्भुवि मन्दरस्था तथा प्रदोषेषु च सागरस्था।
तथैव तोयेषु च पुष्करस्था रराज सा चारुनिशाकरस्था ॥ 5.5.3 ॥
हंसो यता राजतपञ्जरस्थः सिंहो यथा मन्दरकन्दरस्थः।
वीरो यथा गर्वितकृञ्जरस्थश्चन्द्रो विबभ्राज तथाऽम्बरस्थः ॥ 5.5.4 ॥
स्थितः ककुद्मानिव तीक्ष्णशृङ्गो महाचलः श्वेत इवोच्चशृङ्गः।
हस्तीव जाम्बूनदबद्धशृङ्गो रराज चन्द्रः परिपूर्णशृङ्गः ॥ 5.5.5 ॥
विनष्टशीताम्बुतुषारपङ्को महाग्रहग्राहविनष्टपङ्कः।
प्रकाशलक्ष्म्याश्रयनिर्मलाङ्को रराज चन्द्रो भगवान् शशाङ्कः ॥ 5.5.6 ॥
शिलातलं प्राप्य यता मृगेन्द्रो महारणं प्राप्य यथा गजेन्द्रः।
राज्य समासाद्य यथा नरेन्द्रस्तथा प्रकाशो विरराज चन्द्रः ॥ 5.5.7 ॥
प्रकाशचन्द्रोदयनष्टदोषः प्रवृद्धरक्षः पिशिताशदोषः।
रामाभिरामेरितचित्तदोषः स्वर्गप्रकाशो भगवान् प्रदोषः ॥ 5.5.8 ॥
तन्त्रीस्वनाः कर्णसुखाः प्रवृत्ताः स्वपन्ति नार्यः पतिभिस्सुवृत्ताः।
नक्तञ्चराश्चापि तथा प्रवृत्ता विहर्तुमत्यद्भुतरौद्रवृत्ताः ॥ 5.5.9 ॥
मत्तप्रमत्तानि समाकुलानि रथाश्वभद्रासनसङ्कुलानि।
वीरश्रिया चापि समाकुलानि ददर्श धीमान् स कपिः कुलानि ॥ 5.5.10 ॥
परस्परं चाधिकमाक्षिपन्ति भुजांश्च पीनानधिनिक्षिपन्ति।
मत्तप्रलापानधिकं त्रिपन्ति मत्तानि चान्योन्यमधिक्षिपन्ति ॥ 5.5.11 ॥
रक्षंसि वक्षांसि च विक्षिपन्ति गात्राणि कान्तासु च विक्षपन्ति।
रूपाणि चित्राणि च विक्षिपन्ति दृढानि चापानि च विक्षिपन्ति ॥ 5.5.12 ॥
ददर्श कान्ताश्च समालभन्त्यस्तथाऽपरास्तत्र पुनः स्वपन्त्यः।
सुरूपवक्त्राश्च तता हसन्त्यः क्रुद्धाः पराश्चापि विनिःश्वसन्त्यः ॥ 5.5.13 ॥
महागजैश्चापि तथा नदद्भिः सुपूजितैश्चापि तथा सुसद्भिः।
रराज वीरैश्च विनःश्वसद्भिर्ह्रदो भुजङ्गैरिव निःश्वसद्भिः ॥ 5.5.14 ॥
बुद्धिप्रधानान् रुचिराभिधानान् संश्रद्धधानान् जगतः प्रधानान्।
नानाविधानान् रुचिराभिधानन् ददर्श तस्यां पुरि यातुधानान् ॥ 5.5.15 ॥
ननन्द दृष्ट्वा स च तान् सुरूपान्नानागुणानात्मगुणानुरूपान्।
विद्योतमानान् स तदाऽनुरूपान् ददर्श कांश्चिच्च पुनर्विरूपान् ॥ 5.5.16 ॥
ततो वरार्हाः सुविशुद्धभावास्तेषां स्त्रियस्तत्र महानुभावाः।
प्रियेषु पानेषु च सक्तभावा ददर्श तारा इव सुप्रभावाः ॥ 5.5.17 ॥
श्रिया ज्वलन्तीस्त्रयोपगूढा निशीथकाले रमणोपगूढाः।
ददर्शकाश्चित्प्रमदोपकूढा यथा विहङ्गाः कुसुमोपगूढाः ॥ 5.5.18 ॥
अन्याः पुनर्हर्म्यतलोपविष्टास्तत्र प्रियाङ्केषु सुखोपविष्टाः।
भर्तुः प्रिया धर्मपरा निविष्टा ददर्श धीमान् मदनाभिविष्टाः ॥ 5.5.19 ॥
अप्रावृत्ताः काञ्चनराजिवर्णाः काश्चित्परार्घ्यास्तपनीयवर्णाः।
पुनश्च काश्चिच्छशलक्ष्मवर्णाः कान्तप्रहीणा रुचिराङ्गवर्णाः ॥ 5.5.20 ॥
ततः प्रियान् प्राप्य मनोभिरामान् सुप्रीतियुक्ताः प्रसमीक्ष्य रामाः।
गृहेषु हृष्टाः परमाभिरामा हरिप्रवीरः स ददर्श रामाः ॥ 5.5.21 ॥
चन्द्रप्रकाशाश्च हि वक्त्रमाला वक्राक्षिपक्ष्माश्च सुनेत्रमालाः।
विभूषणानां च ददर्श मालाः शतह्रदानामिव चारुमालाः ॥ 5.5.22 ॥
न त्वेव सीतां परमाभिजातां पथि स्थिते राजकुले प्रजाताम्।
लतां प्रफुल्लामिव साधुजातां ददर्श तन्वीं मनसाऽभिजाताम् ॥ 5.5.23 ॥
सनातने वर्त्मनि सन्निविष्टां रामेक्षणान्तां मदनाभिविष्टाम्।
भर्तुर्मनः श्रीमदनुप्रविष्टां स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम् ॥ 5.5.24 ॥
उष्णार्दितां सानुसृतास्रकण्ठीं पुरा वरार्होत्तमनिष्ककण्ठीम्।
सुजातपक्ष्मामभिरक्तकण्ठीं वने प्रनृत्तामिव नीलकण्ठीम् ॥ 5.5.25 ॥
अव्यक्तरेखामिव चन्द्ररेखां पांसुप्रदिग्धामिव हेमरेखाम्।
क्षतप्रूढामिव बाणरेखां वायुप्रभिन्नामिव मेघरेखाम् ॥ 5.5.26 ॥
सीतामपश्यन् मनुजेश्वरस्य रामस्य पत्नीं वदतां वरस्य।
बभूव दुःखाभिहतश्चिरस्य प्लवङ्गमो मन्द इवाचिरस्य ॥ 5.5.27 ॥