००४ लङ्कापुरीप्रवेशः

विक्रमेण महातेजा हनूमान् कपिसत्तमः।
अद्वारेण महाबाहुः प्राकारमभिपुप्लुवे ॥ 5.4.1 ॥
प्रविश्य नगरीं लङ्कां कपिराजहितङ्करः।
चक्रेऽथ पादं सव्यं च शत्रूणां स तु मूर्धनि ॥ 5.4.2 ॥
प्रविष्टः सत्त्वसम्पन्नो निशायां मारुतात्मजः।
स महापथमास्थाय मुक्तापुष्पविराजितम् ॥ 5.4.3 ॥
ततस्तु तां पुरीं लङ्कां रम्यामभिययौ कपिः ॥ 5.4.4 ॥
वज्राङ्कुशनिकाशैश्च वज्रजालविभूषितैः।
गृहमेघैः पूरी रम्या बभासे द्यौरिवाम्बुदैः ॥ 5.4.5 ॥
प्रजज्वाल तदा लङ्का रक्षोगणगृहैः शुभै ॥ 5.4.6 ॥
वर्धमानगृहैश्चापि सर्वतः सुविभूषिता।
[गृहमुख्यः पुरी रम्या बभासे द्यौरिवाम्बुदैः] ॥ 5.4.7 ॥
तां चित्रमाल्याभरणां कपिराजहितङ्करः।
राघवार्थं चरन् श्रीमान् ददर्श च ननन्द च ॥ 5.4.8 ॥
भवनाद्भवनं गच्छन् ददर्श पवनात्मजः।
विविधाकृतिरूपाणि भवनानि ततस्ततः ॥ 5.4.9 ॥
शुश्राव मधुरं गीतं त्रिस्थानस्वरभूषितम्।
स्त्रीणां मदसमृद्धानां दिवि चाप्सरसामिव ॥ 5.4.10 ॥
सोपाननिनदांश्चैव भवनेषु महात्मनाम्।
अस्फोटितनिनादांश्च क्ष्वेलितांश्च ततस्ततः ॥ 5.4.11 ॥
शुश्राव जपतां तत्र मन्त्रान् रक्षो गृहेषु वै ॥ 5.4.12 ॥
स्वाध्यायनिरतांश्चैव यातुधानान् ददर्श सः।
रावणस्तवसंयुक्तान् गर्जतो राक्षसानपि ॥ 5.4.13 ॥
ददर्श मध्यमे गुल्मे रावणस्य चरान् बहून्**।
स्वजनवृत्तान्तजिज्ञासया प्रधानप्रेरितान् प्रणिधीन् ॥ 5.4.14 ॥
दीक्षितान् जटिलान् मुण्डान् गोजिनाम्बरवाससः।
दर्भमुष्टिप्रहरणानग्निकुण्डायुधांस्तथा ॥ 5.4.15 ॥
कूटमुद्गरपाणींश्च दण्डायुधधरानपि।
एकाक्षानेककर्णांश्च लम्बोदरपयोधरान् ॥ 5.4.16 ॥
करालान् भग्नवक्त्रांश्च विकटान् वामनांस्तथा।
धन्विनः ख़ड्गिनश्चैव शतघ्नीमुसलायुधान् ॥ 5.4.17 ॥
परिघोत्तमहस्तांश्च विचित्रकवचोज्ज्वलान्।
नातिस्थूलान्नातिकृशान्नातिदीर्घातिह्रस्वकान् ॥ 5.4.18 ॥
विरूपान् बहुरूपांश्च सुरूपांश्च सुवर्चसः।
ध्वजीन् पताकिनश्चैव ददर्श विविधायुधान् ॥ 5.4.19 ॥
शक्तिवृक्षायुधांश्चैव पट्टिशाशनिधारिणः ॥ 5.4.20 ॥
क्षेपणीपाशहस्तांश्च ददर्श स महाकपिः।
स्त्रग्विणस्त्वनुलिप्तांश्च वराभरणभूषितान् ॥ 5.4.21 ॥
नानावेषसमायुक्तान् यथास्वैरगतान् बहून्।
तीक्ष्णशूलधरांश्चैव वज्रिणश्च महाबलान् ॥ 5.4.22 ॥
शतसाहस्रमव्यग्रमारक्षं मध्यमं कपिः।
रक्षोधिपतिनिर्दिष्टं ददर्शान्तःपुराग्रतः ॥ 5.4.23 ॥
स तदा तद्गृहं दृष्ट्वा महाहाटकतोरणम्।
राक्षसेन्द्रस्य विख्यातमद्रिमूर्ध्नि प्रतिष्ठितम् ॥ 5.4.24 ॥
पुण्डरीकावतंसाभिः परिघाभिरलङ्कृतम्।
प्राकारावृतमत्यन्तं ददर्श स महाकपिः ॥ 5.4.25 ॥
त्रिविष्टपनिभं दिव्यं दिव्यनादविनादितम्।
वाजिहेषितसङ्घुष्टं नादितं भूषणैस्तदा ॥ 5.4.26 ॥
रथैर्यानैर्विमानैश्च तथा हयगजैः शुभैः।
वारणैश्च चतुर्दन्तैः श्वेताभ्रनिचयोपमैः ॥ 5.4.27 ॥
रक्षितं सुमहावीर्यैर्वासुधानैः सहस्रशः।
राक्षसाधिपतेर्गुप्तमाविवेश महाकपिः ॥ 5.4.28 ॥
सहोमजाम्बूनदचक्रवालं महार्हमुक्तामणिभूषितानाम्।
परार्घ्यकालागरुचन्दनाक्तं स रावणान्तःपुरमाविवेश ॥ 5.4.29 ॥