स लम्बसिखरे लम्बे लम्बतोयदसन्निभे।
सत्त्वमास्ताय मेधावी हनुमान्मारुतात्मजः ॥ 5.3.1 ॥
निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः।
रम्यकाननतोयाढ्यां पुरीं रावणपालिताम् ॥ 5.3.2 ॥
शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम्।
सागरोपमनिर्घोषां सागरानिलसेविताम् ॥ 5.3.3 ॥
सुपुष्टबलसङ्घुष्टां यथैव विटपावतीम्।
चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम् ॥ 5.3.4 ॥
भुजगाचरितां गुप्तां शुभां भोगवतीमिव।
तां सविद्युद्घनाकीर्णां ज्योतिर्मार्गनिषेविताम् ॥ 5.3.5 ॥
मन्दमारुतसञ्चारां यथेन्द्रस्यामरावतीम्।
शातकुम्भेन महता प्राकारेणाभिसंवृताम् ॥ 5.3.6 ॥
किङ्किणीजालघोषाभिः पताकाभिरलङ्कृताम्।
आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान् ॥ 5.3.7 ॥
विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः ॥ 5.3.8 ॥
वज्रस्फाटिकमुक्ताभिर्मणिकुट्टिमभूषितैः।
तप्तहाटकनिर्यूहै राजतामलपाण्डुरैः ॥ 5.3.9 ॥
वैडूर्यकृतसोपानैः स्फाटिकान्तरपांसुभिः।
चारुसञ्जवनोपेतैः खमिवोत्पतितैः शुभैः ॥ 5.3.10 ॥
क्रौञ्चबर्हिणसङ्घुष्टैराजहंसनिषेवितैः।
तूर्याभरणनिर्घोषैः सर्वतः प्रतिनादिताम् ॥ 5.3.11 ॥
वस्वोकसाराप्रतिमां तां वीक्ष्य नगरीं ततः।
खमिवोत्पतितुं कामां जहर्ष हनुमान् कपिः ॥ 5.3.12 ॥
तां समीक्ष्य पुरीं रम्यां राक्षसाधिपतेः शुभाम्।
अनुत्तमामृद्धियुतां चिन्तयामास वीर्यवान् ॥ 5.3.13 ॥
नेयमन्येन नगरी शक्या धर्षयितुं बलात्।
रक्षिता रावणबलैरुद्यतायुधधारिभिः ॥ 5.3.14 ॥
कुमुदाङ्गदयोर्वापि सुषेणस्य महाकपेः।
प्रसिद्धेयं भवेद्भूमिर्मैन्दद्विविदयोरपि ॥ 5.3.15 ॥
विवस्वतस्तनूजस्य हरेश्च कुशपर्वणः।
ऋक्षस्य केतुमालस्य मम चैव गतिर्भवेत् ॥ 5.3.16 ॥
समीक्ष्य तु महाबाहू राघवस्य पराक्रमम्।
लक्ष्मणस्य च विक्रान्तमभवत्प्रीतिमान् कपिः ॥ 5.3.17 ॥
तां रत्नवसनोपेतां गोष्ठागारावतंसकाम्।
यन्त्रागारस्तनीमृद्धां प्रमदामिव भूषिताम् ॥ 5.3.18 ॥
तां नष्टतिमिरां दीप्तैर्भास्वरैश्च महागृहैः।
नगरीं राक्षसेन्द्रस्य ददर्श स महाकपिः ॥ 5.3.19 ॥
अथ सा हरिशार्दूलं प्रविशन्तं महाबलम्।
नगरी स्वेन रूपेण ददर्श पवनात्मजम् ॥ 5.3.20 ॥
सा तं हरिवरं दृष्ट्वा लङ्का रावणपालिता।
स्वयमेवोत्थिता तत्र विकृताननदर्शना ॥ 5.3.21 ॥
पुरस्तात्कपिवर्यस्य वायुसूनोरतिष्ठत।
मुञ्चमाना महानादमब्रवीत्पवनात्मजम् ॥ 5.3.22 ॥
कस्त्वं केन च कार्येण इह प्राप्तो वनालय।
कथयस्वेह यत्तत्त्वं यावत्प्राणा धरन्ति ते ॥ 5.3.23 ॥
न शक्यं खल्वियं लङ्का प्रवेष्टुं वानर त्वया।
रक्षिता रावणबलैरभिगुप्ता समन्ततः ॥ 5.3.24 ॥
अथ तामब्रवीद्वीरो हनूमानग्रतः स्थिताम्।
कथयिष्यामि ते तत्त्वं यन्मां त्वं परिपृच्छसि ॥ 5.3.25 ॥
का त्वं विरूपनयना पुरद्वारेऽवतिष्ठसि।
किमर्थं चापि मां रुद्ध्वा निर्भिर्त्सयसि दारुणा ॥ 5.3.26 ॥
हनुमद्वचनं श्रुत्वा लङ्का सा कामरूपिणी।
उवाच वचनं क्रुद्धा परुषं पवनात्मजम् ॥ 5.3.27 ॥
अहं हाक्षसराजस्य रावणस्य महात्मनः।
आज्ञा प्रतीक्षा दुर्धर्षा रक्षामि नगरीमिमाम् ॥ 5.3.28 ॥
न शक्या मामवज्ञाय प्रवेष्टुं नगरी त्वया।
अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया ॥ 5.3.29 ॥
अहं हि नगरी लङ्का स्वयमेव प्लवङ्गम।
सर्वतः परिरक्षामि ह्येतत्ते कथितं मया ॥ 5.3.30 ॥
लङ्काया वचनं श्रुत्वा हनुमान् मारुतात्मजः।
यत्नवान् स हरिश्श्रेष्ठः स्थितः शैल इवापरः ॥ 5.3.31 ॥
स तां स्त्रीरूपविकृतां दृष्ट्वा वानरपुङ्गवः।
आबभाषेऽथ मेधावी सत्त्ववान् प्लवगर्षभः ॥ 5.3.32 ॥
द्रक्ष्यामि नगरीं लङ्कां साट्टप्राकारतोरणाम्।
इत्यर्थमिह सम्प्राप्तः परं कौतूहलं हि मे ॥ 5.3.33 ॥
वनान्युपवनानीह लङ्कायाः काननानि च।
सर्वतो गृहमुख्यानि द्रष्टुमागमनं हि मे ॥ 5.3.34 ॥
तस्य तद्वचनं श्रुत्वा लङ्ङ्का सा कामरूपिणी।
भूय एव पुर्नवाक्यं बभाषे परुषाक्षरम् ॥ 5.3.35 ॥
मामनिर्जित्य दुर्बुद्धे राक्षसेश्वरपालिताम्।
न शक्यमद्य ते द्रष्टुं पुरीयं वानराधम ॥ 5.3.36 ॥
ततः स कपिशार्दूलस्तामुवाच निशाचराम्।
दृष्ट्वा पुरीमिमां भद्रे पुनर्यास्ये यथागतम् ॥ 5.3.37 ॥
ततः कृत्वा महानादं सा वै लङ्का भयावहम्।
तलेन वानरश्रेष्ठं ताडयामास वेगिता ॥ 5.3.38 ॥
ततः स कपिशार्दूलो लङ्कया ताडितो भृशम्।
ननाद सुमहानादं वीर्यवान् पवनात्मजः ॥ 5.3.39 ॥
ततः संवर्तयामास वामहस्तस्य सोऽङ्गुलीः।
मुष्टिनाऽभिजघानैनां हनूमान् क्रोधमूर्च्छितः ॥ 5.3.40 ॥
स्त्री चेति मन्यमानेन नातिक्रोधस्स्वयं कृतः ॥ 5.3.41 ॥
सा तु तेन प्रहारेण विह्वलाङ्गी निशाचरी।
पपात सहसा भूमौ विकृताननदर्शना ॥ 5.3.42 ॥
ततस्तु हनुमान् प्राज्ञस्तां दृष्ट्वा विनिपातिताम्।
कृपां चकार तेजस्वी मन्यमानः स्त्रियं तु ताम् ॥ 5.3.43 ॥
ततो वै भृशसंविग्ना लङ्का सा गद्गदाक्षरम्।
उवाचागर्वितं वाक्यं हनुमान्तं प्लवङ्गमम् ॥ 5.3.44 ॥
प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम।
समये सौम्य तिष्ठन्ति सत्त्ववन्तो महाबलाः ॥ 5.3.45 ॥
अहं तु नगरी लङ्का स्वयमेव प्लवङ्गम।
निर्जिताऽहं त्वया वीर विक्रमेण महाबल ॥ 5.3.46 ॥
इदं तु तथ्यं वै ब्रुवन्त्या मे हरीश्वर।
स्वयम्भुवा पुरा दत्तं वरदानं यथा मम ॥ 5.3.47 ॥
यदा त्वां वानरः कश्चिद्विक्रमाद्वशमानयेत्।
तदा त्वया हि विज्ञेयं रक्षसां भयमगतम् ॥ 5.3.48 ॥
स हि मे समयस्सौम्य प्राप्तोऽद्य तव दर्शनात्।
स्वयम्भूविहितस्सत्यो न तस्यास्ति व्यतिक्रमः ॥ 5.3.49 ॥
सीतानिमित्तं राज्ञस्तु रावणस्य दुरात्मनः।
राक्षसां चैव सर्वेषां विनाशः समुपागतः ॥ 5.3.50 ॥
तत्प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम्।
विधत्स्व सर्वकार्याणि यानि यानीह वाञ्छसि ॥ 5.3.51 ॥
प्रविश्य शापोपहतां हरीश्वरः शुभां पुरीं राक्षसमुख्यपालिताम्।
यदृच्छया त्वं जनकात्मजां सतीं विमार्ग सर्वत्र गतो यथासुखम् ॥ 5.3.52 ॥