स सागरमनाधृष्यमतिक्रम्य महाबलः।
त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श ह ॥ 5.2.1 ॥
ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान्।
अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो यथा ॥ 5.2.2 ॥
योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः।
अनिश्वसन् कपिस्तत्र न ग्लानिमधिगच्छति ॥ 5.2.3 ॥
शतान्यहं योजनानां क्रमेयं सुबहून्यपि।
किं पुनः सागरस्यान्तं सङ्ख्यातं शतयोजनम् ॥ 5.2.4 ॥
स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः।
जगाम वेगवान् लङ्कां लङ्घयित्वा महोदधिम् ॥ 5.2.5 ॥
शाद्वलानि च नीलानि गन्धवन्ति वनानि च।
गण्डवन्ति च मध्येन जगाम नगवन्ति च ॥ 5.2.6 ॥
शैलांश्च तरुसञ्छन्नान् वनराजीश्च पुष्पिताः।
अभिचक्राम तेजस्वी हनुमान् प्लवगर्षभः ॥ 5.2.7 ॥
स तस्मिन्नचले तिष्ठन् वनान्युपवनानि च।
स नगाग्रे च तां लङ्कां ददर्श पवनात्मजः ॥ 5.2.8 ॥
सरलान् कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान्।
प्रियालान्मुचुलिन्दांश्च कुटजान् केतकानपि ॥ 5.2.9 ॥
प्रियङ्गून् गन्धपूर्णांश्च नीपान् सप्तच्छदांस्तथा।
असनान् कोविदारांश्च करवीरांश्च पुष्पितान् ॥ 5.2.10 ॥
पुष्पभारनिबद्धांश्च तथा मुकुलितानपि।
पादपान् विहगाकीर्णान् पवनाधूतमस्तकान् ॥ 5.2.11 ॥
हंसकारण्डवाकीर्णा वापीः पद्मोत्पलायुताः।
आक्रीडान् विविधान् रम्यान् विविधांश्च जलाशयान् ॥ 5.2.12 ॥
सन्ततान् विविधैर्वृक्षैः सर्वर्तुफलपुष्पितैः।
उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः ॥ 5.2.13 ॥
समासाद्य च लक्ष्मीवान् लङ्कां रावणपालिताम्।
परिघाभिः सपद्माभिः सोत्पलाभिरलङ्कृताम् ॥ 5.2.14 ॥
सीतापहरणार्थेन रावणेन सुरक्षिताम्।
समन्ताद्विचरद्भिश्च राक्षसैरुग्रधन्विभिः ॥ 5.2.15 ॥
काञ्चनेनावृतां रम्यां प्राकारेण महापूरीम्।
गृहैश्च ग्रहसङ्काशैः शारदाम्बुदसन्निभैः ॥ 5.2.16 ॥
पाण्डराभिः प्रतेलीभिरुच्चाभिरभिसंवृताम्।
अट्टालकशताकीर्णां पताकाध्वजमालिनीम् ॥ 5.2.17 ॥
तोरणैः काञ्चनैर्दिव्यैर्लतापङ्क्तिविचित्रितैः।
ददर्श हनुमान् लङ्कां दिवि देवपुरीमिव ॥ 5.2.18 ॥
गिरिमूर्ध्नि स्थितां लङ्कां पाण्डुरैर्भवनैः शुभैः।
ददर्श स कपिश्रेष्ठः पुरमाकाशगं यथा ॥ 5.2.19 ॥
पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा।
प्लवमानामिवाकाशे ददर्श हनुमान् पुरीम् ॥ 5.2.20 ॥
शतघ्नीशूलकेशान्तामट्टालकवतंसकाम्।
मनसेव कृतां लङ्कां निर्मितां विश्वकर्मणा ॥ 5.2.21 ॥
द्वारमुत्तरमासाद्य चिन्तयामास वानरः ॥ 5.2.22 ॥
केलासशिखरप्रख्यामालिखन्तीमिवाम्बरम्।
डीयमानामिवाकाशमुच्छ्रितैर्भवनोत्तमैः ॥ 5.2.23 ॥
सम्पूर्णा राक्षसैर्घोरैर्नागैर्भोगवततीमिव।
अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा ॥ 5.2.24 ॥
दंष्ट्रिभिर्बहुभिः शूरैः शूलपट्टिशपाणिभिः।
रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरिव ॥ 5.2.25 ॥
तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः।
रावणं च रिपुं घोरं चिन्तयामास वानरः ॥ 5.2.26 ॥
आगत्यापीह हरयो भविष्यन्ति निरर्थकाः।
नहि युद्धेन वै लङ्का शक्या जेतुं सुरैरपि ॥ 5.2.27 ॥
इमां तु विषमां दुर्गां लङ्कां रावणपालिताम्।
प्राप्यापि स महाबाहुः हिं करिष्यति राघवः ॥ 5.2.28 ॥
अवकाशे न सान्त्वस्य राक्षसेष्वभिगम्यते।
न दानस्य न भेदस्य नैव युद्धस्य दृश्यते ॥ 5.2.29 ॥
चतुर्णामेव हि गतिर्वानराणां महात्मनाम्।
वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः ॥ 5.2.30 ॥
यावज्जानामि वैदेहीं यदि जीवति वा न वा।
तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम् ॥ 5.2.31 ॥
ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः।
गिरिशृङ्गे स्थितस्तस्मिन् रामस्याभ्युदये रतः ॥ 5.2.32 ॥
अनेन रूपेण मया न शक्या पुरी।
प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः ॥ 5.2.33 ॥
उग्रौजसो महावीर्या बलवन्तश्च राक्षसाः।
वञ्चनीया मया सर्वे जानकीं परिमार्गता ॥ 5.2.34 ॥
लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्कापुरी मया।
प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुं महत् ॥ 5.2.35 ॥
तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः।
हनुमांश्चिन्तयामास विनिःश्वस्य मुहुर्मुहुः ॥ 5.2.36 ॥
केनोपायेन पश्येयं मैथिलीं जनकात्मजाम्।
अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना ॥ 5.2.37 ॥
न विनश्येत् कथं कार्यं रामस्य विदितात्मनः।
एकामेकश्च पश्येयं रहिते जनकात्मजाम् ॥ 5.2.38 ॥
भूताश्चार्था विपद्यन्ते देशकालविरोधिताः।
विक्लवं दूतमासाद्य तमः सूर्योदये यथा ॥ 5.2.39 ॥
अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते।
घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ॥ 5.2.40 ॥
न विनश्येत्कथं कार्यं वैक्लव्यं न कथं भवेत्।
लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ॥ 5.2.41 ॥
मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः।
भवेद्व्यर्थम्मिदं कार्यं रावणानर्थमिच्छतः ॥ 5.2.42 ॥
नहि शक्य क्वचित् स्थातुमविज्ञातेन राक्षसैः।
अपि राक्षसरूपेण किमुतान्येन केनचित् ॥ 5.2.43 ॥
वायुरप्यत्र न ज्ञातश्चरेदिति मतिर्मम।
नह्यस्त्यविदितं किञ्चिद्राक्षसानां बलीयसाम् ॥ 5.2.44 ॥
इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः।
विनाशमुपायास्यामि भर्तुरर्थश्च हीयते ॥ 5.2.45 ॥
तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः।
लङ्कामधिपतिष्यामि राघवस्यार्थसिद्धये ॥ 5.2.46 ॥
रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम्।
विचिन्वन् भवनं सर्वं द्रक्ष्यामि जनकात्मजाम् ॥ 5.2.47 ॥
इति सञ्चिन्त्य हनुमान् सूर्यस्यास्तमयं कपिः।
आचकाङ्क्षे तदा वीरो वैदेह्या दर्शनोत्सुकः ॥ 5.2.48 ॥
सूर्ये चास्तं गते रात्रौ देहं सङ्क्षिप्य मारुतिः।
वृषदंशकमात्रः सन् बभूवाद्भुतदर्शनः ॥ 5.2.49 ॥
प्रदोषकाले हनुमांस्तूर्णमुत्प्लुत्य वीर्यवान्।
प्रविवेश पुरीं रम्यां सुविभक्तमहापथाम् ॥ 5.2.50 ॥
प्रासादमालाविततां स्तम्भैः काञ्चनराजतैः।
शातकुम्भमयैर्जालैर्गन्धर्वनगरोपमाम् ॥ 5.2.51 ॥
सप्तभूमाष्टभूमैश्च स ददर्श महापुरीम्।
तलैः स्फटिकसङ्कीर्णैः कार्तस्वरविभूषितैः ॥ 5.2.52 ॥
वैडूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः।
तलैः शुशुभिरे तानि भवनान्यत्र रक्षसाम् ॥ 5.2.53 ॥
काञ्चनानि विचित्राणि तोरणानि च रक्षसाम्।
लङ्कामुद्द्योतयामासुः सर्वतः समलङ्कृताम् ॥ 5.2.54 ॥
अचिन्त्यामाद्भुताकारां दृष्ट्वा लङ्कां महाकपिः।
आसीद्विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुकः ॥ 5.2.55 ॥
स पाण्डुरो द्विद्धविमानामालिनीं महार्हजाम्बूनदजालतोरणाम्।
यशस्विनीं रावणबाहुपालितां क्षपाचरैर्भीमबलैः समावृताम् ॥ 5.2.56 ॥
चन्द्रोऽपि साचिव्यमिवास्य कुर्वंस्तारागणैर्मध्यगतो विराजन्।
ज्योत्स्नावितानेन वितत्य लेकमुत्तिष्ठते नैतसहस्ररश्मिः ॥ 5.2.57 ॥
शङ्खप्रभं क्षीरमृणालवर्णमुद्गच्छमानं व्यवभासमानम्।
ददर्श चन्द्रं स हरिप्रवीरः पोप्लूयमानं सरसीव हंसम् ॥ 5.2.58 ॥