००१ हनुमता सागरोल्लङ्घनम्

ततो रावणनीतायास्सीतायाश्शत्रुकर्शनः।
इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥ 5.1.1 ॥
दुष्करं निष्प्रतिद्वन्द्वं चिकीर्षन्कर्म वानरः।
समुदग्रशीरोग्रीवो गवां पतिरिवाऽऽबभौ ॥ 5.1.2 ॥
अथ वैडूर्यवर्णेषु शाद्वलेषु महाबलः।
धीरस्सलिलकल्पेषु विचचार यथासुखम् ॥ 5.1.3 ॥
द्विजान् वित्रासयन् धीमानुरसा पादपान् हरन्।
मृगांश्च सुबहून्निघ्नन् प्रवृद्ध इव केसरी ॥ 5.1.4 ॥
नीललोहितमाञ्जिष्ठपत्रवर्णैस्सितासितैः।
स्वभावविहितैश्चित्रैर्धातुभिः समलङ्कृतम् ॥ 5.1.5 ॥
कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः।
यक्षकिन्नरगन्धर्वैर्देवकल्पैश्च पन्नगैः ॥ 5.1.6 ॥
स तस्य गिरिवर्यस्य तले नागवरायुते।
तिष्ठते कपिवरस्तस्य ह्रदे नाग इवाबभौ ॥ 5.1.7 ॥
स सूर्याय महेन्द्राय पवनाय स्वयम्भुवे।
भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम् ॥ 5.1.8 ॥
अञ्जलिं प्राङ्मुखः कृत्वा पवनायात्मयोनये।
ततोऽभिववृधे गन्तुं दक्षिणो दक्षिणां दिशम् ॥ 5.1.9 ॥
प्लवङ्गप्रवरैर्दृष्टः प्लवने कृतनिश्चयः।
ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु ॥ 5.1.10 ॥
निष्प्रमाणशरीरस्सन् लिलङ्घयिषुरर्णवम्।
बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम् ॥ 5.1.11 ॥
स चचालाचलश्चापि मुहूर्तं कपिपीडितः।
तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत् ॥ 5.1.12 ॥
तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना।
सर्वतः संवृतश्शैलो बभौ पुष्पमयो यथा ॥ 5.1.13 ॥
तेन चोत्तमवीर्येण पीड्यमानस्स पर्वतः।
सलिलं सम्प्रसुस्राव मदं मत्त इव द्विपः ॥ 5.1.14 ॥
पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः।
रीतिर्निर्वर्तयामास कगाञ्चनाञ्जनराजतीः ॥ 5.1.15 ॥
मुमोच च शिलाश्शैलो विशालास्समनश्शिलाः।
मध्यमेनार्चिषा जुष्टो धूमराजीरिवानलः ॥ 5.1.16 ॥
गिरिणा पीड्यमानेन पीड्यमानानि सर्वतः।
गुहाविष्टानि भूतानि विनेदुर्विकृतैस्स्वरैः ॥ 5.1.17 ॥
स महासत्त्वसन्नादश्शैलपीडानिमित्तजः।
पृथिवीं पूरयामास दिशश्चोपवनानि च ॥ 5.1.18 ॥
शिरोभिः पृथुभिस्सर्पा व्यक्तस्वस्तिकलक्षणैः।
वमन्तः पावकं घोरं ददंशुर्दशनैश्शिलाः ॥ 5.1.19 ॥
तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः।
जज्वलुः पावकोद्दीप्ता बिभिदुश्च सहस्रधा ॥ 5.1.20 ॥
यानि चौषधजालानि तस्मिन् जातानि पर्वते।
विषघ्नान्यपि नागानां न शकुश्शमितुं विषम् ॥ 5.1.21 ॥
भिद्यतेऽयं गिरिर्भूतैरिति मत्वा तपस्विनः ॥ 5.1.22 ॥
पानभूमिगतं हित्वा हैममासवभाजनम्।
पात्राणि च महार्हाणि करकांश्च हिरण्मयान् ॥ 5.1.23 ॥
लेह्यानुच्चावचान् भक्ष्यान् मांसानि विविधानि च।
आर्षभाणि च चर्माणि खड्गांश्च कनकत्सरून् ॥ 5.1.24 ॥
कृतकण्ठगुणाः क्षीबा रक्तमाल्यानुलेपनाः।
रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे ॥ 5.1.25 ॥
हारनूपुरकेयूरपारिहार्यधराः स्त्रियः।
विस्मितास्सस्मितास्तस्थुराकाशे रमणैस्सह ॥ 5.1.26 ॥
दर्शयन्तो महाविद्यां विद्याधरमहर्षयः।
सहितास्तस्थुराकाशे वीक्षां चक्रुश्च पर्वतम् ॥ 5.1.27 ॥
शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मानम्।
चारणानां च सिद्धानां स्थितानां विमलेऽम्बरे ॥ 5.1.28 ॥
एष पर्वतसङ्काशो हनूमान् मारुतात्मजः।
तितीर्षति महावेगस्समुद्रं मकरालयम् ॥ 5.1.29 ॥
रामार्थं वानरार्थं च चिकार्षन् कर्म दुष्करम्।
समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति ॥ 5.1.30 ॥
इति विद्याधराः श्रुत्वा वचस्तेषां महात्मनाम्।
तमप्रमेयं ददृशुः पर्वते वानरर्षभम् ॥ 5.1.31 ॥
दुधुवे च स रोमाणि चकम्पे चाचलोपमः।
ननाद सुमहानादं सुमहानिव तोयदः ॥ 5.1.32 ॥
आनुपूर्व्येण वृत्तं च लाङ्गूलं रोमभिश्चितम्।
उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम् ॥ 5.1.33 ॥
तस्य लाङ्गूलमाविद्धमात्तवेगस्य पृष्ठतः।
ददृशे गरुडेनेव ह्रियमाणो महोरगः ॥ 5.1.34 ॥
बाहू संस्तम्भयामास महापरिघसन्निभौ।
ससाद च कपिः कट्यां चरणौ सञ्चुकोच च ॥ 5.1.35 ॥
संहृत्य च भुजौ श्रीमान् तथैव च शिरोधराम्।
तेजस्सत्त्वं तथा वीर्यमाविवेश स वीर्यवान् ॥ 5.1.36 ॥
मार्गमालोकयन् दूरादूर्ध्वं प्रणिहितेक्षणः।
रुरोध हृदये प्राणानाकाशमवलोकयन् ॥ 5.1.37 ॥
निकुञ्च्य कर्णौ हनुमानुत्पतिष्यन् महाबलः।
वानरान् वानरश्रेष्ठ इदं वचनमब्रवीत् ॥ 5.1.38 ॥
यथा राघवनिर्मुक्तश्शरः श्वसनविक्रमः।
गच्छेत्तद्वद्गमिष्यामि लङ्कां रावणपालिताम् ॥ 5.1.39 ॥
नहि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम्।
अनेनैव हि वेगेन गमिष्यामि सुरालयम् ॥ 5.1.40 ॥
यदि वा त्रिदिवे सीतां न द्रक्ष्याम्यकृतश्रमः।
बद्ध्वा राक्षसराजानमानयिष्यामि रावणम् ॥ 5.1.41 ॥
सर्वथा कृकार्योऽहमेष्यामि सह सीतया।
आनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम् ॥ 5.1.42 ॥
एवमुक्त्वा तु हनुमान् वानरान् वानरोत्तमः ॥ 5.1.43 ॥
उत्पपाताथ वेगेन वेगवानविचारयन्।
सुपर्णमिव चात्मानं मेने स कपिकुञ्जरः ॥ 5.1.44 ॥
समुत्पतति तस्मिंस्तु वेगात्ते नगरोहिणः।
संहृत्य विटपान् सर्वान् समुत्पेतुस्समन्ततः ॥ 5.1.45 ॥
स मत्तकोयष्टिभकान् पादपान् पुष्पशालिनः।
उद्वहन्नूरुवेगेन जगाम विमलेऽम्बरे ॥ 5.1.46 ॥
उरुवेगोद्धता वृक्षा मुहूर्तं कपिमन्वयुः।
प्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाः ॥ 5.1.47 ॥
तमूरुवेगोन्मथितास्सालाश्चान्ये नगोत्तमाः।
अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम् ॥ 5.1.48 ॥
सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः।
हनुमान् पर्वताकारो बभूवाद्भुतदर्शनः ॥ 5.1.49 ॥
सारवन्तोऽथ ये वृक्षा न्यमज्जन् लवणाम्भसि।
भयादिव महेन्द्रस्य पर्वता वरुणालये ॥ 5.1.50 ॥
स नानाकुसुमैः कीर्णः कपिस्साङ्कुरकोरकैः।
शुशुभे मेघसङ्काशः खद्योतैरिव पर्वतः ॥ 5.1.51 ॥
विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः।
अवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा ॥ 5.1.52 ॥
लघुत्वेनोपन्नं तद्विचित्रं सागरेऽपतत्।
द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम् ॥ 5.1.53 ॥
ताराचितमिवाकाशं प्रबभौ स महार्णवः ॥ 5.1.54 ॥
पुष्पौघेणानुबद्धेन नानावर्णेन वानरः।
बभौ मेघ इवाकाशे विद्युद्गणविभूषितः ॥ 5.1.55 ॥
तस्य वेगसमाधूतैः पुष्पैस्तोयमदृश्यत।
ताराभिरभिरामाभिरुदिताभिरिवाम्बरम् ॥ 5.1.56 ॥
तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ।
पर्वताग्राद्विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ ॥ 5.1.57 ॥
पिबन्निव बभौ चापि सोर्मिजालं महर्णवम्।
पिपासुरिव चाकाशं ददृशे स महाकपिः ॥ 5.1.58 ॥
तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः।
नयने विप्रकाशेते पर्वतस्ताविवानलौ ॥ 5.1.59 ॥
पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले।
चक्षुषी सम्प्रकाशेते चन्द्रसूर्याविवोदितौ ॥ 5.1.60 ॥
मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ।
सन्ध्यया समभिस्पृष्टं यथा तत्सूर्यमण्डलम् ॥ 5.1.61 ॥
लाङ्गूलं च समाविद्धं प्लवमानस्य शोभते।
अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितः ॥ 5.1.62 ॥
लाङ्गूलचक्रेण महान् शुक्लदंष्ट्रोऽनिलात्मजः।
व्यरोचतमाहाप्राज्ञः परिवेषीव भास्करः ॥ 5.1.63 ॥
स्फिग्देशेनाभिताम्रेण रराज स महाकपिः।
महता दारितेनेव गिरिर्गैरिकधातुना ॥ 5.1.64 ॥
तस्य वानरसिंहस्य प्लवमानस्य सागरम्।
कक्षान्तरगतो वायुर्जीमूत इव गर्जति ॥ 5.1.65 ॥
खे यथा निपतन्त्युल्का ह्युत्तरान्ताद्विनिःसृता।
दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः ॥ 5.1.66 ॥
पतत्पतङ्गसङ्काशो व्यायतः शुशुभे कपिः।
प्रवृद्ध इव मातङ्गः कक्ष्यया बद्ध्यमानया ॥ 5.1.67 ॥
उपरिष्टाच्छरीरेण च्छायया चावगाढया।
सागरे मारुताविष्टा नौरिवासीत्तदा कपिः ॥ 5.1.68 ॥
यं यं देशं सुमुद्रस्य जगाम स महाकपिः।
स स तस्योरुवेगेन सोन्माद इव लक्ष्यते ॥ 5.1.69 ॥
सागरस्योर्मिजालानामुरसा शैलवर्ष्मणाम्।
अभिघ्नंस्तु महावेगः पुप्लुवे स महाकपिः ॥ 5.1.70 ॥
कपिवातश्च बलवान् मेघवातश्च निःसृतः।
सागरं भीमनिर्घोषं कम्पयामासतुर्भृशम् ॥ 5.1.71 ॥
विकर्षन्नूर्मिजालानि बृहन्ति लवणाम्भसि।
पुप्लुवे कपिशार्दूलो विकिरन्निव रोदसी ॥ 5.1.72 ॥
मेरुमन्दरसङ्काशानुद्धतान् स महार्णवे।
अतिक्रामन्महावेगस्तरङ्गान् गणयन्निव ॥ 5.1.73 ॥
तस्य वेगसमुद्धूतं जलं सजलदं तदा।
अम्बरस्थं विबभ्राज शारदाभ्रमिवाततम् ॥ 5.1.74 ॥
तिमिनक्रझषाः कूर्मा दृश्यन्ते विवृतास्तदा।
वस्त्रापकर्षणेनेव शरीराणि शरीरिणाम् ॥ 5.1.75 ॥
प्लवमानं समीक्ष्याथ भुजङ्गाः सागरालयाः।
व्योम्नि तं कपिशार्दूलं सुपर्ण इति मेनिरे ॥ 5.1.76 ॥
दशयोजनविस्तीर्णा त्रिशद्योजनमायता।
छाया वानरसिंहस्य जले चारुतराऽभवत् ॥ 5.1.77 ॥
श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी।
तस्य सा शुशुभे छाया वितता लवणाम्भसि ॥ 5.1.78 ॥
शुशुभे स महातेजा महाकायो महाकपिः।
वायुमार्गे निरालम्बे पक्षवानिव पर्वतः ॥ 5.1.79 ॥
येनासौ याति बलवान् वेगेन कपिकुञ्जरः।
तेन मार्गेण सहसा द्रोणाकृत इवार्णवः ॥ 5.1.80 ॥
आपाते पक्षिसङ्घानां पक्षिराज इव व्रजन्।
हनुमान् मेधजालानि प्रकर्षन् मारुतो यथा ॥ 5.1.81 ॥
पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च।
कपिनाऽऽकृष्यमाणानि महाभ्राणि चकाशिरे ॥ 5.1.82 ॥
प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः।
प्रच्छन्नस्य प्रकाशश्च चन्द्रमा इव लक्ष्यते ॥ 5.1.83 ॥
प्लवमानं तु तं दृष्ट्वा प्लवङ्गं त्वरितं तदा।
ववर्षुः पुष्पवर्षाणि देवगन्धर्वदानवाः ॥ 5.1.84 ॥
तताप न हि तं सूर्यः प्लवन्तं वानरोत्तमम्।
सिषेवे च तदा वायू रामकार्यार्थसिद्धये ॥ 5.1.85 ॥
ऋषयस्तुष्टुवुश्चैनं प्लवमानं विहायसा।
जगुश्च देवगन्धर्वाः प्रशंसन्तो महौजसम् ॥ 5.1.86 ॥
नागाश्चतुष्टुवुर्यक्षा रक्षांसि विबुधाः खगाः।
प्रेक्ष्य सर्वे कपिवरं सहसा विगतक्लमम् ॥ 5.1.87 ॥
तस्मिन् प्लवगशार्दूले प्लवमाने हनूमति।
इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः ॥ 5.1.88 ॥
साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः।
करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम् ॥ 5.1.89 ॥
अहमिक्ष्वाकुनाथेन सगरेण विवर्द्धितः।
इक्ष्वाकुसचिवश्चायं नावसीदितुमर्हति ॥ 5.1.90 ॥
तथा मया विधातव्यं विश्रमेत यथा कपिः।
शेषं च मयि विश्रान्तस्सुखेनातिपतिष्यति ॥ 5.1.91 ॥
इति कृत्वा मतिं साध्वीं समुद्रश्छन्नमम्भसि।
हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम् ॥ 5.1.92 ॥
त्वमिहासुरसङ्घानां पातालतलवासिनाम्।
देवराज्ञा गिरश्रेष्ठ परिघः सन्निवेशितः ॥ 5.1.93 ॥
त्वमेषां जातवीर्याणां पुनरेवोत्पतिष्यताम्।
पातालस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि ॥ 5.1.94 ॥
तिर्यगूर्ध्वमधश्चैव शक्तिस्ते शैल वर्द्धितुम्।
तस्मात्सञ्चोदयामि त्वामुत्तिष्ठ गिरिसत्तम ॥ 5.1.95 ॥
स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान्।
हनूमान् रामकार्यार्थं भीमकर्मा खमाप्लुतः ॥ 5.1.96 ॥
अस्य साह्यं मया कार्यमिक्ष्वाकुकुलवर्तिनः।
मम हीक्ष्वाकवः पूज्याः परं पूज्यतमास्तव ॥ 5.1.97 ॥
कुरु साचिव्यमस्माकं न नः कार्यमतिक्रमेत्।
कर्तव्यमकृतं कार्यं सतां मन्युमुदीरयेत् ॥ 5.1.98 ॥
सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि।
अस्माकमतिथिश्चैव पूज्यश्च प्लवतां वरः ॥ 5.1.99 ॥
हनुमांस्त्वयि विश्रान्तस्ततश्शेषं गमिष्यति।
[स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान्] ॥ 5.1.100 ॥
काकुत्स्थस्यानृशंस्यं च मैथिल्याश्च विवासनम्।
श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि ॥ 5.1.101 ॥
हिरण्यनाभो मैनाको निशम्य लवणाम्भसः।
उत्पपात जलात्तूर्णं महाद्रुमलतायुतः ॥ 5.1.102 ॥
स सागरजलं भित्त्वा बभूवाभ्युत्थितस्तदा।
यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः ॥ 5.1.103 ॥
स महात्मा मुहूर्तेन पर्वतस्सलिलावृतः।
दर्शयामास शृङ्गाणि सागरेण नियोजितः ॥ 5.1.104 ॥
शातकुम्भनिभैश्श्रृङ्गैस्सकिन्नरमहोरगैः।
आदित्योदयसङ्काशैरालिखद्भिरिवाम्बरम् ॥ 5.1.105 ॥
तप्तजाम्बूनदैश्शृङ्गैः पर्वतस्य समुत्थितैः।
आकाशं शस्त्रसङ्काशमभवत् काञ्चनप्रभम् ॥ 5.1.106 ॥
जातरूपमयैः शृङ्गैर्भ्राजमानैस्स्वयम्प्रभैः।
आद्त्यशतसङ्काशस्सोऽभवद्गिरिसत्तमः ॥ 5.1.107 ॥
तमुत्थितमसङ्गेन हनुमानग्रतः स्थितम्।
मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः ॥ 5.1.108 ॥
स तमुच्छ्रितमत्यर्थं महावेगो महाकपिः।
उरसा पातयामास जीमूतमिव मारुतः ॥ 5.1.109 ॥
स तदा पातितस्तेन कपिना पर्वतोत्तमः।
बुद्ध्वा तस्य कपेर्वेगं जहर्ष च ननन्द च ॥ 5.1.110 ॥
प्रीतो हृष्टमना वाक्यमब्रवीत्पर्वतः कपिम्।
मानुषं धारयन् रूपमात्मनश्शिखरे स्थितः ॥ 5.1.111 ॥
दुष्करं कृतवान् कर्म त्वमिदं वानरोत्तम।
निपत्य मम श्रृङ्गेषु विश्रमस्व यथासुखम् ॥ 5.1.112 ॥
राघवस्य कुले जातैरुदधिः परिवर्द्धितः।
स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः ॥ 5.1.113 ॥
कृते च प्रतिकर्तव्यमेष धर्मस्सनातनः।
सोऽयं त्वत्प्रतिकारार्थी त्वत्तः सम्मानमर्हति ॥ 5.1.114 ॥
त्वन्निमित्तमनेनाहं बहुमानात्प्रचोदितः।
तिष्ठ त्वं कपिशार्दूल मयि विश्रम्य गम्यताम् ॥ 5.1.115 ॥
योजनानां शतं चापि कपिरेष समाप्लुतः।
तव सानुषु विश्रान्तश्शेषं प्रक्रमतामिति ॥ 5.1.116 ॥
तदिदं गन्धवत् स्वादु कन्दमूलफलं बहु।
तदास्वाद्य हरि श्रेष्ठ विङन्तोऽनुगमिष्यसि ॥ 5.1.117 ॥
अस्माकमपि सम्बन्धः कपिमुख्य त्वयाऽस्ति वै।
प्रख्यातस्त्रिषु लोकेषु महागुणपरिग्रहः ॥ 5.1.118 ॥
वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज।
तेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर ॥ 5.1.119 ॥
अतिथिः किल पूजार्हः प्राकृतोऽपि विजानता।
धर्मं जिज्ञासमानेन किं पुनस्त्वादृशो महान् ॥ 5.1.120 ॥
त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः।
पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर ॥ 5.1.121 ॥
पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतः।
तस्मात्त्वं पूजनीयो मे श्रृणु चाप्यत्र कारणम् ॥ 5.1.122 ॥
पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन्।
ते हि जग्मुर्दिशः सर्वा गरुडानिलवेगिनः ॥ 5.1.123 ॥
ततस्तेषु प्रयातेषु देवसङ्घाः सहर्षिभिः।
भूतानि च भयं जग्मुस्तेषां पतनशङ्कया ॥ 5.1.124 ॥
ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः।
पक्षांश्चिच्छेद वज्रेण तत्र तत्र सहस्रशुः ॥ 5.1.125 ॥
स मामुपगतः क्रुद्धो वज्रमुद्यम्य देवराट्।
ततोऽहं सहसा क्षिप्तः श्वसनेन महात्मना ॥ 5.1.126 ॥
अस्मिँल्लवणतोये च प्रक्षिप्तः प्लवगोत्तम।
गुप्तपक्षसमग्रश्च तव पित्राऽभिरक्षितः ॥ 5.1.127 ॥
ततोऽहं मानयामि त्वां मान्यो हि मम मारुतः।
त्वया मे ह्येष सम्बन्धः कपिमुख्य महागुणः ॥ 5.1.128 ॥
तस्मिन्नेवङ्गते कार्ये सागरस्य ममैव च।
प्रीतिं प्रीतमानाः कर्तुं त्वमर्हसि महाकपे ॥ 5.1.129 ॥
श्रमं मोक्षय पूजां च गृहाण कपिसत्तम।
प्रीतिं च बहु मन्यस्व प्रीतोऽस्मि तव दर्शनात् ॥ 5.1.130 ॥
एवमुक्तः कपिश्रष्ठस्तं नगोत्तममब्रवीत् ॥ 5.1.131 ॥
त्वरिते कार्यकालो मे अहश्चाप्यतिवर्तते।
प्रतिज्ञा च मया दत्ता न स्थातव्यमिहान्तरे ॥ 5.1.132 ॥
इत्युक्त्वा पाणिना शैलमालभ्य हरिपुङ्गवः।
जगामाकाशमाविश्य वीर्यवान् प्रहसन्निव ॥ 5.1.133 ॥
स पर्वतसमुद्राभ्यां बहुमानादवेक्षितः।
पूजितश्चोपपन्नाभिराशीर्भिरनिलात्मजः ॥ 5.1.134 ॥
अथोर्ध्वं दूरमुत्पत्य हित्वा शैलमहार्णवौ।
पितुः पन्थानमास्थाय जगाम विमलेऽम्बरे ॥ 5.1.135 ॥
भूयश्चोर्ध्वगतिं प्राप्य गिरिं तमवलोकयन्।
वायुसूनुर्निरालम्बे जगाम विमलेऽम्परे ॥ 5.1.136 ॥
तद् द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम्।
प्रशशंसुः सुराः सर्वे सिद्धाश्च परमर्षयः ॥ 5.1.137 ॥
देवताश्चाभवन् हृष्टास्तत्रस्तास्तस्य कर्मणा।
काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः ॥ 5.1.138 ॥
उवाच वचनं धीमान् परितोषात् सगद्गदम्।
सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः ॥ 5.1.139 ॥
हिरण्यनाभ शैलेन्द्र परितुष्टोऽस्मि ते भृशम्।
अभयं ते प्रयच्छामि तिष्ठ सौम्य यथासुखम् ॥ 5.1.140 ॥
साह्यं कृतं ते सुमहद्विक्रान्तस्य हनूमतः।
क्रमतो योजनशतं निर्भयस्य भये सति ॥ 5.1.141 ॥
रामस्यैष ह दूत्येन याति दाशरथेर्हरिः।
सत्क्रियां कुर्वतां तस्य तोषितोऽस्मि दृढं त्वया ॥ 5.1.142 ॥
ततः प्रहर्षमगमद्विपुलं पर्वतोत्तमः।
देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम् ॥ 5.1.143 ॥
स वै दत्तवरः शैलो बभूवावस्थितस्तदा।
हनुमांश्च मुहूर्तेन व्यतिचक्राम सागरम् ॥ 5.1.144 ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः।
अब्रुवन् सूर्यसङ्काशां सुरसां नागमातरम् ॥ 5.1.145 ॥
अयं वातात्मजः श्रीमान् प्लवते सागरोपरि।
हनुमान्नाम तस्य त्वं मुहूर्तं विघ्नमाचर ॥ 5.1.146 ॥
राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम्।
दंष्ट्रा करालं पिङ्गाक्षं वक्त्रं कृत्वा नभस्समम् ॥ 5.1.147 ॥
बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम्।
त्वां विजेष्यत्युपायेन विषादं वा गमिष्यति ॥ 5.1.148 ॥
एवमुक्ता तु सा देवी दैवतैरभिसत्कृता।
समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः ॥ 5.1.149 ॥
विकृतं च विरूपं च सर्वस्य च भयावहम्।
प्लवमानं हनूमन्तमावृत्येदमुवाच ह ॥ 5.1.150 ॥
मम भक्ष्यः(क्षः) प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ।
अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम् ॥ 5.1.151 ॥
एवमुक्तः सुरसया प्राञ्जलिर्वानरर्षभः।
प्रहृष्टवदनः श्रीमानिदं वचनमब्रवीत् ॥ 5.1.152 ॥
रामो दाशरथिर्नाम प्रविष्टो दण्डकावनम्।
लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ॥ 5.1.153 ॥
अन्यकार्यविषक्तस्य बद्धवैरस्य राक्षसैः।
तस्य सीता हृता भार्या रावणेन यशस्विनी ॥ 5.1.154 ॥
तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात्।
कर्तुमर्हसि रामस्य साह्यं विषयवासिनी ॥ 5.1.155 ॥
अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम्।
आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते ॥ 5.1.156 ॥
एवमुक्ता हनुमता सुरसा कामरूपिणी।
अब्रवीन्नातिवर्तेन्मां कश्चिदेष वरो मम ॥ 5.1.157 ॥
दीर्घजिह्वं सुरसया सुघोरं नरकोपमम्।
सुसङ्क्षिप्यात्मनः कायं बभूवाङ्गुष्ठमात्रकः ॥ 5.1.158 ॥
सोऽभिपत्याशु तद्वक्त्रं निष्पत्य च महाजवः।
अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत् ॥ 5.1.159 ॥
प्रविष्टोऽस्मि हि ते वक्त्रं दाक्षायणि नमोऽस्तु ते।
गमिष्ये यत्र वैदेही सत्यश्चासीद्वरस्तव ॥ 5.1.160 ॥
तं दृष्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव।
अब्रवीत्सुरसा देवी स्वेन रूपेण वानरम् ॥ 5.1.161 ॥
अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम्।
समानयस्व वैदेहीं राघवेण महात्मना ॥ 5.1.162 ॥
तत्तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम्।
साधु साध्विति भूतानि प्रशशंसुस्तदा हरिम् ॥ 5.1.163 ॥
स सागरमनाधृष्यमभ्येत्य वरुणालयम्।
जगामाकाशमाविश्य वेगेन गरुडोपमः ॥ 5.1.164 ॥
सेविते वारिधाराभिः पतगैश्च निषेविते।
चरिते कैशिकाचार्यैरैरावतनिषेविते ॥ 5.1.165 ॥
सिंहकुञ्जरशार्दूलपतगोरगवाहनैः।
विमानैः सम्पतद्भिश्च विमलैः समलङ्कृते ॥ 5.1.166 ॥
वज्राशनिसमाघातैः पावकैरुपशेभिते।
कृतपुण्यैर्महाभागैः स्वर्गजिद्भिरलङ्कृतै ॥ 5.1.167 ॥
वहता हव्यमत्यर्थं सेविते चित्रभानुना।
ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते ॥ 5.1.168 ॥
महर्षिगणगन्धर्वनागयक्षसमाकुले।
विविक्ते विमले विश्वे विश्वावसुनिषेविते ॥ 5.1.169 ॥
देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे।
विताने जीवलोकस्य वितते ब्रह्मनिर्मिते ॥ 5.1.170 ॥
बहुशः सेविते वीरैर्विद्याधरगणैर्वरैः।
जगाम वायुमार्गे तु गरुत्मानिव मारुतिः ॥ 5.1.171 ॥
प्रदृश्यमानस्सर्वत्र हनुमान् मारुतात्मजः।
भेजेऽम्बरं निरालम्बं लम्बपक्ष इवाद्रिराट् ॥ 5.1.172 ॥
प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी।
मनसा चिन्तयामास प्रवृद्धा कामरूपिणी ॥ 5.1.173 ॥
अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता।
इदं हि मे महत्सत्त्वं चिरस्य वशमागतम् ॥ 5.1.174 ॥
इति सञ्चिन्त्य मनसा छायामस्य समाक्षिपत्।
छायायां गृह्यमाणायां चिन्तयामास वानरः ॥ 5.1.175 ॥
समाक्षिप्तोऽस्मि सहसा पङ्गूकृतपराक्रमः।
प्रतिलोमेन वातेन महानौरिव सागरे ॥ 5.1.176 ॥
तिर्यगूर्ध्वमधश्चैव वीक्षमाणस्ततः कपिः।
ददर्श स महत्सत्त्वमुत्थितं लवणाम्भसि ॥ 5.1.177 ॥
तदृष्ट्वा चिन्तयामास मारुतिर्विकृताननम्।
कपिराजेन कथितं सत्त्वमद्भुतदर्शनम् ॥ 5.1.178 ॥
स तां बुद्ध्वाऽर्थतत्त्वेन सिंहिकां मतिमान् कपिः।
व्यवर्धत महाकायः प्रावृषीव बलाहकः ॥ 5.1.179 ॥
तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः।
वक्त्रं प्रसारयामास पातालान्तरसन्निभम् ॥ 5.1.180 ॥
घनराजीव गर्जन्ती वानरं समभिद्रवत् ॥ 5.1.181 ॥
स ददर्श ततस्तस्या विवृतं सुमहन्मुखम्।
कायमात्रं च मेधावी मर्माणि च महाकपिः ॥ 5.1.182 ॥
स तस्या विवृते वक्त्रे वज्रसंहननः कपिः।
सङ्क्षिप्य मुहुरात्मानं निष्पपात महाबलः ॥ 5.1.183 ॥
आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः।
ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा ॥ 5.1.184 ॥
ततस्तस्या नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः।
उत्पपाताथ वेगेन मनस्सम्पातविक्रमः ॥ 5.1.185 ॥
तां तु दृष्ट्या च धृत्या च दाक्षिण्येन निपात्य च।
स कपिप्रवरो वेदाद्ववृधे पुनरात्मवान् ॥ 5.1.186 ॥
तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम्।
भूतान्याकाशचारीणि तमूचुः प्लवगोत्तमम् ॥ 5.1.187 ॥
भीममद्य कृतं कर्म महत्सत्त्वं त्वया हतम्।
साधयार्थमभिप्रेतमरिष्टं प्लवतां वर ॥ 5.1.188 ॥
यस्य त्वेतानि चत्वारि वानरेन्द्र चथा तव।
धृतिर्दृष्टिर्मतिर्दाक्ष्यं स्वकर्मसु न सीदति ॥ 5.1.189 ॥
स तैः सम्भावितः पूज्यः प्रतिपन्नप्रयोजनः।
जगामाकाशमाविश्य पन्नगाशनवत्कपिः ॥ 5.1.190 ॥
प्राप्तभूयिष्ठपारस्तु सर्वतः प्रतिलोकयन्।
योजनानां शतस्यान्ते वनराजिं ददर्श सः ॥ 5.1.191 ॥
ददर्श च पतन्नेव विविधद्रुमभूषितम्।
द्वीपं शाकामृगश्रेष्ठो मलयोपवनानिच ॥ 5.1.192 ॥
सागरं सागरानूपं सागरावनूपजान् द्रुमान्।
सागरस्य च पत्नीनां मुखान्यपि विलोकयन् ॥ 5.1.193 ॥
स महामेघसङ्काशं समीक्ष्यात्मानमात्मवान्।
निरुन्धन्तमिवाकाशं चकार मतिमान्मतिम् ॥ 5.1.194 ॥
कायवृद्धिं प्रवेगं च मम दृष्ट्वैव राक्षसाः।
मयि कौतूहलं कुर्युरिति मेने महाकपिः ॥ 5.1.195 ॥
ततः शरीरं सन्त्रिप्य तन्महीधरसन्निभम्।
पुनः प्रकृतिमापेदे वीतमोह इवात्मवान् ॥ 5.1.196 ॥
तद्रूपमतिसङ्क्षिप्य हनुमान् प्रकृतौ स्थितः।
त्रीन् क्रमानिव विक्रम्य बलिवीर्यहरो हरिः ॥ 5.1.197 ॥
स चारुनानाविधरूपधारी परं समासाद्य समुद्रतीरम्।
परैरशक्यः प्रतिपन्नरूपः समीक्षितात्मा समवेक्षितार्थः ॥ 5.1.198 ॥
ततस्स लम्बस्य गिरेस्समृद्धे विचित्रकूटे निपपात कूटे।
सकेतकोद्दालकनालिकेरे महाद्रिकूटप्रतिमो महात्मा ॥ 5.1.199 ॥
ततस्तु सम्प्राप्य समुद्रतीरं समीक्ष्य लङ्कां गिरिवर्यमूर्ध्नि।
कपिस्तु तस्मिन्निपपात पर्वते विधूय रूपं व्यथयन्मगद्विजान् ॥ 5.1.200 ॥
स सागरं दानवपन्नगायुतं बलेन विक्रम्य महोर्मिमालिनम्।
निपत्य तीरे च महोदधेस्तदा ददर्श लङ्काममरावतीमिव ॥ 5.1.201 ॥