तं दृष्ट्वा जृम्भमाणं ते क्रमितुं शतयोजनम्।
वीर्येणापूर्यमाणं च सहसा वानरोत्तमम् ॥ 4.67.1 ॥
सहसा शोकमुत्सृज्य प्रहेर्षेण समन्वताः।
विनेदुस्तुष्टुवुश्चापि हनुमन्तं महाबलम् ॥ 4.67.2 ॥
प्रहृष्टा विस्मिताश्चैव वीक्षन्ते स्म समन्ततः।
त्रिविक्रमकृतोत्साहं नारायणमिव प्रजाः ॥ 4.67.3 ॥
संस्तूयमानो हनुमान् व्यवर्धत महाबलः।
समाविध्य च लाङ्गूलं हर्षाच्च बलमोयिवान् ॥ 4.67.4 ॥
तस्य संस्तूयमानस्य वृद्धैर्वानरपुङ्गवैः।
तेजसापूर्यमाणस्य रूपमासीदनुत्तमम् ॥ 4.67.5 ॥
यथा विजृम्भते सिंहो विवृद्धो गिरिगह्वरे।
मारुतस्यौरसः पुत्त्रस्तथा सम्प्रति जृम्भते ॥ 4.67.6 ॥
अशोभत मुखं तस्य जृम्भमाणस्य धीमतः।
अम्बरीषमिवादीप्तं विधूम इव पावकः ॥ 4.67.7 ॥
हरीणामुत्थितो मध्यात्सम्प्रहृष्टतनूरुहः।
अभिवाद्य हरीन्वृद्धान् हनुमानिदमब्रवीत् ॥ 4.67.8 ॥
अरुजत्पर्वताग्राणि हुताशनसखोऽनिलः।
बलवानप्रमेयश्च वायुराकाशगोचरः ॥ 4.67.9 ॥
तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः।
मारुतस्यौरसः पुत्त्रः प्लवने नास्ति मत्समः ॥ 4.67.10 ॥
उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम्।
मेरुं गिरिमसङ्गेन परिगन्तुं सहस्रशः ॥ 4.67.11 ॥
बाहुवेगप्रणुन्नेन सागरेणाहमुत्सहे।
समाप्लावयितुं लोकं सपर्वतनदीह्रदम् ॥ 4.67.12 ॥
ममोरुजङ्घवेगेन भविष्यति समुत्थितः।
समुच्छ्रितमहाग्राहः समुद्रो वरुणालयः ॥ 4.67.13 ॥
पन्नगाशनमाकाशे पतन्तं पक्षिसेविते।
वैनतेयमहं शक्तः परिगन्तुं सहस्रशः ॥ 4.67.14 ॥
उदयात्प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम्।
अनस्तमितमादित्यमभिगन्तुं समुत्सहे ॥ 4.67.15 ॥
ततो भूमिमसंस्पृश्य पुनरागन्तुमुत्सहे।
प्रवेगेनैव महता भीमेन प्लवगर्षभाः ॥ 4.67.16 ॥
उत्सहेयमतिक्रान्तुं सर्वानाकाशगोचरान्।
सागरं शोषयिष्यामि दारयिष्यामि मेदिनीम् ॥ 4.67.17 ॥
पर्वतांश्चूर्णयिष्यामि प्लवमानः प्लवङ्गमाः।
हरिष्याम्यूरुवेगेन प्लवमानो महार्णवम् ॥ 4.67.18 ॥
लतानां विविधं पुष्पं पादपानां च सर्वशः।
अनुयास्यन्ति मामद्य प्लवमानं विहायसा ॥ 4.67.19 ॥
भविष्यति हि मे पन्थाः स्वातेः पन्था इवाम्बरे।
चरन्तं घोरमाकाशमुत्पतिष्यन्तमेव वा ॥ 4.67.20 ॥
द्रक्ष्यन्ति निपतन्तं च सर्वभूतानि वानराः।
महामेघप्रतीकाशं मां च द्रक्ष्यथ वानराः ॥ 4.67.21 ॥
विधमिष्यामि जीमूतान् कम्पयिष्यामि पर्वतान्।
सागरं क्षोभयिष्यामि प्लवमानः समाहितः ॥ 4.67.22 ॥
वैनतेयस्य सा शक्तिर्मम या मारुतस्य वा ॥ 4.67.23 ॥
ऋते सुपर्णराजानं मारुतं वा महाजवम्।
न तद्भूतं प्रपश्यामि यन्मां प्लुतमनुव्रजेत् ॥ 4.67.24 ॥
निमेषान्तरमात्रेण निरालम्बनमम्बरम्।
सहसा निपतिष्यामि घनाद्विद्युदिवोत्थिता ॥ 4.67.25 ॥
भविष्यति हि मे रूपं प्लवमानस्य सागरे।
विष्णोर्विक्रममाणस्य पुरा त्रीन् विक्रमानिव ॥ 4.67.26 ॥
बुद्ध्या चाहं प्रपश्यामि मनश्चेष्टा च मे तथा।
अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवङ्गमाः ॥ 4.67.27 ॥
मारुतस्य समो वेगे गरुडस्य समोजवे।
अयुतं योजनानां तु गमिष्यामीति मे मतिः ॥ 4.67.28 ॥
वासवस्य सवज्रस्य ब्रह्मणो वा स्वयम्भुवः।
विक्रम्य सहसा हस्तादमृतं तदिहानये ॥ 4.67.29 ॥
लङ्कां वापि समुत्क्षिप्य गच्छेयमिति मे मतिः।
तमेवं वानरश्रेष्ठं गर्जन्तममितौजसम् ॥ 4.67.30 ॥
प्रहृष्टा हरयस्तत्र समुदैक्षन्त विस्मिताः।
तस्य तद्वचनं श्रुत्वा ज्ञातीनां शोकनाशनम् ॥ 4.67.31 ॥
उवाच परिसंहृष्टो जाम्बवान् हरिसत्तमम्।
वीरकेसरिणः पुत्र हनुमन् मारुतात्मज ॥ 4.67.32 ॥
ज्ञातीनां विपुलः शोकस्त्वया तात विनाशितः।
तव कल्याणरुचयः कपिमुख्याः समागताः ॥ 4.67.33 ॥
ऋषीणां च प्रसादेन कपिवृद्धमतेन च।
गुरूणां च प्रसादेन प्लवस्व त्वं महार्णवम् ॥ 4.67.34 ॥
त्वद्गतानि च सर्वेषां जीवितानि वनौकसाम्।
ततस्तु हरिशार्दूलस्तानुवाच वनौकसः ॥ 4.67.35 ॥
एतानीह नगस्यास्य शिलासङ्कटशालिनः।
शिखराणि महेन्द्रस्य स्थिराणि च महान्ति च ॥ 4.67.36 ॥
एषु वेगं करिष्यामि महेन्द्रशिखरेष्वहम्।
नानाद्रुमविकीर्णेषु धातुनिःष्यन्दशोभिषु ॥ 4.67.37 ॥
एतानि मम निष्पेषं पादयोः प्लवतां वराः।
प्लवतो धारयिष्यन्ति योजनानामितः शतम् ॥ 4.67.38 ॥
ततस्तं मारुतप्रख्यः स हरिर्मारुतात्मजः।
आरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः ॥ 4.67.39 ॥
वृतं नानाविधैर्वृक्षैर्मृगसेवितशाद्वलम्।
लताकुसुमसम्बाधं नित्यपुष्पफलद्रुमम् ॥ 4.67.40 ॥
सिंहशार्दूलचरितं मत्तमातङ्गसेवितम्।
मत्तद्विजगणोद्घुष्टं सलिलोत्पीडसङ्कुलम् ॥ 4.67.41 ॥
महद्भिरुच्छ्रितं शृङ्गैर्महेन्द्रं स महाबलः।
विचचार हिरश्रेष्ठो महेन्द्रसमविक्रमः ॥ 4.67.42 ॥
पादाभ्यां पीडितस्तेन महाशैलो महात्मनः।
रराज सिंहाभिहतो महान्मत्त इव द्विपः ॥ 4.67.43 ॥
मुमोच सलिलोत्पीडान् विप्रकीर्णशिलोच्चयः ॥ 4.67.44 ॥
वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः।
नागगन्धर्वमिथुनैः पानसंसर्गकर्कशैः ॥ 4.67.45 ॥
उत्पतद्भिश्च विहगैर्विद्याधरगणैरपि।
त्यज्यमानमहासानुः सन्निलीनमहोरगः ॥ 4.67.46 ॥
चलशृङ्गशिलोद्घातस्तदाभूत्स महागिरिः।
निःश्वसद्भिस्तदाऽऽर्तैस्तु भजङ्गैरर्धनिस्सृतैः ॥ 4.67.47 ॥
सपताक इवाभाति स तदा धरणीधरः ॥ 4.67.48 ॥
ऋषिभिस्त्राससम्भ्रान्तैस्त्यज्यमानः शिलोच्चयः।
सीदन्महति कान्तारे सार्थहीन इवाध्वगः ॥ 4.67.49 ॥
स वेगवान् वेगसमाहितात्मा हरिप्रवीरः परवीरहन्ता।
मनः समाधाय महानुभावो जगाम लङ्कां मनसा मनस्वी ॥ 4.67.50 ॥