०६५ वानरैः सागरोल्लङ्घनभयम्

ततोऽङ्गदवचः श्रुत्वा सर्वे ते वानरोत्तमाः।
स्वं स्वं गतौ समुत्साहमाहुस्तत्र यथाक्रमम् ॥ 4.65.1 ॥
गजो गवाक्षो गवयः शरभो गन्धमादनः।
मैन्दश्च द्विविदश्चैव सुषेणो जाम्बवांस्तथा ॥ 4.65.2 ॥
आबभाषे गजस्तत्र प्लवेयं दशयोजनम्।
गवाक्षो योजनान्याह गमिष्यामीति विंशतिम् ॥ 4.65.3 ॥
गवयो वानरस्तत्र वानरांस्तानुवाच ह।
त्रिंशतं तु गमिष्यामि योजनानां प्लवङ्गमाः ॥ 4.65.4 ॥
शरभस्तानुवाचाथ वानरान् वानरर्षभः।
चत्वारिंशद्गमिष्यामि योजनानां प्लवङ्गमाः ॥ 4.65.5 ॥
वानरस्तु महातेजा अब्रवीद्गन्धमादनः।
योजनानां गमिष्यामि पञ्चाशत्तु न संशयः ॥ 4.65.6 ॥
मैन्दस्तु वानरस्तत्र वानरांस्तानुवाच ह।
योजनानां परं षष्टिमहं प्लवितुमुत्सहे ॥ 4.65.7 ॥
ततस्तत्र महातेजा द्विविदः प्रत्यभाषत।
गमिष्यामि न सन्देहः सप्ततिं योजनान्यहम् ॥ 4.65.8 ॥
सुषेणस्तु हरिश्रेष्ठः प्रोक्तवान् कपिसत्तमान्।
अशीतिं योजनानां तु प्लवेयं प्लवगेश्वराः ॥ 4.65.9 ॥
तेषां कथयतां तत्र सर्वांस्ताननुमान्य च।
ततो वृद्धतमस्तेषां जाम्बवान् प्रत्यभाषत ॥ 4.65.10 ॥
पूर्वमस्माकमप्यासीत् कश्चिद्गतिपराक्रमः।
ते वयं वयसः पारमनुप्राप्ताः स्म साम्प्रतम् ॥ 4.65.11 ॥
किन्तु नैवं गते शक्यमिदं कार्यमुपेक्षितुम्।
यदर्थं कपिराजश्च रामश्च कृतनिश्चयौ ॥ 4.65.12 ॥
नवतिं योजनानां तु गमिष्यामि न संशयः।
तांस्तु सर्वान् हरिश्रेष्ठाञ्जाम्बवान् पुनरब्रवीत् ॥ 4.65.13 ॥
न खल्वेतावदेवासीद्गमने मे पराक्रमः।
मया महाबलेश्चैव यज्ञे विष्णुः सनातनः ॥ 4.65.14 ॥
प्रदक्षिणीकृतः पूर्वं क्रममाणस्त्रिविक्रमम्।
स इदानीमहं वृद्धः प्लवने मन्दविक्रमः ॥ 4.65.15 ॥
यौवने च तदाऽऽसीन्मे बलमप्रतिमं परैः।
सम्प्रत्येतावतीं शक्तिं गमने तर्कयाम्यहम् ॥ 4.65.16 ॥
नैतावता च संसिद्धिः कार्यस्यास्य भविष्यति।
अथोत्तरमुदारार्थमब्रवीङ्गदस्तदा ॥ 4.65.17 ॥
अनुमान्य महाप्राज्ञं जाम्बवन्तं महाकपिः।
अहमेतद्गमिष्यामि योजनानां शतं महत् ॥ 4.65.18 ॥
निवर्तने तु मे शक्तिः स्यान्न वेति न निश्चिता।
तमुवाच हरिश्रेष्ठं जाम्बवान् वाक्यकोविदः ॥ 4.65.19 ॥
ज्ञायते गमने शक्तिस्तव हर्यृक्षसत्तम ॥ 4.65.20 ॥
कामं शतं सहस्रं वा नह्येष विधिरुच्यते।
योजनानां भवान् शक्तो गन्तुं प्रतिनिवर्तितुम् ॥ 4.65.21 ॥
नहि प्रेषयिता तात स्वामी प्रेष्यः कथञ्चन।
भवताऽयं जनः सर्वः प्रेष्यः प्लवगसत्तम ॥ 4.65.22 ॥
स्वामी कलत्रं सैन्यस्य गरितेषा परन्तप।
तस्मात्कलत्रवत्तात प्रतिपाल्यः सदा भवान् ॥ 4.65.23 ॥
मूलमर्थस्य संरक्ष्यमेष कार्यविदां नयः।
मूले हि सति सिद्ध्यन्ति गुणाः पुष्पफलोदयाः ॥ 4.65.24 ॥
तद्भवानस्य कार्यस्य साधने सत्यविक्रम ॥ 4.65.25 ॥
बुद्धिविक्रमसम्पन्नो हेतुरत्र परन्तप।
गुरुश्च गुरुपुत्रश्च त्वं हि नः कपिसत्तम ॥ 4.65.26 ॥
भवन्तमाश्रित्य वयं समर्था ह्यर्थसाधने।
उक्तवाक्यं महाप्राज्ञं जाम्बवन्तं महाकपिः ॥ 4.65.27 ॥
प्रत्युवाचोत्तरं वाक्यं वालिसूनुरथाङ्गदः।
यदि नाहं गमिष्यामि नान्ये वानरपुङ्गवाः ॥ 4.65.28 ॥
पुनः खल्विदमस्माभिः कार्यं प्रायोपवेशनम्।
न ह्यकृत्वा हरिपतेः सन्देशं तस्य धीमतः ॥ 4.65.29 ॥
तत्रापि गत्वा प्राणानां पश्यामि परिरक्षणम्।
न हि प्रसादे चात्यर्थं कोपे च हरिरीश्वरः ॥ 4.65.30 ॥
अतीत्य तस्य सन्देशं विनाशो गमने भवेत्।
तद्यथा ह्यस्य कार्यस्य न भवत्यन्यथा गतिः ॥ 4.65.31 ॥
तद्भवानेव दृष्टार्थः सञ्चिन्तयितुमर्हति।
सोऽङ्गदेन तदा वीरः प्रत्युक्तः प्लवगर्षभः ॥ 4.65.32 ॥
अस्य ते वीर कार्यस्य न किञ्चित्परिहीयते।
एष सञ्चोदयाम्येनं यः कार्यं साधयिष्यति ॥ 4.65.33 ॥
ततः प्रतीतं प्लवतां वरिष्ठमेकान्तमाश्रित्य सुखोपविष्टम्।
सञ्चोदयामास हरिप्रवीरो हरिप्रवीरं हनुमन्तमेव ॥ 4.65.34 ॥