०६४ वानरैः सागरतीरगमनम्

आख्याता गृध्रराजेन समुत्पत्य प्लवङ्गमाः।
सङ्गम्य प्रीतिसंयुक्ताः विनेदुः सिंहविक्रमाः ॥ 4.64.1 ॥
सम्पातेर्वचनं श्रुत्वा हरयो रावणक्षयम्।
हृष्टाः सागरमाजग्मुः सीतादर्शनकाङ्क्षिणः ॥ 4.64.2 ॥
अभिक्रम्य तु तं देशं ददृशुर्भीमाविक्रमाः।
कृत्स्नं लोकस्य महतः प्रतिबिम्बमिव स्थितम् ॥ 4.64.3 ॥
दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम्।
सन्निवेशं ततश्चक्रुर्हरिवीरा महाबलाः ॥ 4.64.4 ॥
सत्त्वैर्महद्भिर्विकृतैः क्रीडद्भिर्विविधैर्जले।
व्यत्यस्तैः सुमहाकायैरूर्मिभिश्च समाकुलम् ॥ 4.64.5 ॥
प्रसुप्तमिव चान्यत्र क्रीडन्तमिव चान्यतः।
क्वचित्पर्वतमात्रैश्च जलराशिभिरावृतम् ॥ 4.64.6 ॥
सङ्कुलं दानवेन्द्रैश्च पातालतलवासिभिः।
रोमहर्षकरं दृष्ट्वा विषेदुः कपिकुञ्जराः ॥ 4.64.7 ॥
आकाशमिव दुष्पारं सागरं प्रेक्ष्य वानराः।
विषेदुः सहसा सर्वे कथं कार्यमिति ब्रुवन् ॥ 4.64.8 ॥
विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात्।
आश्वासयामास हरीन् भयार्तान् हरिसत्तमः ॥ 4.64.9 ॥
तान् विषादेन महता विषण्णान् वानरर्षभान्।
उवाच मतिमान् काले वालिसूनुर्महाबलः ॥ 4.64.10 ॥
न विषादे मनः कार्यं विषादो दोषवत्तमः।
विषादो हन्ति पुरुषं बालं क्रुद्ध इवरोगः ॥ 4.64.11 ॥
विषादो यं प्रसहते विक्रमे पर्युपस्थिते।
तेजसा तस्य हीनस्य पुरुषार्थे न सिध्यति ॥ 4.64.12 ॥
तस्यां रात्र्यां व्यतीतायामङ्गदो वानरैः सह।
हरिवृद्धैः समागम्य पुनर्मन्त्रममन्त्रयत् ॥ 4.64.13 ॥
सा वानराणां ध्वजिनी परिवार्याङ्गदं बभौ।
वासवं परिवार्येव मरुतां वाहिनी स्थिता ॥ 4.64.14 ॥
कोऽन्यस्तां वानरीं सेनां शक्तः स्तम्भयितुं भवेत्।
अन्यत्र वालितनयादन्यत्र च हनूमतः ॥ 4.64.15 ॥
ततस्तान् हरिवृद्धांश्च तञ्च सैन्यमरिन्दमः।
अनुमान्याङ्गदः श्रीमान् वाक्यमर्थवदवब्रवीत् ॥ 4.64.16 ॥
क इदानीं महातेजा लङ्घयिष्यति सागरम्।
कः करिष्यति सुग्रीवं स्तयसन्धमरिन्दमम् ॥ 4.64.17 ॥
को वीरो योजनशतं लङ्घयेच्च प्लवङ्गमाः।
इमांश्च यूथपान् सर्वान् मोक्षयेत्को महाभयात् ॥ 4.64.18 ॥
कस्य प्रभावाद्दारांश्च पुत्रांश्चैव गृहाणि च।
इतो निवृत्ताः पश्येम सिद्धार्थाः सुखिनो वयम् ॥ 4.64.19 ॥
कस्य प्रसादाद्रामं च लक्ष्मणं च महाबलम्।
अभिगच्छेम संहृष्टाः सुग्रीवं च महाबलम् ॥ 4.64.20 ॥
यदि कश्चित्समर्थो वः सागरप्लवने हरिः।
स ददात्विह नः शीघ्रं पुण्यामभयदक्षिणाम् ॥ 4.64.21 ॥
अङ्गदस्य वचः श्रुत्वा न कश्चित् किञ्चिदब्रवीत्।
स्तिमितेवाभवत्सर्वा तत्र सा हरिवाहिनी ॥ 4.64.22 ॥
पुनरेवाङ्गदः प्राह तान् हरीन् हरिसत्तमः।
सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः ॥ 4.64.23 ॥
नहि वो गमने सङ्गः कदाचित्कस्यत्क्वचित्।
ब्रुवध्वं यस्य या शक्तिः प्लवने प्लवगर्षभाः ॥ 4.64.24 ॥