एवमुक्त्वा मुनिश्रेष्ठमरुदं दुःखितो भृशम्।
अथ ध्यात्वा मुहूर्तं तु भगवानिदमब्रवीत् ॥ 4.62.1 ॥
पक्षौ च ते प्रपक्षौ च पुनरन्यौ भविष्यतः।
प्राणाश्च चक्षुषी चैव विक्रमश्च बलं च ते ॥ 4.62.2 ॥
पुराणे सुमहत्कार्यं भविष्यति मया श्रुतम्।
दृष्टं मे तपसा चैव श्रुत्वा च विदितं मम ॥ 4.62.3 ॥
राजा दशरथो नाम कश्चिदिक्ष्वाकुनन्दनः।
तस्य पुत्रो महातेजा रामो नाम भविष्यति ॥ 4.62.4 ॥
अरण्यं च सह भ्रात्रा लक्ष्मणेन गमिष्यति।
अस्मिन्नर्थे नियुक्तः सन् पित्रा सत्यपराक्रमः ॥ 4.62.5 ॥
नैर्र्ऋतो रावणो नाम तस्य भार्यां हरिष्यति।
राक्षसेन्द्रो जनस्थानादवध्यः सुरदानवैः ॥ 4.62.6 ॥
सा च कामैः प्रलोभ्यन्ती भक्ष्यैर्भोज्यैश्च मैथिली।
न भोक्ष्यति महाभागा दुःखे मग्ना यशस्विनी ॥ 4.62.7 ॥
परमान्नं तु वैदेह्या ज्ञात्वा दास्यति वासवः।
यदन्नममृतप्रख्यं सुराणामपि दुर्लभम् ॥ 4.62.8 ॥
तदन्नं मैथिली प्राप्य विज्ञायेन्द्रादिदं त्विति।
अग्रमुद्धृत्य रामाय भूतले निर्वपिष्यति ॥ 4.62.9 ॥
यदि जीवति मे भर्ता लक्ष्मणेन सह प्रभुः।
देवत्वं गच्छतोर्वापि तयोरन्नमिदं त्विति ॥ 4.62.10 ॥
एष्यन्त्यन्वेषकास्तस्या रामदूताः प्लवङ्गमाः।
आख्येया राममहिषी त्वया तेभ्यो विहङ्गमाः ॥ 4.62.11 ॥
सर्वथा हि न गन्तव्यमीदृशः क्क गमिष्यसि।
देशकालौ प्रतीक्षस्व पक्षौ त्वं प्रतिपत्स्यसे ॥ 4.62.12 ॥
नोत्सहेयमहं कर्तुमद्यैव त्वां सपक्षकम्।
इहस्थस्त्वं तु लोकानां हितं कार्यं करिष्यसि ॥ 4.62.13 ॥
त्वयापि खलु तत्कार्यं तयोश्च नृपपुत्रयोः।
ब्राह्मणानां सुराणां च मुनीनां वासवस्य च ॥ 4.62.14 ॥
नेच्छे चिरं धारयितुं प्राणांस्त्यक्ष्ये कलेवरम्।
महर्षिस्त्वब्रवीदेवं दृष्टतत्त्वार्थदर्शनः ॥ 4.62.15 ॥