०६१ सम्पातिना स्वकथानिरूपणम्

ततस्तद्दारुणं कर्म दुष्करं साहसात्कृतम्।
आचचक्षे मुनेः सर्वं सूर्यानुगमनं तदा ॥ 4.61.1 ॥
भगवन् व्रणयुक्तत्वाल्लज्जया व्यकुलोन्द्रियः।
परिश्रान्तो न शक्नोमि वचनं प्रतिभाषितुम् ॥ 4.61.2 ॥
अहं चैव जटायुश्च सङ्घर्षाद्दर्पमोहितौ।
आकाशं पतितौ वीरौ जिज्ञासन्तौ पराक्रमम् ॥ 4.61.3 ॥
कैलासशिखरे बध्वा मुनीनामग्रतः पणम्।
रविः स्यादनुयातव्यो यावदस्तं महागिरिम् ॥ 4.61.4 ॥
अथावां युगपत्प्राप्तावपश्याव महीतले।
रथचक्रप्रमाणानि नगराणि पृथक् पृथक् ॥ 4.61.5 ॥
क्वचिद्वादित्रघोषांश्च ब्रह्मघोषांश्च शुश्रुवः।
गायन्तीश्चाङ्गना बह्वीः पश्यावो रक्तवाससः ॥ 4.61.6 ॥
तूर्णमुत्पत्य चाकाशमादित्यपथमाश्रितौ।
आवामालोकयावस्तद्वनं शाद्वलसन्निभम् ॥ 4.61.7 ॥
उपलैरिव सञ्छन्ना दृश्यते भूः शिलोञ्चयैः।
आपगाभिश्च संवीता सूत्रैरिव वसुन्धरा ॥ 4.61.8 ॥
हिमवांश्चैव विन्ध्याश्च मेरुश्च सुमहान्नगः।
भूतले सम्प्रकाशन्ते नागा इव जलाशये ॥ 4.61.9 ॥
तीव्रः स्वेदश्च खेदश्च भयं चासीत्तदाऽऽवयोः।
समाविशति मोहश्च तमो मूर्च्छा च दारुणा ॥ 4.61.10 ॥
न दिग्विज्ञायते याम्या नाग्नेयी न च वारुणी।
युगान्ते नियतो लोको हतो दग्ध इवाग्निना ॥ 4.61.11 ॥
यत्नेन महता ह्यस्मिन् पुनः सन्धाय चक्षुषि।
यत्नेन महता भूयो रविः समवलोकितः ॥ 4.61.12 ॥
तुल्यः पृथ्वीप्रमाणेन भास्करः प्रतिभाति नौ ॥ 4.61.13 ॥
जटायुर्मामनापृच्छ्य निपपात महीं ततः।
तं दृष्ट्वा तूर्णमाकाशादात्मानं मुक्तवानहम् ॥ 4.61.14 ॥
पक्षाभ्यां च मया गुप्तो जटायुर्न प्रदह्यते।
प्रमादात्तत्र निर्दग्धः पतन् वायुपथादहम् ॥ 4.61.15 ॥
आशङ्के तं निपतितं जनस्थाने जटायुषम्।
अहं तु पतितो विन्ध्ये दग्धपक्षो जडीकृतः ॥ 4.61.16 ॥
राज्येन हीनो भ्रात्रा च पक्षाभ्यां विक्रमेण च।
सर्वथा मर्तुमेवेच्छन् पतिष्ये शिखराद्गिरेः ॥ 4.61.17 ॥