ततः कृतोदकं स्नातं तं गृध्रं हरियूथपाः।
उपविष्टा गिरौ दुर्गे परिवार्य समन्ततः ॥ 4.60.1 ॥
तमङ्गदमुपासीनं तैः सर्वैर्हरिभिर्वृतम्।
जनितप्रत्ययो हर्षात्सम्पातिः पुनरब्रवीत् ॥ 4.60.2 ॥
कृत्वा निःशब्दमेकाग्राः शृण्वन्तु हरयो मम।
तत्त्वं सङ्कीर्तयिष्यामि यथा जानामि मैथिलीम् ॥ 4.60.3 ॥
अस्य विन्ध्यस्य शिखरे पतितोऽस्मि पुरा वने।
सूर्यातप परीताङ्गो निर्दग्धः सूर्यरश्मिभिः ॥ 4.60.4 ॥
लब्धसञ्ज्ञस्तु षड्रात्राद्विवशो विह्वलन्निव।
वीक्षमाणो दिशः सर्वा नाभिजानामि किञ्चन ॥ 4.60.5 ॥
ततस्तु सागरान् शैलान् नदीः सर्वाः सरांसि च।
वनान्युदधिवेलां च समीक्ष्य मतिरागमत् ॥ 4.60.6 ॥
हृष्टपक्षिगणाकीर्णः कन्दरान्तरकूटवान्।
दक्षिणस्योदधेस्तीरे विन्ध्योऽयमिति निश्चयः ॥ 4.60.7 ॥
आसीच्चात्राश्रमं पुण्यं सुरैरपि सुपूजितम्।
ऋषिर्निशाकरो नाम यस्मिन्नुग्रतपा भवत् ॥ 4.60.8 ॥
अष्टौ वर्षसहस्राणि तेनास्मिन्नृषिणा विना।
वसतो मम धर्मज्ञाः स्वर्गते तु निशाकरे ॥ 4.60.9 ॥
अवतीर्य च विन्ध्याग्रात्कृच्छ्रेण विषमाच्छनैः।
तीक्ष्णदर्भां वसुमतीं दुःखेन पुनरागतः ॥ 4.60.10 ॥
तमृषिं द्रष्टुकामोऽस्मि दुःखेनाभ्यागतो भृशम्।
जटायुषा मया चैव बहुशोऽधिगतो हि सः ॥ 4.60.11 ॥
तस्याश्रमपदाभ्याशे ववुर्वाताः सुगन्धिनः।
वृक्षो वाऽपुष्पितः कश्चिदफलो वा न विद्यते ॥ 4.60.12 ॥
उपेत्य चाश्रमं पुण्यं वृक्षमूलमुपाश्रितः।
द्रष्टुकामः प्रतीक्षोऽहं भगवन्तं निशाकरम् ॥ 4.60.13 ॥
अथापश्यमदूरस्थमृषिं ज्वलिततेजसम्।
कृताभिषेकं दुर्धर्षमुपावृत्तमुदङ्मुखम् ॥ 4.60.14 ॥
तमृक्षाः सृमरा व्याघ्राः सिंहा नागाः सरीसृपाः।
परिवार्योपगच्छन्ति धातारं प्राणिनो यथा ॥ 4.60.15 ॥
ततः प्राप्तमृषिं ज्ञात्वा तानि सत्त्वानि वै ययुः।
प्रविष्टे राजनि यथा सर्वं सामात्यकं बलम् ॥ 4.60.16 ॥
ऋषिस्तु दृष्ट्वा मां प्रीतः प्रविष्टश्चाश्रमं पुनः।
मुहूर्तमात्रान्निष्क्रम्य ततः कार्यमपृच्छत ॥ 4.60.17 ॥
सौम्य वैकल्यतां दृष्ट्वा रोम्णां ते नावगम्यते।
अग्निदग्धाविमौ पक्षौ त्वक् चैव व्रणिता तव ॥ 4.60.18 ॥
गृध्रौ द्वौ दृष्टपूर्वौ मे मातरिश्वसमौ जवे।
गृध्राणां चैव राजानौ भ्रातरौ कामरूपिणौ ॥ 4.60.19 ॥
ज्येष्ठो हि त्वं तु सम्पाते जटायुरनुजस्तव।
मानुषं रूपमास्थाय गृह्णीतां चरणौ मम ॥ 4.60.20 ॥
किं ते व्याधिसमुत्थानं पक्षयोः पतनं कथम्।
दण्डो वाऽयं कृतः केन सर्वमाख्याहि पृच्छतः ॥ 4.60.21 ॥