शोकाद् भ्रष्टस्वरमपि श्रुत्वा ते हरियूथपाः।
श्रद्दधुर्नैव तद्वाक्यं कर्मणा तस्य शङ्किताः ॥ 4.57.1 ॥
ते प्रायमुपविष्टास्तु दृष्ट्वा गृध्रं प्लवङ्गमाः।
चक्रुर्बुद्धिं तदा रौद्रां सर्वान् नो भक्षयिष्यति ॥ 4.57.2 ॥
सर्वथा प्रायमासीनान् यदि नो भक्षयिष्यति।
कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो गताः ॥ 4.57.3 ॥
एतां बुद्धिं ततश्चक्रुः सर्वे ते वानरर्षभाः।
अवतार्य गिरेः शृङ्गाद् गृध्रमाहाङ्गदस्तदा ॥ 4.57.4 ॥
बभूवर्क्षरजा नाम वानरेन्द्रः प्रतापवान्।
ममार्यः पार्थिवः पक्षिन् धार्मिकस्तस्य चात्मजौ ॥ 4.57.5 ॥
सुग्रीवश्चैव वाली च पुत्रावोघबलावुभौ।
लोके विश्रुतकर्माऽभूद्राजा वाली पिता मम ॥ 4.57.6 ॥
राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः।
रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् ॥ 4.57.7 ॥
पितुर्निदेशनिरतो धर्म्यं पन्थानमाश्रितः।
तस्य भार्या जनस्थानाद्रावणेन हृता बलात् ॥ 4.57.8 ॥
रामस्य तु पितुर्मित्रं जटायुर्नाम गृध्रराट्।
ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा ॥ 4.57.9 ॥
रावणं विरथं कृत्वा स्थापयित्वा च मैथिलीम्।
परिश्रान्तश्च वृद्धश्च रावणेन हतो रणे ॥ 4.57.10 ॥
एवं गृध्रो हतस्तेन रावणेन बलीयसा।
संस्कृतश्चापि रामेण गतश्च गतिमुत्तमाम् ॥ 4.57.11 ॥
ततो मम पितृव्येण सुग्रीवेण महात्मना।
चकार राघवः सख्यं सोऽवधीत्पितरं मम ॥ 4.57.12 ॥
मम पित्रा विरुद्धो हि सुग्रीवः सचिवैः सह ॥ 4.57.13 ॥
निहत्य वालिनं रामस्ततस्तमभिषेचयत्।
स राज्ये स्थापितस्तेन सुग्रीवो वानराधिपः ॥ 4.57.14 ॥
राजा वानरमुख्यानां येन प्रस्थापिता वयम्।
एवं रामप्रयुक्तस्तु मार्गमाणास्ततस्ततः ॥ 4.57.15 ॥
वैदेहीं नाधिगच्छामो रात्रौ सूर्यप्रभामिव।
ते वयं दण्डकारण्यं विचित्य सुसमाहिताः ॥ 4.57.16 ॥
मयस्य मायाविहितं तद्बिलं च विचिन्वताम्।
व्यीततस्तत्र नो मासो यो राज्ञा समयः कृतः ॥ 4.57.17 ॥
ते वयं कपिराजस्य सर्वे वचनकारिणः।
कृतां संस्थामतिक्रान्ता भयात्प्रायमुपास्महे ॥ 4.57.18 ॥
क्रुद्धे तस्मिंस्तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे।
गतानामपि सर्वेषां तत्र नो नास्ति जीवितम् ॥ 4.57.19 ॥