०५६ सम्पातिना वानरमुखात् जटायुमृत्युश्रवणम्

उपविष्टास्तु ते सर्वे यस्मिन् प्रायं गिरिस्थले।
हरयो गृध्रराजश्च तं देशमुपचक्रमे ॥ 4.56.1 ॥
सम्पातिर्नाम नाम्ना तु चिरञ्चीवी विहङ्गमः।
भ्राता जटायुषः श्रीमान् प्रख्यातबलपौरुषः ॥ 4.56.2 ॥
कन्दरादभिनिष्क्रम्य स विन्ध्यस्य महागिरेः।
उपविष्टान् हरीन् दृष्ट्वा हृष्टात्मा गिरमब्रवीत् ॥ 4.56.3 ॥
विधिः किल नरं लोके विधानेनानुवर्तते।
याथाऽयं विहितो भक्ष्याश्चिरान्मह्यामुपागतः ॥ 4.56.4 ॥
परं पराणां भक्षिष्ये वानराणां मृतं मृतम्।
उवाचेदं वचः पक्षी तान्निरीक्ष्य प्लवङ्गमान् ॥ 4.56.5 ॥
तस्य तद्वचनं श्रुत्वा भक्ष्यलुब्धस्य पक्षिणः।
अङ्गदः परमायस्तो हमुमन्तमथाब्रवीत् ॥ 4.56.6 ॥
पश्य सीतापदेशेन साक्षाद्वैवस्वतो यमः।
इमं देशमनुप्राप्तो वानराणां विपत्तये ॥ 4.56.7 ॥
रामस्य न कृतं कार्यं राज्ञो न च वचः कृतम्।
हरिणामियमज्ञाता विपत्तिः सहसागता ॥ 4.56.8 ॥
वैदेह्याः प्रियकामेन कृतं कर्म जटायुषा।
गृध्रराजेन यत्तत्र श्रुतं वस्तदशेषतः ॥ 4.56.9 ॥
प्रियं कुर्वन्ति रामस्य त्यक्त्वा प्राणान् यथा वयम्।
अन्योन्यमुपकुर्वन्ति स्नेहकारुण्ययन्त्रिताः ॥ 4.56.10 ॥
तेन तस्योपकारार्थं त्यजतात्मानमात्मना।
प्रियं कृतं हि रामस्य धर्मज्ञेन जटायुषा ॥ 4.56.11 ॥
राघवार्थे परिश्रान्ता वयं सन्त्यक्तजीविताः।
कान्ताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम् ॥ 4.56.12 ॥
स सुखी गृध्रराजस्तु रावणेन हतो रणे।
मुक्तश्च सुग्रीवभयाद्गतश्च परमां गतिम् ॥ 4.56.13 ॥
जटायुषो विनाशेन राज्ञो दशरथस्य च।
हरणेन च वैदेह्याः संशयं हरयो गताः ॥ 4.56.14 ॥
रामलक्ष्मणयोर्वास अरण्ये सह सीतया।
राघवस्य च बाणेन वालिनश्च तथा वधः ॥ 4.56.15 ॥
रामकोपादशेषाणां राक्षसानां तथा वधः।
कैकेय्या वरदानेन इदं हि विकृतं कृतम् ॥ 4.56.16 ॥
तदसुखमनुकीर्तितं वचो भुवि पतितांश्च समीक्ष्य वानरान्।
भृशचिलतमतिर्महामतिः कृपणमुदाहृतवान् स गृध्रराट् ॥ 4.56.17 ॥
तत्तु श्रुत्वा तदा वाक्यमङ्गदस्य मुखोद्गतम्।
अब्रवीद्वचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः ॥ 4.56.18 ॥
कोऽयं गिरा घोषयति प्राणैः प्रियतमस्य मे।
जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः ॥ 4.56.19 ॥
कथमासीज्जनस्थाने युद्धं राक्षसगृध्रयोः।
नामधेयमिदं भ्रातुश्चिरस्याद्य मया श्रुतम् ॥ 4.56.20 ॥
इच्छेयं गिरिदुर्गाच्च भवद्भिरवतारितुम्।
यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः ॥ 4.56.21 ॥
अतिदीर्घस्य कालस्य तुष्टोऽस्मि परिकीर्तनात्।
तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः ॥ 4.56.22 ॥
भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः।
तस्यैव च मम भ्रातुः सखा दशरथः कथम् ॥ 4.56.23 ॥
यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः।
सूर्यांशुदग्धपक्षत्वान्न शक्नोम्युपसर्पितुम् ॥ 4.56.24 ॥
इच्छेयं पर्वतादस्मादवतर्तुमरिन्दमाः ॥ 4.56.25 ॥