श्रुत्वा हमुमतो वाक्यं प्रश्रितं धर्मसंहितम्।
स्वामिसत्कारसंयुक्तमङ्गदो वाक्यमब्रवीत् ॥ 4.55.1 ॥
स्तैर्यमात्ममनःशौचमानृशंस्यमथार्जवम्।
विक्रमश्चैव धैर्यं च सुग्रीवे नोपपद्यते ॥ 4.55.2 ॥
धर्मेण मातरं यस्तु स्वीकरोति जुगुस्पितः।
कथं स धर्मं जानीते येन भ्रात्रा महात्मना ॥ 4.55.3 ॥
युद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम् ॥ 4.55.4 ॥
सत्यात्पाणिगृहीतश्च कृतकर्मा महायशाः।
विस्मृतो राघवो येन स कस्य तु कृतं स्मरेत् ॥ 4.55.5 ॥
लक्ष्मणस्य भयाद्येन नाधर्मभयभीरुणा।
आदिष्टा मार्गितुं सीतां धर्ममस्मिन् कथं भवेत् ॥ 4.55.6 ॥
तस्मिन् पापे कृतघ्ने तु स्मृतिहीने चलात्मनि।
आर्यः को विश्वसेज्जातु तत्कुलीनो जिजीविषुः ॥ 4.55.7 ॥
राज्ये पुत्रः प्रतिष्ठाप्यः सगुणो निर्गुणोऽपि वा।
कथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति ॥ 4.55.8 ॥
भिन्नमन्त्रोऽपराद्धश्च हीनशक्तिः कथं ह्यहम्।
किष्किन्धां प्राप्य जीवेयमनाथ इव दुर्बलः ॥ 4.55.9 ॥
उपांशुदण्डेन हि मां बन्धनेनोपपादयेत्।
शठः क्रूरो नृशंसश्च सुग्रीवो राज्यकारणात् ॥ 4.55.10 ॥
बन्धनाद्वाऽवसादान्मे श्रेयः प्रायोपवेशनम्।
अनुजानीत मां सर्वे गृगं गच्छन्तु वानराः ॥ 4.55.11 ॥
अहं वः प्रतिजानामि नागमिष्याम्यहं पुरीम्।
इहैव प्रायमासिष्ये श्रेयो मरणमेव मे ॥ 4.55.12 ॥
अभिवादनपूर्वं तु राजा कुशलमेव च।
वाच्यस्तातो यवीयान् मे सुग्रीवो वानरेश्वरः ॥ 4.55.13 ॥
आरोग्यपूर्वं कुशलं वाच्या माता रुमा च मे।
मातरं चैव मे तारामाश्वासयितुमर्हथ ॥ 4.55.14 ॥
प्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी।
विनष्टमिह मां श्रुत्वा व्यक्तं हास्यति जीवितम् ॥ 4.55.15 ॥
एतावदुक्त्वा वचनं वृद्धांस्तानभिवाद्य च।
विवेश चाङ्गदो भूमौ रुदन् दर्भेषु दुर्मनाः ॥ 4.55.16 ॥
तस्य संविशतस्तत्र रुदन्तो वानरर्षभाः।
नयनेभ्यः प्रमुमुचुरुष्णं वै वारि दुःखिताः ॥ 4.55.17 ॥
सुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम्।
परिवार्याङ्गदं सर्वे व्यवसन् प्रायमासितुम् ॥ 4.55.18 ॥
मतं तद्वालिपुत्रस्य विज्ञाय प्लवगर्षभाः।
उपस्पृश्योदकं तत्र प्राङ्मुखाः समुपाविशन् ॥ 4.55.19 ॥
दक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः।
मुमूर्षवो हरिश्रेष्टा एतत्क्षममिति स्म ह ॥ 4.55.20 ॥
रामस्य वनवासं च क्षयं दशरथस्य च।
जनस्थानवधं चैव वधं चैव जटायुषः ॥ 4.55.21 ॥
हरणं चैव वैदेह्या वालिनश्च वधं रणे।
रामकोपं च वदतां हरीणां भयमागतम् ॥ 4.55.22 ॥
स संविशद्भिर्बहुभिर्महीधरो महाद्रिकूटप्रतिमैः प्लवङ्गमैः।
बभूव सन्नादितनिर्दरान्तरो भृशं नदद्भिर्जलदैरिवोल्बणैः ॥ 4.55.23 ॥