तथा ब्रुवति तारे तु ताराधिपतिवर्चसि।
अथ मेने हृतं राज्यं हनुमानङ्गदेन तत् ॥ 4.54.1 ॥
बुद्ध्या ह्यष्टाङ्गया युक्तं चतुर्बलसमन्वितम्।
चतुर्दशगुणं मेने हनुमान् वालिनः सुतम् ॥ 4.54.2 ॥
आपूर्यमाणं शश्वच्च तेजोबलपराक्रमैः।
शशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया ॥ 4.54.3 ॥
बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः।
शुश्रूषमाणं तारस्य शुक्रस्येव पुरन्दरम् ॥ 4.54.4 ॥
भर्तुरर्थे परिश्रान्तं सर्वशास्त्रविदां वरम्।
अभिसन्धातुमारेभे हनुमानङ्गदं ततः ॥ 4.54.5 ॥
स चतुर्णामुपायानां तृतीयमुपवर्णयन्।
भेदयामास तान् सर्वान् वानरान्वाक्य सम्पदा ॥ 4.54.6 ॥
तेषु सर्वेषु भिन्नेषु ततोऽभीषयदङ्गदम्।
भीषणैर्बहुभिर्वाक्यैः कोपोपायसमन्वितैः ॥ 4.54.7 ॥
त्वं समर्थतरः पित्रा युद्धे तारेय वै धुरम्।
दृढं धारयितुं शक्तः कपिराज्यं यथा पिता ॥ 4.54.8 ॥
नित्यमस्थिरचित्ता हि कपयो हरिपुङ्गवः।
नाज्ञाप्यं विषहिष्यन्ति पुत्रदारान् विना त्वया ॥ 4.54.9 ॥
त्वां नैते ह्यनुयुञ्जेयुः प्रत्यक्षं प्रवदामि ते।
यथाऽयं जाम्बवान्नीलः सुहोत्रश्च महाकपिः ॥ 4.54.10 ॥
न ह्यहं त इमे सर्वे सामदानादिभिर्गुणैः।
दण्डेन वा त्वया शक्याः सुग्रीवादपकर्षितुम् ॥ 4.54.11 ॥
विगृह्यासनमप्याहुर्दुर्बलेन बलीयसः।
आत्मरक्षाकरस्तस्मान्न विगृह्णीत दुर्बलः ॥ 4.54.12 ॥
यां चेमां मन्यसे धात्रीमेतद्बिलमिति श्रुतम्।
एतल्लक्ष्मणबाणानामीषत्कार्यं विदारेणे ॥ 4.54.13 ॥
स्वल्पं हि कृतमिन्द्रेण क्षिपता ह्यशनिं पुरा।
लक्ष्मणो निशितैर्बाणैर्भिन्द्यात्पत्त्रपुटं यथा ॥ 4.54.14 ॥
लक्ष्मणस्य तु नाराचा बहवः सन्ति तद्विधाः।
वज्राशनिसमस्पर्शा गिरीणामपि दारणाः ॥ 4.54.15 ॥
अवस्थाने यदैव त्वमासिष्यसि परन्तप।
तदेव हरयः सर्वे त्यक्ष्यन्ति कृतनिश्चयाः ॥ 4.54.16 ॥
स्मरन्तः पत्रदाराणां नित्योद्विग्ना बुभुक्षिताः।
खेदिता दुःखशय्याभिस्त्वां करिष्यन्ति पृष्ठतः ॥ 4.54.17 ॥
स त्वं हीनः सुहृद्भिश्च हितकामैश्च बन्धुभिः।
तृणादपि भृशोद्विग्नः स्पन्दमानाद्भविष्यसि ॥ 4.54.18 ॥
न च जातु न हिंस्युस्त्वां घोरा लक्ष्मणसायकाः।
अपवृत्तं जिघांसन्तो महावेगा दुरासदाः ॥ 4.54.19 ॥
अस्माभिस्तु गतं सार्धं विनीतवदुपस्थितम्।
आनुपूर्व्यात्तु सुग्रीवो राज्ये त्वां स्थापयिष्यति ॥ 4.54.20 ॥
धर्मकामः पितृव्यस्ते प्रीतिकामो दृढव्रतः।
शुचिः सत्यप्रतिज्ञश्च न त्वां जातु जिघांसति ॥ 4.54.21 ॥
प्रियकामश्च ते मासुस्तदर्थं चास्य जीवितम्।
तस्यापत्यं च नास्त्यन्यत् तस्मादङ्गद गम्यताम् ॥ 4.54.22 ॥