एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम्।
उवाच हनुमान् वाक्यं तामनिन्दितचेष्टिताम् ॥ 4.53.1 ॥
शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणि।
यः कृतः समयोऽस्माकं सुग्रीवेण महात्मना ॥ 4.53.2 ॥
स च कालो ह्यतिक्रान्तो बिले च परिवर्तताम्।
सा त्वमस्माद्विलाद् घोरादुत्तारयितुमर्हसि ॥ 4.53.3 ॥
तस्मात्सुग्रीववचनादतिक्रान्तान् गतायुषः।
त्रातुमर्हसि नः सर्वान् सुग्रीवभयकर्शितान् ॥ 4.53.4 ॥
महच्च कार्यमस्माभिः कर्तव्यं धर्मचारिणि।
तच्चापि न कृतं कार्यमस्माभिरिहवासिभिः ॥ 4.53.5 ॥
एवमुक्ता हनुमता तापसी वाक्यमब्रवीत्।
जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम् ॥ 4.53.6 ॥
तपसस्तु प्रभावेन नियमोपार्जितेन च।
सर्वानेव बिलादस्मादुद्धरिष्यामि वानरान् ॥ 4.53.7 ॥
निमीलयत चक्षूंषि सर्वे वानरपुङ्गवाः।
नहि निष्क्रमितुं शक्यमनिमीलितलोचनैः ॥ 4.53.8 ॥
ततः सम्मीलिताः सर्वे सुकुमाराङ्गुलैः करैः।
सहसा पिदधुर्दृष्टिं हृष्टा गमनकाङ्क्षया ॥ 4.53.9 ॥
वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा।
निमेषान्तरमात्रेण बिलादुत्तारितास्तया ॥ 4.53.10 ॥
ततस्तान्वानरान्सर्वांस्तापसी धर्मचारिणी।
निःसृतान् विषमात्तस्मात्समाश्वास्येदमब्रवीत् ॥ 4.53.11 ॥
एष विन्ध्यो गिरिः श्रीमान्नानाद्रुमलताकुलः।
एष प्रस्रवणः शैलः सागरोऽयं महोदधिः ॥ 4.53.12 ॥
स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः।
इत्युक्त्वा तद्बिलं श्रीमत् प्रविवेश स्वयम्प्रभा ॥ 4.53.13 ॥
ततस्ते ददृशुर्घोरं सागरं वरुणालयम्।
अपारमभिगर्जन्तं घोरैरूर्मिभिरावृतम् ॥ 4.53.14 ॥
मयस्य मायाविहितं गिरिदुर्गं विचिन्वताम्।
तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः ॥ 4.53.15 ॥
विन्ध्यस्यतु गिरेः पादे सम्प्रपुष्पितपादपे।
उपविश्य महात्मानश्चिन्तामापेदिरे तदा ॥ 4.53.16 ॥
ततः पुष्पातिभाराग्रान् लताशतसमावृतान्।
द्रुमान् वासन्तिकान्दृष्ट्वा बभूवुर्भयशङ्किताः ॥ 4.53.17 ॥
ते वसन्तमनुप्राप्तं प्रतिबुद्ध्वा परस्परम्।
नष्टसन्देशकालार्था निपेतुर्धरणीतले ॥ 4.53.18 ॥
ततस्तान्कपिवृद्धांस्तु शिष्टां श्चैव वनौकसः।
वाचा मधुरयाऽऽभाष्य यथावदनुमान्य च ॥ 4.53.19 ॥
स तु सिंहवृषस्कन्धः पीनायतभुजः कपिः।
युवराजो महाप्राज्ञ अङ्गदो वाक्यमब्रवीत् ॥ 4.53.20 ॥
शासनात्कपिराजस्य वयं सर्वे विनिर्गताः।
मासः पूर्णो बिलस्थानां हरयः किन्न बुध्यते ॥ 4.53.21 ॥
वयमाश्वयुजे मासि कालसङ्ख्याव्यवस्थिताः।
प्रस्थिताः सोऽपि चातीतः किमतः कार्यमुत्तरम् ॥ 4.53.22 ॥
भवन्तः प्रत्ययं प्राप्ता नीतिमार्गविशारदाः।
हितेष्वभिरता भर्तुर्निसृष्टाः सर्वकर्मसु ॥ 4.53.23 ॥
कर्मस्वप्रतिमाः सर्वे दिक्षु विश्रुतपौरुषाः।
मां पुरस्कृत्य निर्याताः पिङ्गाक्षप्रतिचोदिताः ॥ 4.53.24 ॥
इदानीमकृतार्थानां मर्तव्यं नात्र संशयः।
हरिराजस्य सन्देशमकृत्वा कः सुखी भवेत् ॥ 4.53.25 ॥
तस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम्।
प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम् ॥ 4.53.26 ॥
तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभावे व्यवस्थितः।
न क्षमिष्यति नः सर्वानपराधकृतो गतान् ॥ 4.53.27 ॥
अप्रवृत्तौ च सीतायाः पापमेव करिष्यति।
तस्मात्क्षममिहाद्यैव प्रायोपविशनं हि नः ॥ 4.53.28 ॥
ध्रुवं नो हिंसिता राजा सर्वान् प्रतिगतानितः।
वधेनाप्रतिरूपेण श्रेयान् मृत्युरिहैव नः ॥ 4.53.29 ॥
न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः।
नरेन्द्रेणाभिषिक्तोऽस्मि रामेणाक्लिष्टकर्मणा ॥ 4.53.30 ॥
स पूर्वं बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम्।
घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः ॥ 4.53.31 ॥
किं मे सुहृद्भिर्व्यसनं पश्यद्भिर्जीवितान्तरे।
इहैव प्रायमासिष्ये पुण्ये सागररोधसि ॥ 4.53.32 ॥
एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम्।
सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन् ॥ 4.53.33 ॥
तीक्ष्णः प्रकृत्या सुग्रीवः प्रियासक्तश्च राघवः।
अदृष्टायां तु वैदेह्यां दृष्ट्वा चैव समागतान् ॥ 4.53.34 ॥
राघवप्रियकामार्थं घातयिष्यत्यसंशयम्।
न क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः ॥ 4.53.35 ॥
इहैव सीतामन्विष्य प्रवृत्तिमुपलभ्य वा।
नो चेद्गच्छाम तं वीरं गमिष्यामो यमक्षयम् ॥ 4.53.36 ॥
प्लवङ्गमानां तु भयार्दितानां श्रुत्वा वचस्तार इदं बभाषे।
अलं विषादेन बिलं प्रविश्य वसाम सर्वे यदि रोचते वः ॥ 4.53.37 ॥
इदं हि मायाविहितं सुदुर्गमं प्रभूतवृक्षोदकभोज्यपेयकम्।
इहास्ति नो नैव भयं पुरन्दरान्न राघवाद्वानरराजतोऽपि वा ॥ 4.53.38 ॥
श्रुत्वाऽङ्गदस्यापि वचोऽनुकूलमूचुश्च सर्वे५ हरयः प्रतीताः।
यथा न हिंस्येम तथा विधानमसक्तमद्यैव विधीयतां नः ॥ 4.53.39 ॥