०५२ वानरैः स्वगमनहेतुकथनम्

अथ तानब्रवीत्सर्वान् विक्रान्तात् हरिपुङ्गवान्।
इदं वचनमेकाग्रा तापसी धर्मचारिणी ॥ 4.52.1 ॥
वानरा यदि वः खेदः प्रनष्टः फलभक्षणात्।
यदि चैतन्मया श्राव्यं श्रोतुमिच्छामि कथ्यताम् ॥ 4.52.2 ॥
तस्यास्तद्वचनं श्रुत्वा हनुमान् मारुतात्मजः।
आर्जवेन यथातत्त्वमाख्यातुमुपचक्रमे ॥ 4.52.3 ॥
राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः।
रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् ॥ 4.52.4 ॥
लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया।
तस्य भार्या जनस्थानाद् रावणेन हृता बलात् ॥ 4.52.5 ॥
वीरस्तस्य सखा राज्ञः सुग्रीवो नाम वानरः।
राजा वानरमुख्यानां येन प्रस्थापिता वयम् ॥ 4.52.6 ॥
अगस्त्यचरितामाशां दक्षिणां यमरक्षिताम्।
सहैभिर्वानरैर्घोरैरङ्गदप्रमुखैर्वयम् ॥ 4.52.7 ॥
रावणं सहिताः सर्वे राक्षसं कामरूपिणम्।
सीतया सह वैदेह्या मार्गध्वमिति चोदिताः ॥ 4.52.8 ॥
विचित्य तु वयं सर्वे समग्रां दक्षिणां दिशम्।
बुभुक्षिताः परिश्रान्ता वृक्षमूलमुपाश्रिताः ॥ 4.52.9 ॥
विवर्णवदनाः सर्वे सर्वे ध्यानपरायणाः।
नाधिगच्छामहे पारं मग्नाश्चिन्तामहार्णवे ॥ 4.52.10 ॥
चारयन्तस्ततश्चक्षुर्दृष्टवन्तो वयं बिलम्।
लतापादपसञ्छन्नं तिमिरेण समावृतम् ॥ 4.52.11 ॥
कुरराः सारसाश्चैव निष्पतन्ति पतत्€ित्रणः।
साध्वत्र प्रविशामेति मया तूक्ताः प्लवङ्गमाः ॥ 4.52.12 ॥
तेषामपि हि सर्वेषामनुमानमुपागतम्।
गच्छाम प्रविशामेति भर्तृकार्यत्वरान्विताः ॥ 4.52.13 ॥
ततो गाढं निपतिता गृह्य हस्तौ परस्परम्।
इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् ॥ 4.52.14 ॥
एतन्नः कार्यमेतेन कृत्येन वयमागताः।
त्वां चैवोपगताः सर्वे परिद्यूना बुभुक्षिताः ॥ 4.52.15 ॥
आतिथ्यधर्मदत्तानि मूलानि च फलानि च।
अस्माभिरुपभुक्तानि बुभुक्षापरिपीडितैः ॥ 4.52.16 ॥
यत्त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया।
ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः ॥ 4.52.17 ॥
एवमुक्ता तु सर्वज्ञा वानरैस्तैः स्वयम्प्रभा।
प्रत्युवाच ततः सर्वानिदं वानरयूथापान् ॥ 4.52.18 ॥
सर्वेषां परितुष्टाऽस्मि वानराणां तरस्विनाम्।
चरन्त्या मम धर्मेण न कार्यमिह केनचित् ॥ 4.52.19 ॥