इत्युक्त्वा हनुमांस्तत्र पुनः कृष्णाजिनाम्बराम्।
अब्रवीत्तां महाभागां तापसीं धर्मचारिणीम् ॥ 4.51.1 ॥
इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम्।
क्षुत्पिपासापरिश्रान्ताः परिखिन्नाश्च सर्वशः ॥ 4.51.2 ॥
महद्धरण्या विवरं प्रविष्टाः स्म पिपासिताः।
इमास्त्वेवंविधान् भावान् विविधानद्भुतोपमान् ॥ 4.51.3 ॥
दृष्ट्वा वयं प्रव्यथिताः सन्भ्रान्ता नष्टचेतसः।
कस्यैते काञ्चना वृक्षास्तरुणादित्यसन्निभाः ॥ 4.51.4 ॥
शुचीन्यभ्यवहार्याणि मूलानि च फलानि च।
काञ्चनानि विमानानि राजतानि गृहाणि च ॥ 4.51.5 ॥
तपनीयगवाक्षणि मणिजालावृतानि च।
पुष्पिताः फलवन्तश्च पुण्याः सुरभिगन्धिनः ॥ 4.51.6 ॥
इमे जाम्बूनदमयाः पादपाः कस्य तेजसा।
काञ्चनानि च पद्मानि जातानि विमले जले ॥ 4.51.7 ॥
कथं मत्स्याश्च सौवर्णाश्चरन्ति सह कच्छपैः।
आत्मानमनुभावं च कस्य चैतत्तपोबलम् ॥ 4.51.8 ॥
एवमुक्ता हनुमता तापसी धर्मचारिणी।
प्रत्युवाच हनूमन्तं सर्वभूतहिते रता ॥ 4.51.9 ॥
मयो नाम महातेजा मायावी दानवर्षभः।
तेनेदं निर्मितं सर्वं मायया काञ्चनं वनम् ॥ 4.51.10 ॥
पुरा दानवमुख्यानां विश्वकर्मा बभूव ह।
येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम् ॥ 4.51.11 ॥
स तु वर्षसहस्राणि तपस्तप्त्वा महावने।
पितामहाद्वरं लेभे सर्वमौशनसं धनम् ॥ 4.51.12 ॥
वनं विधाय बलवान् सर्वकामेश्वरस्तदा।
उवास सुखितः कालं कञ्चिदस्मिन् महावने ॥ 4.51.13 ॥
तमप्सरसि हेमायां सक्तं दानवपुङ्गवम्।
विक्रम्यैवाशनिं गृह्य जघानेशः पुरन्दरः ॥ 4.51.14 ॥
इदं च ब्रह्माणा दत्तं हेमायै वनमुत्तमम्।
शाश्वताः कामभोगाश्च गृहं चेदं हिरण्मयम् ॥ 4.51.15 ॥
दुहिता मेरुसावर्णेरहं तस्याः स्वयम्प्रभा।
इदं रक्षामि भवनं हेमाया वानरोत्तम ॥ 4.51.16 ॥
मम प्रियसखी हेमा नृत्तगीतविशारदा।
तया दत्तवरा चास्मि रक्षामि भवनोत्तमम् ॥ 4.51.17 ॥
किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपश्यथ।
कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम् ॥ 4.51.18 ॥
इमान्यभ्यवहार्याणि मूलानि च फलानि च।
भुक्त्वा पीत्वा च पानीयं सर्वं मे वक्तुमर्हथ ॥ 4.51.19 ॥