०५० हनुमदादिभिः वृक्षबिलप्रवेशः

सह ताराङ्गदाभ्यां तु सङ्गम्य हनुमान् कपिः।
विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च ॥ 4.50.1 ॥
सिंहशार्दूलजुष्टेषु शिलाश्च सरितस्तथा।
विषमेषु नगेन्द्रस्य महाप्रस्रवणेषु च ॥ 4.50.2 ॥
आसेदुस्तस्य शैलस्य कोटिं दक्षिणपश्चिमाम्।
तेषां तत्रैव वसतां स कालो व्यत्यवर्तत ॥ 4.50.3 ॥
स हि देशो दुरन्वेषो गुहागहनवान् महान् ॥ 4.50.4 ॥
तत्र वायुसुतः सर्वं विचिनोति स्म पर्वतम्।
परस्परेण हनुमानन्योन्यस्याविदूरतः ॥ 4.50.5 ॥
गजो गवाक्षो गवयः शरभो गन्धमादनः।
मैन्दश्च द्विविदश्चैव सुषेणो जम्बवान्नलः ॥ 4.50.6 ॥
गिरिजालावृतान्देशान् मार्गित्वा दक्षिणां दिशम्।
विचिन्वन्तस्ततस्तत्र ददृशुर्विवृतं बिलम् ॥ 4.50.7 ॥
क्षुत्पिपासापरीताश्च श्रान्ताश्च सलिलार्थिनः।
अवकीर्णं लतावृक्षैर्ददृशुस्ते महाबिलम् ॥ 4.50.8 ॥
ततः क्रौञ्चाश्च हंसाश्च सारसाश्चापि निष्क्रमन्।
जलार्द्राश्चक्रवाकाश्च रक्ताङ्गाः पद्मरेणुभिः ॥ 4.50.9 ॥
ततस्तद्विलमासाद्य सुगन्धि दुरतिक्रमम्।
विस्मयव्यग्रमनसो बभूवुर्वानरर्षभाः ॥ 4.50.10 ॥
सञ्जातपरिशङ्कास्ते तद्विलं प्लवगोत्तमाः।
अभ्यपद्यन्नसंहृष्टास्तेजोवन्तो महाबलाः ॥ 4.50.11 ॥
नानासत्त्वसमाकीर्णं दैत्येन्द्रनिलयोपमम्।
दुर्दर्शमतिघोरं च दुर्विगाहं च सर्वशः ॥ 4.50.12 ॥
ततः पर्वतकूटाभो हनुमान् पवनात्मजः।
अब्रवीतद्वानरान् सर्वान् कान्तारवनकोविदः ॥ 4.50.13 ॥
गिरिजालावृतान् देशान्मार्गित्वा दक्षिणां दिशम्।
वयं सर्वे परिश्रान्ता न च पश्याम मैथिलीम् ॥ 4.50.14 ॥
अस्माच्चापि बिलाद्धंसाः क्रौञ्चाश्च सह सारसैः।
जलार्द्राश्चक्रवाकाश्च निष्पतन्ति स्म सर्वतः ॥ 4.50.15 ॥
नूनं सलिलवानत्र कूपो वा यदि वा ह्रदः।
तथा चेमे बिलद्वारे स्निग्धास्तिष्ठन्ति पादपाः ॥ 4.50.16 ॥
इत्युक्त्वा तद्विलं सर्वे विविशुस्तिमिरावृतम्।
अचन्द्रसूर्यं हरयो ददृशू रोमहर्षणम् ॥ 4.50.17 ॥
निशाम्य तस्मात्सिंहांश्च तांस्तांश्च मृगपक्षिणः।
प्रविष्टा हरिशार्दूला बिलं तिमिरसंवृतम् ॥ 4.50.18 ॥
न तेषां सज्जते चक्षुर्न तेजो न पराक्रमः।
वायोरिव गतिस्तेषां दृष्टिस्तमसि वर्तते ॥ 4.50.19 ॥
ते प्रविष्टास्तु वेगेन तद्बिलं कपिकुञ्जराः।
प्रकाशमभिरामं च ददृशुर्देशमुत्तमम् ॥ 4.50.20 ॥
ततस्तस्मिन् बिले दुर्गे नानापादपसङ्कुले।
अन्योन्यं सम्परष्वज्य जग्मुर्योजनमन्तरम् ॥ 4.50.21 ॥
ते नष्टसञ्ज्ञास्तृषिताः सम्भ्रान्ताः सलिलार्थिनः।
परिपेतुर्बिले तस्मिन् कञ्चित्कालमतन्द्रिताः ॥ 4.50.22 ॥
ते कृशा दीनवदनाः परिश्रान्ताः प्लवङ्गमाः।
आलोकं ददृशुर्वीरा निराशा जीविते तदा ॥ 4.50.23 ॥
ततस्तं देशमागम्य सौम्यं वितिमिरं वनम्।
ददृशुः काञ्चनान् वृक्षान् दीप्तवैश्वानरप्रभान् ॥ 4.50.24 ॥
सालांस्तालांश्च पुन्नागान् ककुभान् वञ्जुलान् धवान्।
चम्पकान् नागवृक्षांश्च कर्णिकारांश्च पुष्पितान् ॥ 4.50.25 ॥
स्तबकैः काञ्चनैश्चित्रै रक्तैः किसलयैस्तथा।
आपीडैश्च लताभिश्च हेमाभरणभूषितान् ॥ 4.50.26 ॥
तरुणादित्यसङ्काशान् वैडूर्यकृतवेदिकान्।
विभ्राजमानान् वपुषा पादपांश्च हिरण्मयान् ॥ 4.50.27 ॥
नीलवैडूर्यवर्णाश्च पद्मिनीः पतगावृताः।
महद्भिः काञ्चनैः पद्मैर्वृता बालार्कसन्निभैः ॥ 4.50.28 ॥
जातरूपमयैर्मत्स्यैर्महद्भिश्च सकच्छपैः।
नलिनीस्तत्र ददृशुः प्रसन्नसलिलावृताः ॥ 4.50.29 ॥
काञ्चनानि विमानानि राजतानि तथैव च।
तपनीयगवाक्षाणि मुक्ताजालावृतानि च ॥ 4.50.30 ॥
हैमराजतभौमानि वैडूर्यमणिमन्ति च।
ददृशुस्तत्र हरयो गुहमुख्यानि सर्वशः ॥ 4.50.31 ॥
पुष्पितान् फलिनो वृक्षान् प्रवालमणिसन्निभान्।
काञ्चनभ्रमरांश्चैव मधूनि च समन्ततः ॥ 4.50.32 ॥
मणिकाञ्चनचित्राणि शयनान्यासनानि च।
महार्हाणि च यानानि ददृशुस्ते समन्ततः ॥ 4.50.33 ॥
हैमराजतकांस्यानां भाजनानां च सञ्चयान्।
अगरूणां च पानानि मधूनि रसवन्ति च ॥ 4.50.34 ॥
शुचीन्यभ्यवहार्याणि मूलानि च फलानि च।
महार्हाणि च पानानि मधूनि रसवन्ति च ॥ 4.50.35 ॥
दिव्यानामम्बराणां च महार्हाणां च सञ्चयान्।
कम्बलानां च चित्राणामजिनानां च सञ्चयान् ॥ 4.50.36 ॥
तत्र तत्र च विन्यस्तान् दीप्तान्वैश्वानरप्रभान्।
ददृशुर्वानराः शुभ्रान् जातरूपस्य सञ्चयान् ॥ 4.50.37 ॥
तत्र तत्र विचिन्वन्तो बिले तस्मिन्महाबलाः।
ददृशुर्वानराः शूराः स्त्रियं काञ्चिददूरतः ॥ 4.50.38 ॥
तां दृष्ट्वा भृशसन्त्रस्ताश्चीरकृष्णाजिनाम्बराम्।
तापसीं नियताहारां ज्वलन्तीमिव तेजसा ॥ 4.50.39 ॥
विस्मिता हरयस्तत्र व्यवातिष्ठन्त सर्वशः।
पप्रच्छ हनुमांस्तत्र काऽसि त्वं कस्य वा बिलम् ॥ 4.50.40 ॥
ततो हनूमान् गिरिसन्निकाशः कृताञ्जलिस्तामभिवाद्य वृद्धाम्।
पप्रच्छ का त्वं भवनं बिलं च रत्नानि हेमानि वदस्व कस्य ॥ 4.50.41 ॥