०४९ लोपामुद्रायाः सप्तपर्णवने सीतान्वेषणम्

अथाङ्गदस्तदा सर्वान् वानरानिदमब्रवीत्।
परिश्रान्तो महाप्राज्ञः समाश्वस्य शनैर्वचः ॥ 4.49.1 ॥
वनानि गिरयो नद्यो दुर्गाणि गहनानि च।
दर्यो गिरिगुहाश्चैव विचितानि समन्ततः ॥ 4.49.2 ॥
तत्र तत्र सहास्माभिर्जानकी न च दृश्यते।
तद्वा रक्षो हृता येन सीता सुरसुतोपमा ॥ 4.49.3 ॥
कालश्च वो महान् यातः सुग्रीवश्चोग्रशासनः।
तस्माद्भवन्तः सहिता विचिन्वन्तु समन्ततः ॥ 4.49.4 ॥
विहाय तन्द्रीं शोकं च निद्रां चैव समुत्थिताम्।
विचिनुध्वं यथा सीतां पश्यामो जनकात्मजाम् ॥ 4.49.5 ॥
अनिर्वेदं च दाक्ष्यं च मनसश्चापराजयः।
कार्यसिद्धिकराण्याहुस्तस्मादेतद् ब्रवीम्यहम् ॥ 4.49.6 ॥
अद्यापि तद्वनं दुर्गं विचिन्वन्तु वनौकसः।
खेदं त्यक्त्वा पुनः सर्वैर्वनमेतद्विचीयताम् ॥ 4.49.7 ॥
अवश्यं क्रियमाणस्य दृश्यते कर्मणः फलम्।
अलं निर्वेदमागम्य नहि नो मीलनं क्षमम् ॥ 4.49.8 ॥
सुग्रीवः कोपनो राजा तीक्ष्णदण्डश्च वानरः।
भेतव्यं तस्य सततं रामस्य च महात्मनः ॥ 4.49.9 ॥
हितार्थमेतदुक्तं वः क्रियतां यदि रोचते।
उच्यतां वा क्षमं यन्नः सर्वेषामेव वानराः ॥ 4.49.10 ॥
अङ्गदस्य वचः श्रुत्वा वचनं गन्धमादनः।
उवाचाव्यक्तया वाचा पिपासाश्रमखिन्नया ॥ 4.49.11 ॥
सदृशं खलु वो वाक्यमङ्गदो यदुवाच ह।
हितं चैवानुकूलं च क्रियतामस्य भाषितम् ॥ 4.49.12 ॥
पुनर्मार्गामहै शैलान् कन्दरांश्च दरीस्तथा।
काननानि च शून्यानि गिरिप्रस्रवणानि च ॥ 4.49.13 ॥
यथोद्दिष्टानि सर्वाणि सुग्रीवेण महात्मना।
विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि सर्वशः ॥ 4.49.14 ॥
ततः समुत्थाय पुनर्वानरास्ते महाबलाः।
विन्ध्यकाननसङ्कीर्णां विचेरुर्दक्षिणां दिशम् ॥ 4.49.15 ॥
ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम्।
शृङ्गवन्तं दरीमन्तमधिरुह्य च वानराः ॥ 4.49.16 ॥
तत्र कोद्रवनं रम्यं सप्तपर्णवनानि च।
व्यचिन्वंस्ते हरिवराः सीतादर्शनकाङ्क्षिणः ॥ 4.49.17 ॥
तस्याग्रमधिरूढास्ते श्रान्ता विपुलविक्रमाः।
न पश्यन्ति स्म वैदेहीं रामस्य महिषीं प्रियाम् ॥ 4.49.18 ॥
ते तु दृष्टिगतं कृत्वा तं शैलं बहुकन्दरम्।
अवारोहन्त हरयो वीक्षमाणाः समन्ततः ॥ 4.49.19 ॥
अवरुह्य ततो भूमिं श्रान्ता विगतचेतसः।
स्थित्वा मुहूर्तं तत्राथ वृक्षमूलमुपाश्रिताः ॥ 4.49.20 ॥
ते मुहूर्तं समाश्वस्ताः किञ्चिद्भग्नपरिश्रमाः।
पुनरेवोद्यताः कृत्स्नां मार्गितुं दक्षिणां दिशम् ॥ 4.49.21 ॥
हनुमत्प्रमुखास्ते तु प्रस्थिताः प्लवगर्षभाः।
विन्ध्यमेवादितस्तावद्विचेरुस्ते ततस्ततः ॥ 4.49.22 ॥