०४८ विन्ध्यपर्वते सीतान्वेषणम्

सह ताराङ्गदाभ्यां तु गत्वा स हनुमान् कपिः।
सुग्रीवेण यथोद्दिष्टं तं देशमुपचक्रमे ॥ 4.48.1 ॥
स तु दूरमुपागम्य सर्वैस्तैः कपिसत्तमैः।
विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च ॥ 4.48.2 ॥
पर्वताग्रान्नदीदुर्गान् सरांसि विपुलान् द्रुमान्।
वृक्षषण्डांश्च विविधान् पर्वतान् घनपादपान् ॥ 4.48.3 ॥
अन्वेषमाणास्ते सर्वे वानराः सर्वतो दिशम्।
न सीतां दद्दशुर्वीरा मैथिलीं जनकात्मजाम् ॥ 4.48.4 ॥
अन्वेषमाणा दुर्धर्षा न्यवसंस्तत्र तत्र ह।
स तु देशो दुरन्वेषो गुहागहनवान् महान् ॥ 4.48.5 ॥
निर्जलं निर्जनं शून्यं गहनं रोमहर्षणम्।
त्यक्त्वा तु तं तदा देशं सर्वे वै हरियूथपाः ॥ 4.48.6 ॥
तादृशान्यप्यरण्यानि विचित्य भृशपीडिताः।
देशमन्यं दुराधर्षं विविशुश्चाकुतोभयाः ॥ 4.48.7 ॥
यत्र वन्ध्यफला वृक्षा विपुष्पाः पर्णवर्जिताः।
निस्तोयाः सरितो यत्र मूलं यत्र सुदुर्लभम् ॥ 4.48.8 ॥
न सन्ति महिषा यत्र न मृगा न च हस्तिनः।
शार्दूलाः पक्षिणो वापि ये चान्ये वनगोचराः ॥ 4.48.9 ॥
स्निग्धपत्€त्राः स्थले यत्र पद्मिन्यः फुल्लपङ्कजाः।
प्रेक्षणीयाः सुगन्धाश्च भ्रमरैश्चापि वर्जिताः ॥ 4.48.10 ॥
कण्डुर्नाम महाभागः सत्यवादी तपोधनः।
महर्षिः परमामर्षी नियमैर्दुष्प्रधर्षणः ॥ 4.48.11 ॥
तस्य तस्मिन्वने पुत्रो बालः षोडशवार्षिकः।
प्रनष्टो जीवितान्ताय क्रुद्धस्तत्र महामुनिः ॥ 4.48.12 ॥
तेन धर्मात्मना शप्तं कृत्स्नं तत्र महद्वनम्।
अशरण्यं दुराधर्षं मृगपक्षिविवर्जितम् ॥ 4.48.13 ॥
तस्य ते काननान्तांश्च गिरीणां कन्दराणि च।
प्रभवानि नदीनां च विचिन्वन्ति समाहिताः ॥ 4.48.14 ॥
तत्र चापि महात्मानो नापश्यन् जनकात्मजाम्।
हर्तारं रावणं वापि सुग्रीवप्रियकारिणः ॥ 4.48.15 ॥
ते प्रविश्याशु तं भीमं लतागुल्मसमावृतम्।
ददृशुः क्रूरकर्माणमसुरं सुरनिर्भयम् ॥ 4.48.16 ॥
तं दृष्ट्वा वानरा घोरं स्थितं शैलमिवापरम्।
गाढं परिहिताः सर्वे दृष्ट्वा तान् पर्वतोपमान् ॥ 4.48.17 ॥
सोऽपि तान्वानरान् सर्वान् नष्टाः स्थेत्यब्रवीद्वली।
अभ्यधावत सङ्क्रुद्धो मुष्टिमुद्यम्य संहितम् ॥ 4.48.18 ॥
तमापतन्तं सहसा वालिपुत्रोऽङ्गदस्तदा।
रावणोऽयमिति ज्ञात्वा तलेनाभिजघान ह ॥ 4.48.19 ॥
स वालिपुत्राभिहतो वक्त्राच्छोणितमुद्वमन्।
असुरोऽभ्यपतद्भूमौ पर्यस्त इव पर्वतः ॥ 4.48.20 ॥
तेपि तस्मिन्निरुच्छ्वासे वानरा जितकाशिनः।
व्यचिन्वन् प्रायशस्तत्र सर्वं तद्गिरिगह्वरम् ॥ 4.48.21 ॥
विचितं तु ततः कृत्वा सर्वे ते काननं पुनः।
अन्यदेवापरं घोरं विविशुर्गिरिगह्वरम् ॥ 4.48.22 ॥
ते विचित्य पुनः खिन्ना विनिष्पत्य समागताः।
एकान्ते वृक्षमूले तु निषेदुर्दीनमानसाः ॥ 4.48.23 ॥