०४७ त्रिदिशात् वानरप्रत्यागमनम्

दर्शनार्थं तु वैदेह्याः सर्वतः कपियूथपाः।
व्यादिष्टाः कपिराजेन यथोक्तं जग्मुरञ्जसा ॥ 4.47.1 ॥
सरांसि सरितः कक्षानाकाशं नगराणि च।
नदीदुर्गांस्तथा शैलान् विचिन्वन्ति समन्ततः ॥ 4.47.2 ॥
सुग्रीवेण समाख्याताः सर्वे वानरयूथपाः।
प्रदेशान् प्रविचिन्वन्ति सशैलवनकाननान् ॥ 4.47.3 ॥
विचित्य दिवसं सर्वे सीताधिगमने धृताः।
समायान्ति स्ममेदिन्यां निशाकालेषु वानराः ॥ 4.47.4 ॥
सर्वर्तुकामान् देशेषु वानराः सफलान् द्रुमान्।
आसाद्य रजनीं शय्यां चक्रुः सर्वेष्वहस्सु ते ॥ 4.47.5 ॥
तदहः प्रथमं कृत्वा मासे प्रस्रवणं गताः।
कपिराजेन सङ्गम्य निराशाः कपियूथपाः ॥ 4.47.6 ॥
विचित्य तु दिशं पूर्वां यथोक्तां सचिवैः सह।
अदृष्ट्वा विनतः सीतामाजगाम महाबलः ॥ 4.47.7 ॥
उत्तरां च दिशं सर्वां विचित्य स महाकपिः।
आगतः सह सैन्येन वीरः शतवलिस्तदा ॥ 4.47.8 ॥
सुषेणः पश्चिमामाशां विचित्य सह वानरैः।
समेत्य मासे सम्पूर्णे सुग्रीवमुपचक्रमे ॥ 4.47.9 ॥
तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च।
आसीनं सह रामेण सुग्रीवमिदमब्रुवन् ॥ 4.47.10 ॥
विचिताः पर्वताः सर्वे वनानि गहनानि च।
निम्नगाः सागरान्ताश्च सर्वे जनपदाश्च ये ॥ 4.47.11 ॥
गुहाश्च विचिताः सर्वास्त्वया याः परिकीर्तिताः।
विचिताश्च महागुल्मा लताविततसन्तताः ॥ 4.47.12 ॥
गहनेषु च देशेषु दुर्गेषु विषमेषु च।
सत्त्वान्यतिप्रमाणानि विचितानि हतानि च ॥ 4.47.13 ॥
उदारसत्त्वाभिजनो महात्मा स मैथीलीं द्रक्ष्यति वानरेन्द्रः।
दिशं तु यामेव गता तु सीता तामास्थितो वायुसुतो हनूमान् ॥ 4.47.14 ॥