गतेषु वानरेन्द्रेषु रामः सुग्रीवमब्रवीत्।
कथं भवान् विजानीते सर्वं वै मण्डलं भुवः ॥ 4.46.1 ॥
सुग्रीवस्तु ततो राममुवाच प्रणतात्मवान्।
श्रूयतां सर्वमाख्यास्ये विस्तरेण नरर्षभ ॥ 4.46.2 ॥
यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम्।
परिकालयते वाली मलयं प्रति पर्वतम् ॥ 4.46.3 ॥
तदा विवेश महिषो मलयस्य गुहां प्रति।
विवेश वाली तत्रापि मलयं तज्जिघांसया ॥ 4.46.4 ॥
ततोऽहं तत्र निक्षिप्तो गुहाद्वारि विनीतवत्।
न च निष्क्रमते वाली तदा संवत्सरे गते ॥ 4.46.5 ॥
ततः क्षतजवेगेन आपुपूरे तदा बिलम्।
तदहं विस्मितो दृष्ट्वा भ्रातृशोकविषार्दितः ॥ 4.46.6 ॥
अथाहं कृतबुद्धिस्तु सुव्यक्तं निहतो गुरुः।
शिला पर्वतसङ्काशा बिलद्वारि मयावृता ॥ 4.46.7 ॥
ततोऽहमागां किष्किन्धां निराशस्तस्य जीविते।
राज्यं च सुमहत्प्राप्तं तारया रुमया सह ॥ 4.46.8 ॥
मित्रैश्च सहितस्तत्र वसामि विगतज्वरः।
आजगाम ततो वाली हत्वा तं दानवर्षभम् ॥ 4.46.9 ॥
ततोऽहमददां राज्यं गौरवाद्भययन्त्रितः ॥ 4.46.10 ॥
स मां जिघांसुर्दुष्टात्मा वाली प्रव्यथितेन्द्रियः।
परिकालयते क्रोधाद्धावन्तं सचिवैस्सह ॥ 4.46.11 ॥
ततोऽहं वालिना तेन सानुबन्धः प्रधावितः।
नदीश्च विविधाः पश्यन् वनानि नगराणि च ॥ 4.46.12 ॥
आदर्शतलसङ्काशा ततो वै पृथिवी मया।
अलातचक्रप्रतिमा दृष्टा गोष्पदवत्तदा ॥ 4.46.13 ॥
पूर्वां दिशं ततो गत्वा पश्यामि विविधान् द्रुमान्।
पर्वतांश्च नदी रम्याः सरांसि विविधानि च ॥ 4.46.14 ॥
उदयं तत्र पश्यामि पर्वतं धातुमण्डितम्।
क्षीरोदं सागरं चैव नित्यमप्सरसालयम् ॥ 4.46.15 ॥
परिकालयमानस्तु वालिनाऽभिद्रुतस्तदा।
पुनरावृत्य सहसा प्रस्थितोऽहं तदा विभो ॥ 4.46.16 ॥
पुनरावर्तमानस्तु वालिनाऽभिद्रुतो द्रुतम्।
दिशस्तस्यास्ततो भूयः प्रस्थितो दक्षिणां दिशम् ॥ 4.46.17 ॥
विन्ध्यपादप सङ्कीर्णां चन्दनद्रुमभूषिताम्।
द्रुमशैलांस्ततः पश्यन् भूयो दक्षिणतोऽपरान् ॥ 4.46.18 ॥
सम्पश्यन् विविधान् देशानस्तं च गिरिसत्तमम्।
प्राप्य चास्तं गिरिश्रेष्ठमुत्तरां सम्प्रधावितः ॥ 4.46.19 ॥
हिमवन्तं च मेरुं च समुद्रं च तथोत्तरम् ॥ 4.46.20 ॥
यदा न विन्दं शरणं वालिना समभिद्रुतः।
तदा मां बुद्धिसम्पन्नो हनुमान् वाक्यमब्रवीत् ॥ 4.46.21 ॥
इदानीं मे स्मृतं राजन् यथा वाली हरीश्वरः।
मतङ्गेन तदा शप्तो ह्यस्मिन्नाश्रममण्डले ॥ 4.46.22 ॥
प्रविशेद्यदि वै वाली मूर्धाऽस्य शतधा भवेत्।
तत्र वासः सुखोऽस्माकं निरुद्विग्नो भविष्यति ॥ 4.46.23 ॥
ततः पर्वतमासाद्य ऋश्यमूके नृपात्मज।
न विवेश तदा वाली मतङ्गस्य भयात्तदा ॥ 4.46.24 ॥
एवं मया तदा राजन् प्रत्यक्षमुपलक्षितम्।
पृथिवीमण्डलं कृत्स्नं गुहामस्यागतस्तः ॥ 4.46.25 ॥