समस्तानब्रवीद्भूयो रामकार्यार्थसिद्धये।
एवमेतद्विचेतव्यं यन्मया परिकीर्तितम् ॥ 4.45.1 ॥
तदुग्रशासनं भर्तुर्विज्ञाय हरिपुङ्गवाः।
शलभा इव सञ्छाद्य मेदिनीं सम्प्रतस्थिरे ॥ 4.45.2 ॥
रामः प्रस्रवणे तस्मिन् न्यवसत्सहलक्ष्मणः।
प्रतीक्षमाणस्तं मासं यः सीताधिगमे कृतः ॥ 4.45.3 ॥
उत्तरां तु दिशं रम्यां गिरिराजसमावृताम्।
प्रतस्थे सहसा वीरो हरिः शतवलिस्तदा ॥ 4.45.4 ॥
पूर्वां दिशं प्रति ययौ विनतो हरियूथपः।
ताराङ्गदादिसहितः प्लवगो मारुतात्मजः ॥ 4.45.5 ॥
पश्चिमां तु भृशं घोरां सुषेणः प्लवगेश्वरः।
प्रतस्थे हरिशार्दूलो दिशं वरुणपालिताम् ॥ 4.45.6 ॥
ततः सर्वा दिशो राजा चोदयित्वा यथा तथम्।
कपिसेनापतीन् मुख्यान् मुमोद सुखितः सुखम् ॥ 4.45.7 ॥
एवं सम्बोधिताः सर्वे राज्ञा वानरयूथपाः।
स्वां स्वां दिशमभिप्रेत्य त्वरिताः सम्प्रतस्थिरे ॥ 4.45.8 ॥
नदन्तश्चोन्नदन्तश्च गर्जन्तश्च प्लवङ्गमाः।
क्ष्वेलन्तो धावमानाश्च विनदन्तो महाबलाः ॥ 4.45.9 ॥
अहमेको हनिष्यामि प्राप्तं रावणमाहवे।
ततश्चोन्मथ्य सहसा हरिष्ये जनकात्मजाम् ॥ 4.45.10 ॥
वेपमानां श्रमेणाद्य भवद्भिः स्थीयतामिह।
एक एवाहरिष्यामि पातालादपि जानकीम् ॥ 4.45.11 ॥
विमथिष्याम्यहं वृक्षान् पातयिष्याम्यहं गिरीन्।
धरणीं दारयिष्यामि क्षोभयिष्यामि सागरान् ॥ 4.45.12 ॥
अहं योजनसङ्ख्यायाः प्लविता नात्र संशयः।
शतं योजनसङ्ख्यायाः शतं समधिकं ह्यहम् ॥ 4.45.13 ॥
भूतले सागरे वापि शैलेषु च वनेषु च।
पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः ॥ 4.45.14 ॥
इत्येकैकं तदा तत्र वानरा बलदर्पिताः।
ऊचुश्च वचनं तत्र हरिराजस्य सन्निधौ ॥ 4.45.15 ॥