विशेषेण तु सुग्रीवो हनुमत्यर्थमुक्तवान्।
स हि तस्मिन् हरिश्रेष्ठे निश्चितार्थोऽर्थसाधने ॥ 4.44.1 ॥
अब्रवीच्च हनूमन्तं विक्रान्तमनिलात्मजम्।
सुग्रीवः परमप्रीतः प्रभुः सर्ववनौकसाम् ॥ 4.44.2 ॥
न भूमौ नान्तरिक्षे वा नाम्बरे नामरालये।
नाप्सु वा गतिसङ्गं ते पश्यामि हरिपुङ्गव ॥ 4.44.3 ॥
सासुराः सहगन्धर्वाः सनागनरदेवताः।
विदिताः सर्वलोकास्ते ससागरधराधराः ॥ 4.44.4 ॥
गतिर्वेगश्च तेजश्च लाघवं च महाकपे।
पितुस्ते सदृशं वीर मारुतस्य महौजसः ॥ 4.44.5 ॥
तेजसा वापि ते भूतं समं भुवि न विद्यते।
तद्यथा लभ्यते सीता तत् त्वमेवोपपादय ॥ 4.44.6 ॥
त्वय्येव हनुमान् स्वस्ति बलं बुद्धिः पराक्रमः।
देशकालानुवृत्तिश्च नयश्च नयपण्डित ॥ 4.44.7 ॥
ततः कार्यसमासङ्गमवगम्य हनूमति।
विदित्वा हनुमानं च चिन्तयामास राघवः ॥ 4.44.8 ॥
सर्वथा निश्चितार्थोऽयं हनूमति हरीश्वरः।
निश्चितार्थकरश्चापि हनुमान् कार्यसाधने ॥ 4.44.9 ॥
तदेवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः।
भर्त्रा परिगृहीतस्य ध्रुवः कार्यफलोदयः ॥ 4.44.10 ॥
व्यवसायोत्तरं व्यवसायेन उत्तरं श्रेष्ठम्।
कृतार्थः संवृत्त इव, अमन्यतेति शेषः ॥ 4.44.11 ॥
ददौ तस्य ततः प्रीतः स्वनामाङ्कोपशोभितम्।
अङ्गुलीयमभिज्ञानं राजपुत्र्याः परन्तपः ॥ 4.44.12 ॥
अनेन त्वां हरिश्रेष्ठ चिह्नेन जनकात्मजा।
मत्सकाशादनुप्राप्तमनुद्विग्नाऽनुपश्यति ॥ 4.44.13 ॥
व्यवसायश्च ते वीर सत्त्वयुक्तश्च विक्रमः।
सुग्रीवस्य च सन्देशः सिद्धिं कथयतीव मे ॥ 4.44.14 ॥
स तं गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि कृताञ्जलिः।
वन्दित्वा चरणौ चैव प्रस्थितः प्लवगोत्तमः ॥ 4.44.15 ॥
स तत्प्रकर्षन् हरिणां बलं महद्बभूव वीरः पवनात्मजः कपिः।
गताम्बुदे व्योम्नि विशुद्धमण्डलः शशीव नक्षत्रगणोपशोभितः ॥ 4.44.16 ॥
अतिबल बलमाश्रितस्तवाहं हरिवरविक्रम विक्रमैरनल्पैः।
पवनसुत यथाऽभिगम्यते सा जनकसुता हनुमान् तथा कुरुष्व ॥ 4.44.17 ॥