०४३ उदीचीं प्रति शतबलिप्रेषणम्

ततः सन्दिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम्।
वीरं शतवलिं नाम वानरं वानरर्षभः ॥ 4.43.1 ॥
उवाच राजा धर्मज्ञः सर्ववानरसत्तमम्।
वाक्यमात्महितं चैव रामस्य च हितं तथा ॥ 4.43.2 ॥
वृतः शतसहस्रेण त्वद्विधानां वनौकसाम्।
वैवस्वसुतैः सार्धं प्रतिष्ठस्व स्वमन्त्रिभिः ॥ 4.43.3 ॥
दिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसकाम्।
सर्वतः परिमार्गध्वं रामपत्नीमनिन्दिताम् ॥ 4.43.4 ॥
अस्मिन् कार्ये विनिर्वृते कृते दाशरथेः प्रिये।
ऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः ॥ 4.43.5 ॥
कृतं हि प्रियमस्माकं राघवेण महात्मना।
तस्य चेत् प्रतिकारोऽस्ति सफलं जीवितं भवेत् ॥ 4.43.6 ॥
अर्थितः कार्यनिर्वृत्तिमकर्तुरपि यश्चरेत्।
तस्य स्यात् सफलं जन्म किं पुनः पूर्वकारिणः ॥ 4.43.7 ॥
एतां बुद्धिमवस्थाय दृश्यते जानकी यथा।
तथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः ॥ 4.43.8 ॥
अयं हि सर्वभूतानां मान्यस्तु नरसत्तमः।
अस्मासु चागतप्रीती रामः परपुरञ्जयः ॥ 4.43.9 ॥
इमानि वनगुर्गाणि नद्यः शैलान्तराणि च।
भवन्तः परिमार्गन्तु बुद्धिविक्रमसम्पदा ॥ 4.43.10 ॥
तत्र म्लेच्छान्पुलिन्दांश्च शूरसेनांस्तथैव च।
प्रस्थलान् भरतांश्चैव कुरूंश्च सह मद्रकैः ॥ 4.43.11 ॥
काम्बोजान् यवनांश्चैव शकानारट्टकानपि।
बाह्लीकानृषिकांश्चैव पौरवानथ टङ्कणान् ॥ 4.43.12 ॥
चीनान् परमचीनांश्च नीहारांश्च पुनःपुनः।
अन्वीक्ष्य दरदांश्चैव हिमवन्तं तथैव च ॥ 4.43.13 ॥
लौध्रपद्मकषण्डेषु देवदारुवनेषु च।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ 4.43.14 ॥
ततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम्।
कालं नाम महासानुं पर्वतं तु गमिष्यथ ॥ 4.43.15 ॥
महत्सु तस्य शैलस्य निर्दरेषु गुहासु च।
विचिनुध्वं महाभागां रामपत्नीं ततस्ततः ॥ 4.43.16 ॥
तमतिक्रम्य शैलेन्द्रं हेमगर्भं महागिरिम्।
ततः सुदर्शन्नं नाम गन्तुमर्हथ पर्वतम् ॥ 4.43.17 ॥
ततो देवसखो नाम पर्वतः पतगालयः।
नानापक्षिगणाकीर्णो विविधद्रुमभूषितः ॥ 4.43.18 ॥
तस्य काननषण्डेषु निर्झरेषु गुहासु च।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ 4.43.19 ॥
तमतिक्रम्य चाकाशं सर्वतः शतयोजनम्।
अपर्वतनदीवृक्षं सर्वसत्त्वविवर्जितम् ॥ 4.43.20 ॥
तं तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम्।
कैलासं पाण्डुरं शैलं प्राप्य हृष्टा भविष्यथ ॥ 4.43.21 ॥
तत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम्।
कुबेरभवनं दिव्यं निर्मितं विश्वकर्मणा ॥ 4.43.22 ॥
विशाला नलिनी यत्र प्रभूतकमलोत्पला।
हंसकारण्डवाकीर्णा ह्यप्सरोगणसेविता ॥ 4.43.23 ॥
तत्र वैश्रवणो राजा सर्वभूतनमस्कृतः।
धनदो रमते श्रीमान् गुह्यकैः सह यक्षराट् ॥ 4.43.24 ॥
तस्य चन्द्रनिकाशेषु पर्वतेषु गुहासु च।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ 4.43.25 ॥
क्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम्।
अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत्स्मृतम् ॥ 4.43.26 ॥
वसन्ति हि महात्मानास्तत्र सूर्यसमप्रभाः।
देवैरप्यर्चिताः सम्यग् देवरूपा महर्षभः ॥ 4.43.27 ॥
कौञ्चस्य तु गुहाश्चान्याः सानूनि शिखाराणि च।
निर्दराश्च नितम्बाश्च विचेतव्यास्ततस्ततः ॥ 4.43.28 ॥
क्रौञ्चस्य शिखरं चापि निरीक्ष्य च ततस्ततः।
अवृक्षं कामशैलं च मानसं विहगालयम् ॥ 4.43.29 ॥
न गतिस्तत्र भूतानां देवदानवरक्षसाम्।
स च सर्वैर्विचेतव्यः ससानुप्रस्थभूधरः ॥ 4.43.30 ॥
क्रौञ्चं गिरिमतिक्रम्य मैनाको नाम पर्वतः।
मयस्य भवनं यत्र दानवस्य स्वयं कृतम् ॥ 4.43.31 ॥
मैनाकस्तु विचेतव्यः ससानुप्रस्थकन्दरः।
स्त्रीणामश्वमुखीनां च निकेतास्तत्र तत्र तु ॥ 4.43.32 ॥
तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम्।
सिद्धा वैखानसास्तत्र वालखिल्याश्च तापसाः ॥ 4.43.33 ॥
वन्द्यास्ते तु तपस्तिद्धास्तपसा वीतकल्मषाः।
प्रष्टव्या चापि सीतायाः प्रवृत्तिर्विनयान्वितैः ॥ 4.43.34 ॥
हेमपुष्करसञ्छन्नं तस्मिन् वैखानसं सरः।
तरुणादित्यसङ्काशैर्हंसैर्विचरितं शुभैः ॥ 4.43.35 ॥
औपवाह्यः कुबेरस्य सार्वभौम इति स्मृतः।
गजः पर्येति तं देशं सदा सह करेणुभिः ॥ 4.43.36 ॥
तत्सरः समतिक्रम्य नष्टचन्द्रदिवाकरम्।
अनक्षत्रगणं व्योम निष्पयोदमनादितम् ॥ 4.43.37 ॥
गभस्तिभिरिवार्कस्य स तु देशः प्रकाशते।
विश्राम्यद्भिस्तपस्मिद्धैर्देवकल्पैः स्वयम्प्रभैः ॥ 4.43.38 ॥
तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा ॥ 4.43.39 ॥
उभयोस्तीरयोस्तस्याः कीचका नाम वेणवः।
ते नयन्ति परं तीरं सिद्धान् प्रत्यानयन्ति च ॥ 4.43.40 ॥
उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रयाः ॥ 4.43.41 ॥
ततः काञ्चनपद्माभिः पद्मिनीभिः कृतोदकाः।
नीलवैडूर्यपत्€त्राभिर्नद्यास्तत्र सहस्रशः ॥ 4.43.42 ॥
रक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः।
तरुणादित्यसदृशैर्भान्ति तत्र जलाशयाः ॥ 4.43.43 ॥
महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः।
नीलोत्पलवनैश्चित्रैः स देशः सर्वतो वृतः ॥ 4.43.44 ॥
निस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः।
उद्भूतपुलिनास्तत्र जातरूपैश्च निम्नगाः ॥ 4.43.45 ॥
सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः।
जातरूपमयैश्चापि हुताशनसमप्रभैः ॥ 4.43.46 ॥
नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः।
दिव्यागन्धरसस्पर्शाः सर्वकामान् स्रवन्ति च ॥ 4.43.47 ॥
नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः ॥ 4.43.48 ॥
स्त्रीणां चाप्यनुरूपाणि पुरुषाणां तथैव च।
सर्वर्तुसखसेव्यानि फलन्त्यन्ये नगोत्तमाः ॥ 4.43.49 ॥
महार्हाणि च चित्राणि हैमान्यन्ये नगोत्तमाः।
शयनानि प्रसूयन्ते चित्रास्तरणवन्ति च ॥ 4.43.50 ॥
मनःकान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाः।
पानानि च महार्हाणि भक्ष्याणि विविधानि च ॥ 4.43.51 ॥
गन्धर्वाः किन्निराः सिद्धा नागा विद्याधरास्तथा।
रमन्ते सहितास्तत्र नारीभिर्भास्करप्रभाः ॥ 4.43.52 ॥
सर्वे सुकृतकर्माणः सर्वे रतिपरायणाः।
सर्वे कामार्थसहिता वसन्ति सहयोषितः ॥ 4.43.53 ॥
गीतवादित्रनिर्घोषः सोत्कृष्टहसितस्वनः।
श्रूयते सततं तत्र सर्वभूतमनोहरः ॥ 4.43.54 ॥
तत्र नामुदितः कश्चिन्नास्ति कश्चिदसत्प्रियः।
अहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः ॥ 4.43.55 ॥
समतिक्रम्य तं देशमुत्तरः पयसां निधिः ॥ 4.43.56 ॥
इन्द्रलोकगता ये च ब्रह्मलोकगताश्च ये।
देवास्तं समवेक्षन्ते गिरिराजं दिवं गताः ॥ 4.43.57 ॥
स तु देशो विसूर्योऽपि तस्य भासा प्रकाशते।
सूर्यलक्ष्म्याऽभिविज्ञेयस्तपतेव विवस्वता ॥ 4.43.58 ॥
भगवानपि विश्वात्मा शम्भुरेकादशात्मकः।
ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः ॥ 4.43.59 ॥
न कथञ्चन गन्तव्यं कुरूणामुत्तरेण वः।
अन्येषामपि भूतानां नातिक्रामति वै गतिः ॥ 4.43.60 ॥
स हि सोमगिरिर्नाम देवानामपि दुर्गमः।
तमालोक्य ततः क्षिप्रमुपावर्त्तितुमर्हथ ॥ 4.43.61 ॥
एतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः।
अभास्करममर्यादं न जानीमस्ततः परम् ॥ 4.43.62 ॥
सर्वमेतद्विचेतव्यं यन्मया परिकीर्तितम्।
यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः ॥ 4.43.63 ॥
ततः कृतं दाशरथेर्महत् प्रियं महत्तरं चापि ततो मम प्रियम्।
कृतं भविष्यत्यनिलानलोपमा विदेहजादर्शनजेन कर्मणा ॥ 4.43.64 ॥
ततः कृतार्थाः सहिताः सबान्धावा मयाऽर्चिताः सर्वगुणैर्मनोरमैः।
चरिष्यथोर्वीं प्रतिशान्तशत्रवः सहप्रिया भूतधराः प्लवङ्गमाः ॥ 4.43.65 ॥