०४२ प्रतीचीं प्रति सुषेणप्रेषणम्

अथ प्रस्थाप्य सुग्रीवस्तान् हरीन् दक्षिणां दिशम्।
अब्रवीन्मेघसङ्काशं सुषेणं नाम यूथपम् ॥ 4.42.1 ॥
तारायाः पितरं राजा श्वशुरं भीमविक्रमम्।
अब्रवीत्प्राञ्जलिर्वाक्यमभिगम्य प्रणम्य च ॥ 4.42.2 ॥
मरीचिपुत्रं मारीचमर्चिष्मन्तं महाकपिम्।
वृतं कपिवरैः शूरैर्महेन्द्रसदृशद्युतिम् ॥ 4.42.3 ॥
बुद्धिविक्रमसम्पन्नं वैनतेयसमद्युतिम्।
मरीचिपुत्रान् मारीचानर्चिर्मालान्महाबलान् ॥ 4.42.4 ॥
द्वाभ्यां शतसहस्राभ्यां कपीनां कपिसत्तमाः।
सुषेणप्रमुखा यूयं वैदेहीं परिमार्गत ॥ 4.42.5 ॥
सुराष्ट्रान् सहबाह्लीकान् शूरान् भीमांस्तथैव च।
स्फीतान् जनपदान् रम्यान् विपुलानि पुराणि च ॥ 4.42.6 ॥
पुन्नागगहनं कुक्षिं वकुलोद्दालकाकुलम्।
तथा केतकषण्डांश्च मार्गध्वं हरियूथपाः ॥ 4.42.7 ॥
प्रत्यक्स्रोतोगमाश्चैव नद्यः शीतजलाः शिवाः।
तापसानामरण्यानि कान्तारा गिरयश्च ये ॥ 4.42.8 ॥
ततः स्थलीं मरुप्रायामत्युच्चशिरसः शिलाः।
गिरिजालावृतां दुर्गां मार्गित्वा पश्चिमां दिशम् ॥ 4.42.9 ॥
ततः पश्चिममासाद्य समुद्रं द्रष्टुमर्हथ।
तिमिनक्रायुतजलमक्षोभ्यमथ वानराः ॥ 4.42.10 ॥
ततः केतकषण्डेषु तमालगहनेषु च।
कपयो विहरिष्यन्ति नारिकेलवनेषु च ॥ 4.42.11 ॥
तत्र सीतां च मार्गध्वं निलयं रावणस्य च।
वेलातटनिविष्टेषु पर्वतेषु वनेषु च ॥ 4.42.12 ॥
अवन्तीमङ्गलोपां च तथा चालक्षितं वनम्।
राष्ट्राणि च विशालानि पत्तनानि ततस्ततः ॥ 4.42.13 ॥
सिन्धुसागरयोश्चैव सङ्गमे तत्र पर्वतः।
महान् हेमगिरिर्नाम शतशृङ्गो महाद्रुमः ॥ 4.42.14 ॥
तस्य प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताः।
तिमिमत्स्यगजांश्चैव नीडान्यारोपयन्ति ते ॥ 4.42.15 ॥
दृप्तास्तृप्ताश्च मातङ्गास्तोयदस्वननिःस्वनाः।
विचरन्ति विशालेऽस्मिन् तोयपूर्णे समन्ततः ॥ 4.42.16 ॥
तस्य शृङ्गं दिवस्पर्शं काञ्चनं चित्रपादपम्।
सर्वमाशु विचेतव्यं कपिभिः कामरूपिभिः ॥ 4.42.17 ॥
कोटिं तत्र समुद्रे तु काञ्चनीं शतयोजनाम्।
दुर्दर्शां पारियात्रस्य गतां द्रक्ष्यथ वानराः ॥ 4.42.18 ॥
कोट्यस्तत्र चतुर्विंशद्गन्धर्वाणां तरस्विनाम्।
वसन्त्यग्निनिकाशानां घोराणां कामरूपिणाम् ॥ 4.42.19 ॥
पावकार्चिःप्रतीकाशाः समवेताः सहस्रशः।
नात्यासादयितव्यास्ते वानरैर्भीमविक्रमैः ॥ 4.42.20 ॥
नादेयं च फलं तस्माद्देशात् किञ्चित् प्लवङ्गमैः।
दुरासदा हि ते वीराः सत्त्ववन्तो महाबलाः ॥ 4.42.21 ॥
तत्र यत्नश्च कर्तव्यो मार्गितव्या च जानकी।
न हि तेभ्यो भयं किञ्चित् कपित्वमनुवर्तताम् ॥ 4.42.22 ॥
तत्र वैडूर्यवर्णाभो वज्रसंस्थानसंस्थितः।
नानाद्रुमलताकीर्णो वज्रो नाम महागिरिः ॥ 4.42.23 ॥
श्रीमान् समुदितस्तत्र योजनानां शतं समम्।
गुहास्तत्र विचेतव्याः प्रयत्नेन प्लवङ्गमाः ॥ 4.42.24 ॥
चतुर्भागे समुद्रस्य चक्रवान्नाम पर्वतः।
तत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा ॥ 4.42.25 ॥
तत्र पञ्चजनं हत्वा हयग्रीवं च दानवम्।
आजहार ततश्चक्रं शङ्खं च पुरुषोत्तमः ॥ 4.42.26 ॥
तस्य सानुषु चित्रेषु विशालासु गुहासु च।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ 4.42.27 ॥
योजनानां ततः षष्टिर्वराहो नाम पर्वतः।
सुवर्णशृङ्गः सुश्रीमानगाधे वरुणालये ॥ 4.42.28 ॥
तत्र प्राग्ज्योतिषं नाम जातरूपमयं पुरम्।
यस्मिन्वसति दुष्टात्मा नरको नाम दानवः ॥ 4.42.29 ॥
तत्र सानुषु चित्रेषु विशालासु गुहासु च।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ 4.42.30 ॥
तमतिक्रम्य शैलेन्द्रं काञ्चनान्तरनिर्दरः।
पर्वतः सर्वसौवर्णो धाराप्रस्रवणायुतः ॥ 4.42.31 ॥
तं गजाश्च वराहाश्च सिंहा व्याघ्राश्च सर्वतः।
अभिगर्जन्ति सततं तेन शब्देन दर्पिताः ॥ 4.42.32 ॥
यस्मिन् हरिहयः श्रीमान् महेन्द्रः पाकशासनः।
अभिषिक्तः सुरै राजा मेघवान्नाम पर्वतः ॥ 4.42.33 ॥
तमतिक्रम्य शैलेन्द्रं महेन्द्रपरिपालितम्।
षष्टिं गिरिसहस्राणि काञ्चनानि गमिष्यथ ॥ 4.42.34 ॥
तरुणादित्यवर्णानि भ्राजमानानि सर्वतः।
जातरूपमयैवृक्षैः शोभितानि सुपुष्पितैः ॥ 4.42.35 ॥
तेषां मध्ये स्थितो राजा मेरुरुत्तरपर्वतः।
आदित्येन प्रसन्नेन शैलो दत्तवरः पुरा ॥ 4.42.36 ॥
तेनैवमुक्तः शैलेन्द्रः सर्व एव त्वदाश्रयाः।
मत्प्रसादाद् भविष्यन्ति दिवा रात्रौ च काञ्चनाः ॥ 4.42.37 ॥
त्वयि ये चापि वत्स्यन्ति देवगन्धर्वदानवाः।
ते भविष्यन्ति रक्ताश्च प्रभया काञ्चनप्रभाः ॥ 4.42.38 ॥
विश्वेदेवाश्च मरुतो वसवश्च दिवौकसः।
आगम्य पश्चिमां सन्ध्यां मेरुमुत्तरपर्वतम् ॥ 4.42.39 ॥
आदिच्यमुपतिष्ठन्ति तैश्च सुर्योऽभिपूजितः।
अदृश्यः सर्वभूतानामस्तं गच्छति पर्वतम् ॥ 4.42.40 ॥
योजनानां सहस्राणि दश तानि दिवाकरः।
मुहूर्तार्धेन तं शीघ्रमभियाति शिलोच्चयम् ॥ 4.42.41 ॥
शृङ्गे तस्य महद्दिव्यं भवनं सूर्यसन्निभम्।
प्रासादगणसम्बाधं विहितं विश्वकर्मणा ॥ 4.42.42 ॥
शोभितं तरुभिश्चित्रैर्नानापक्षिसमाकुलैः।
निकेतं पाशहस्तस्य वरुणास्य महात्मनः ॥ 4.42.43 ॥
अन्तरा मेरुमस्तं च तालो दशशिरा महान्।
जातरूपमयः श्रीमान् भ्राजते चित्रवेदिकः ॥ 4.42.44 ॥
तेषु सर्वेषु दुर्गेषु सरस्सु च सरित्सु च।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ 4.42.45 ॥
यत्र तिष्ठति धर्मज्ञस्तपसा स्वेन भावितः।
मेरुसावर्णिरित्येन ख्यातो वै ब्रह्मणा समः ॥ 4.42.46 ॥
प्रष्टव्यो मेरुसावर्णिर्महर्षिः सूर्यसन्निभः।
प्रणम्य शिरसा भूमौ प्रवृत्तिं मैथिलीं प्रति ॥ 4.42.47 ॥
एतावज्जीवलोकस्य भास्करो रजनीक्षये।
कृत्वा वितिमिरं सर्वमस्तं गच्छति पर्वतम् ॥ 4.42.48 ॥
एतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः।
अभास्करममर्यादं न जानीमस्ततः परम् ॥ 4.42.49 ॥
अस्तपर्वतमासाद्य पूर्णे मासे निवर्तत।
ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम ॥ 4.42.50 ॥
सहैव शूरो युष्माभिः श्वशुरो मे गमिष्यति।
श्रोतव्यं सर्वमेतस्य भवद्भिर्दिष्टकारिभिः ॥ 4.42.51 ॥
गुरुरेष महाबाहुः श्वशुरो मे महाबलः।
भवन्तश्चापि विक्रान्ताः प्रमाणं सर्वकर्मसु ॥ 4.42.52 ॥
दृष्टायां तु नरेन्द्रस्य पत्न्याममिततेजसः।
कृतकृत्या भविष्यामः कृतस्य प्रतिकर्मणा ॥ 4.42.53 ॥
अतोऽन्यदपि यत्कार्यं कार्यस्यास्य हितं भवेत्।
सम्प्रधार्यं भवद्भिश्च देशकालार्थसंहितम् ॥ 4.42.54 ॥
ततः सुषेणप्रमुखाः प्लवङ्गाः सुग्रीवाक्यं निपुणं निशम्य।
आमन्त्र्य सर्वे प्लवगाधिपं ते जग्मुर्दिशं तां वरुणाभिगुप्ताम् ॥ 4.42.55 ॥