ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम्।
दक्षिणां प्रेषयामास वानरानभिलक्षितान् ॥ 4.41.1 ॥
नीलमग्निसुतं चैव हनुमन्तं च वानरम्।
पितामहसुतं चैव जाम्बवन्तं महाबलम् ॥ 4.41.2 ॥
सुहोत्रं च शरारिं च शरगुल्मं तथैव च।
गजं गवाक्षं गवयं सुषेणमृषभं तथा ॥ 4.41.3 ॥
मैन्दं च द्विविदं चैव विजयं गन्धमादनम्।
उल्कामुखमसङ्गं च हुताशनसुतावुभौ ॥ 4.41.4 ॥
अङ्गदप्रमुखान्वीरान् वीरः कपिगणेश्वरः।
वेगविक्रमसम्पन्नान् सन्दिदेश विशेषवित् ॥ 4.41.5 ॥
तेषामग्रेसरं चैव महद्वलमसङ्गम्।
विधाय हरिवीराणामादिशद्दक्षिणां दिशम् ॥ 4.41.6 ॥
ये केचन समुद्देशास्तस्यां दिशि सुदुर्गमाः।
कपीशः कपिमुख्यानां स तेषां तानुदाहरत् ॥ 4.41.7 ॥
सहस्रशिरसं विन्ध्यं नानाद्रुमलतायुतम्।
नर्मदां च नदीं दुर्गां महोरगनिषेविताम् ॥ 4.41.8 ॥
ततो गोदावरीं रम्यां कृष्णवेणीं महानदीम्।
वरदां च महाभागां महोरगनिषेविताम् ॥ 4.41.9 ॥
मेखलामुत्कलां चैव दशार्णनगराण्यपि।
अश्ववन्तीमवन्तीं च सर्वमेवानुपश्यत ॥ 4.41.10 ॥
विदर्भानृषिकांश्चैव रम्यान्माहिषकानपि।
तथा वङ्गान् कलिङ्गांश्च कौशिकांश्च समन्ततः ॥ 4.41.11 ॥
नदीं गोदावरीं चैव सर्वमेवानुपश्यत।
तथैवान्ध्रांश्च पुण्ड्रांश्च चोलान् पाण्ड्यान् सकेरलान् ॥ 4.41.12 ॥
अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः।
विचित्रशिखरः श्रीमांश्चित्रपुष्पितकाननः ॥ 4.41.13 ॥
सचन्दनवनोद्देशो मार्गितव्यो महागिरिः ॥ 4.41.14 ॥
ततस्तामापगां दिव्यां प्रसन्नसलिलां शिवाम्।
तत्र द्रक्ष्यथ कावेरीं विहितामप्सरोगणैः ॥ 4.41.15 ॥
तस्यासीनं नगस्याग्रे मलयस्य महौजसम्।
द्रक्ष्यथादित्यसङ्काशमगस्त्यमृषिसत्तमम् ॥ 4.41.16 ॥
ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना।
ताम्रपणीं ग्राहजुष्टां तरिष्यथ महानदीम् ॥ 4.41.17 ॥
सा चन्दनवनैर्दिव्यैः प्रच्छन्ना द्वीपशालिनी।
कान्तेव युवतिः कान्तं समुद्रमवगाहते ॥ 4.41.18 ॥
ततो हेममयं दिव्यं मुक्तामणिविभूषितम्।
युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः ॥ 4.41.19 ॥
ततः समुद्रमासाद्य सम्प्रधार्यार्थनिश्चयम्।
अगस्त्येनान्तरे तत्र सागरे विनिवेशितः ॥ 4.41.20 ॥
चित्रनानानगः श्रीमान् महेन्द्रः पर्वतोत्तमः।
जातरूपमयः श्रीमानवगाढो महार्णवम् ॥ 4.41.21 ॥
नानाविधैर्नगैः सर्वैर्लताभिश्चोपशोभितम्।
देवर्षियक्षप्रवरैरप्सरोभिश्च सेवितम् ॥ 4.41.22 ॥
सिद्धचारणसङ्घैश्च प्रकीर्णं सुमनोहरम्।
तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु ॥ 4.41.23 ॥
अगम्यो मानुषैर्दीप्तस्तं मार्गध्व समन्ततः।
तत्र सर्वात्मना सीता मार्गितव्या विशेषतः ॥ 4.41.24 ॥
स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः।
राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः ॥ 4.41.25 ॥
दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी।
अङ्गारकेति विख्याता छायामाकृष्य भोजनी ॥ 4.41.26 ॥
एवं निस्संशयान् कृत्वा संशयान्नष्टसंशयाः।
मृगयध्वं नरेन्द्रस्य पत्नीममिततेजसः ॥ 4.41.27 ॥
तमतिक्रय्म लक्ष्मीवान् समुद्रे शतयोजने।
गिरिः पुष्पितको नाम सिद्धचारणसेवितः ॥ 4.41.28 ॥
चन्द्रसूर्यांशुसङ्काशः सागराम्बुसमावृतः।
भ्राजते विपुलैः शृङ्गैरम्बरं विलिखन्निव ॥ 4.41.29 ॥
तस्यैवं काञ्चनं शृङ्गं सेवते यं दिवाकरः।
श्वेतं राजतमेकं च सेवते यं निशाकरः ॥ 4.41.30 ॥
न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः।
प्रणम्य शिरसा शैलं तं विमार्गत वानराः ॥ 4.41.31 ॥
तमतिक्रम्य दुर्धर्षाः सूर्यवान्नाम पर्वतः।
अध्वना दुर्विगाहेन योजनानि चतुर्दश ॥ 4.41.32 ॥
ततस्तमप्यतिक्रम्य वैद्युतो नामपर्वतः।
सर्वकामफलैर्वृक्षैः सर्वकालमनोहरैः ॥ 4.41.33 ॥
तत्र भुक्त्वा वरार्हाणि मूलानि च फलानि च।
मधूनि पीत्वा मुख्यानि परं गच्छत वानराः ॥ 4.41.34 ॥
तत्र नेत्रमनःकान्तः कुञ्जरो नाम पर्वतः।
अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा ॥ 4.41.35 ॥
तत्र योजनविस्तारमुच्छ्रितं दशयोजनम्।
शरणं काञ्चनं दिव्यं नानारत्नविभूषितम् ॥ 4.41.36 ॥
तत्र भोगवती नाम सर्पाणामालयः पुरी।
विशालकक्ष्या दुर्धर्षा सर्वतः परिरक्षिता ॥ 4.41.37 ॥
सर्पराजो महाप्राज्ञो यस्यां वसति वासुकिः।
निर्याय मार्गितव्या च सा च भोगवती पुरी ॥ 4.41.38 ॥
तत्र चानन्तरा देशा ये केचन सुसंवृताः ॥ 4.41.39 ॥
तं च देशमतिक्रम्य महानृषभसंस्थितः।
सर्वरत्नमयः श्रीमानृषभो नाम पर्वतः ॥ 4.41.40 ॥
तं च देशमतिक्रम्य महानृषभसंस्थितः।
सर्वरत्नमयः श्रीमानृषभो नाम पर्वतः ॥ 4.41.41 ॥
न तु तच्चन्दनं दृष्ट्वा स्प्रष्टव्यं च कदाचन।
रोहिता नाम गन्धर्वा घोरा रक्षन्ति तद्वनम् ॥ 4.41.42 ॥
तत्र गन्धर्वपतयः पञ्च सूर्यसमप्रभाः।
शैलूषो ग्रामणीः शिग्रुः शुभ्रो बभ्रुस्तथैव च ॥ 4.41.43 ॥
रविसोमाग्निवपुषां निवासः पुण्यकर्मणाम्।
अन्ते पृथिव्या दुर्धर्षास्तत्र स्वर्गजितः स्थिताः ॥ 4.41.44 ॥
ततः परं न वः सेव्यः पितृलोकः सुदारुणः।
राजधानी यमस्यैषां कष्टेन तमसा वृता ॥ 4.41.45 ॥
एतावदेव युष्माभिर्वीरा वानरपुङ्गवाः।
शक्यं विचेतुं गन्तुं वा नातो गतिमातां गतिः ॥ 4.41.46 ॥
सर्वमेतत्समालोक्य यच्चान्यदपि दृश्यते।
गतिं विदित्वा वैदेह्याः सन्निवर्तितुमर्हथ ॥ 4.41.47 ॥
यस्तु मासान्निवृत्तोऽग्रे दृष्टा सीतेति वक्ष्यति।
मत्तुल्यविभवो भोगैः सुखं स विहरिष्यति ॥ 4.41.48 ॥
ततः प्रियतरो नास्ति मम प्राणाद् विशेषतः।
कृतापराधो बहुशो मम बन्धुर्भविष्यति ॥ 4.41.49 ॥
अमितबलपराक्रमा भवन्तो विपुलगुणेषु कुलेषु च प्रसूताः।
मनुजपतिसुतां यथा लभध्वं तदधिगुणं पुरषार्थमारभध्वम् ॥ 4.41.50 ॥