अथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः।
उवाच नरशार्दूलं रामं परबलार्दनम् ॥ 4.40.1 ॥
आगता विनिविष्टाश्च बलिनः कामरूपिणः।
वानरा वारणेन्द्राभा ये मद्विषयवासिनः ॥ 4.40.2 ॥
त इमे बहुविक्रान्तैर्हरिभिर्भीमविक्रमैः।
आगता वानरा घोरा दैत्यदानवसन्ननिभाः ॥ 4.40.3 ॥
ख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः।
पराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः ॥ 4.40.4 ॥
पृथिव्यम्बुचरा राम नानानगनिवासिनः।
कोट्यग्रश इमे प्राप्ता वानरास्तव किङ्कराः ॥ 4.40.5 ॥
निदेशवर्तिनः सर्वं गुरुहिते रताः।
अभिप्रेतमनुष्ठातुं तव शक्ष्यन्त्यरिन्दम ॥ 4.40.6 ॥
यन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम्।
त्वत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि ॥ 4.40.7 ॥
काममेषामिदं कार्यं विदितं मम तत्त्वतः।
तथापि तु यथातत्त्वमाज्ञापयितुमर्हसि ॥ 4.40.8 ॥
इति ब्रुवाणं सुग्रीवं रामो दशरथात्मजः।
बाहुभ्यां सम्परिष्वज्य इदं वचनमब्रवीत् ॥ 4.40.9 ॥
ज्ञायतां मम वैदेही यदि जीवति वा न वा।
स च देशो महाप्राज्ञ यस्मिन् वसति रावणः ॥ 4.40.10 ॥
अभिगम्य तु वैदेहीं निलयं रावणस्य च।
प्राप्तकालं विधास्यामि तस्मिन् काले सह त्वया ॥ 4.40.11 ॥
नाहमस्मिन् प्रभुः कार्ये वानरेश न लक्ष्मणः।
त्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर ॥ 4.40.12 ॥
त्वमेवाज्ञापय विभो मम कार्यविनिश्चयम्।
त्वं हि जानासि यत्कार्यं मम वीर न संशयः ॥ 4.40.13 ॥
सुहृद् द्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित्।
भवानस्मद्धिते युक्तः सुकृतार्थोऽर्थवित्तमः ॥ 4.40.14 ॥
एवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम्।
अब्रवीद्रामसान्निध्ये लक्ष्मणस्य च धीमतः ॥ 4.40.15 ॥
शैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरः ॥ 4.40.16 ॥
सोमसूर्यात्मजैः सार्धं वानरैर्वानरोत्तम।
देशकालनयैर्युक्तः कार्याकार्यविनिश्चये ॥ 4.40.17 ॥
वृतः शतसहस्रेण वानराणां तरस्विनाम्।
अधिगच्छ दिशं पूर्वां सशैलवनकाननाम् ॥ 4.40.18 ॥
तत्र सीतां च वैदेहीं निलयं रावणस्य च।
मार्गध्वं गिरिशृङ्गेषु वनेषु च नदीषु च ॥ 4.40.19 ॥
नदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा।
कालिन्दीं यमुनां रम्यां यामुनं च महागिरिम् ॥ 4.40.20 ॥
सरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम्।
महीं कालमहीं चैव शैलकाननशोभिताम् ॥ 4.40.21 ॥
मागधांश्च महाग्रामान् पुण्ड्रान्वङ्गांस्तथैव च।
पत्तनं कोशकाराणां भूमिं च रजताकराम् ॥ 4.40.22 ॥
सर्वमेतद्विचेतव्यं मार्गयद्भिस्ततस्ततः।
रामस्य दयितां भार्यां सीतां दशरथस्नुषाम् ॥ 4.40.23 ॥
समुद्रमवगाढांश्च पर्वतान् पत्तनानि च।
मन्दरस्य च ये कोटिं संश्रिताः केचिदायताम् ॥ 4.40.24 ॥
कर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकाः।
घोरलोहमुखाश्चैव जवनाश्चैकपादकाः ॥ 4.40.25 ॥
अक्षया बलवन्तश्च पुरुषाः पुरुषादकाः।
किराताः कर्णचूडाश्च हेमाङ्गाः प्रियदर्शनाः ॥ 4.40.26 ॥
आममीनाशनास्तत्र किराता द्वीपवासिनः।
अन्तर्जलचरा घोरा नरव्याघ्रा इति श्रुताः ॥ 4.40.27 ॥
एतेषामालयाः सर्वे विचेयाः काननौकसः ॥ 4.40.28 ॥
गिरिभिर्ये च गम्यन्ते प्लवनेन प्लवेन च।
रत्नवन्तं यवद्वीपं सप्तराज्योपशोभितम् ॥ 4.40.29 ॥
सुवर्णरूप्यकं चैव सुवर्णाकरमण्डितम्।
यवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः ॥ 4.40.30 ॥
एतेषां गिरिदुर्गेषु प्रपातेषु वनेषु च।
मार्गध्वं सहिताः सर्वे रामपत्नीं यशस्विनीम् ॥ 4.40.31 ॥
ततो रक्तजलं शोणमगाधं शीघ्रगामिनम्।
गत्वा पारं समुद्रस्य सिद्धचारणसेवितम् ॥ 4.40.32 ॥
तस्य तीर्थेषु रम्येषु विचित्रेषु वनेषु च।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ 4.40.33 ॥
पर्वतप्रभवा नद्यः सुरम्या बहुनिष्कुटाः।
मार्गितव्या दरीमन्तः पर्वताश्च वनानि च ॥ 4.40.34 ॥
ततः समुद्रद्वीपांश्च सुभीमान् द्रष्टुमर्हथ ॥ 4.40.35 ॥
ऊर्मिमन्तं समुद्रं च क्रोशन्तमनिलोद्धतम् ॥ 4.40.36 ॥
तत्रासुरा महाकायाश्छायां गृह्णन्ति नित्यशः।
ब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः ॥ 4.40.37 ॥
तं कालमेघप्रतिमं महोरगनिषेवितम्।
अभिगम्य महानादं तीर्थेनैव महोदधिम् ॥ 4.40.38 ॥
ततो रक्तजलं भीमं लोहितं नाम सागरम्।
गता द्रक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम् ॥ 4.40.39 ॥
गृहं च वैनतेयस्य नानारत्नविभूषितम्।
तत्र कैलाससङ्काशं विहितं विश्वकर्मणा ॥ 4.40.40 ॥
तत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः।
शैलशृङ्गेषु लम्बन्ते नानारुपा भयावहाः ॥ 4.40.41 ॥
निहता ब्रह्मतेजोभिरहन्यहनि राक्षसाः।
अभितप्ताश्च सूर्येण लम्बन्ते स्म पुनःपुनः ॥ 4.40.42 ॥
ततः पाण्डरमेघाभं क्षीरोदं नाम सागरम्।
गता द्रक्ष्यथ दुर्धर्षा मुक्ताहारमिवोर्मिभिः ॥ 4.40.43 ॥
तस्य मध्ये महान् श्वेत ऋषभो नाम पर्वतः।
दिव्यगन्धैः कुसुमितै राजतैश्च नगेर्वृतः ॥ 4.40.44 ॥
सरश्च राजतैः पद्मैर्ज्वलितैर्हेमकेसरैः।
नाम्ना सुदर्शनं नाम राजहंसैः समाकुलम् ॥ 4.40.45 ॥
विबुधाश्चारणा यक्षाः किन्नराः साप्सरोगणाः।
हृष्टाः समभिगच्छन्ति नलिनीं तां रिरंसवः ॥ 4.40.46 ॥
क्षीरोदं समतिक्रम्य ततो द्रक्ष्यथ वानराः।
जलोदं सागरश्रेष्ठं सर्वभूतभयावहम् ॥ 4.40.47 ॥
तत्र तत्कोपजं तेजः कृतं हयमुखं महत्।
अस्याहुस्तन्महावेगमोदनं सचराचरम् ॥ 4.40.48 ॥
तत्र विक्रोशतां नादो भूतानां सागरौकसाम्।
श्रूयते च समर्थानां दृष्ट्वा तद् वडवामुखम् ॥ 4.40.49 ॥
स्वादूदस्योत्तरे देशे योजनानि त्रयोदश।
जातरूपशिलो नाम महान् कनकपर्वतः ॥ 4.40.50 ॥
तत्र चन्द्रप्रतीकाशं पन्नगं धरणीधरम्।
पद्मपत्त्रविशालाक्षं ततो द्रक्ष्यथ वानराः ॥ 4.40.51 ॥
आसीनं पर्वतस्याग्रे सर्वभूतनमस्कृतम्।
सहस्रशिरसं देवमनन्तं नीलवाससम् ॥ 4.40.52 ॥
त्रिशिराः काञ्चनः केतुस्तालस्तस्य महात्मनः।
स्थापितः पर्वतस्याग्रे विराजति सवेदिकः ॥ 4.40.53 ॥
पूर्वस्यां दिशि निर्माणं कृतं तत् त्रिदशेश्वरैः ॥ 4.40.54 ॥
ततः परं हेममयः श्रीमानुदयपर्वतः।
तस्य कोटिर्दिवं स्पृष्ट्वा शतयोजनमायता ॥ 4.40.55 ॥
सालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः।
जातरूपमयैर्दिव्यैः शोभते सूर्यसन्निभैः ॥ 4.40.56 ॥
तत्र योजनविस्तारमुच्छ्रितं दशयोजनम्।
शृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम् ॥ 4.40.57 ॥
तत्र पूर्वं पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे।
द्वितीयं शिखरे मेरोश्चकार पुरुषोत्तमः ॥ 4.40.58 ॥
उत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः।
दृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम् ॥ 4.40.59 ॥
तत्र वैखानसा नाम वालखिल्या महर्षयः।
प्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः ॥ 4.40.60 ॥
अयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते।
यस्मिंस्तेजश्च चक्षुश्च सर्वप्राणभृतामपि ॥ 4.40.61 ॥
शैलस्य तस्य शृङ्गेषु कन्दरेषु वनेषु च।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ 4.40.62 ॥
काञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः।
आविष्टा तेजसा सन्ध्या पूर्वा रक्ता प्रकाशते ॥ 4.40.63 ॥
पूर्वमेतत्कृतं द्वारं पृथिव्या भुवनस्य च।
सूर्यस्योदयनं चैव पूर्वा ह्येषा दिगुच्यते ॥ 4.40.64 ॥
तस्य शैलस्य पृष्ठेषु निर्झरेषु गुहासु च।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ 4.40.65 ॥
ततः परमगम्या स्याद्दिक् पूर्वा त्रिदशावृता।
रहिता चन्द्रसूर्याभ्यामदृश्या तिमिरावृता ॥ 4.40.66 ॥
शैलेषु तेषु सर्वेषु कन्दरेषु वनेषु च।
ये च नोक्ता मया देशा विचेया तेषु जानकी ॥ 4.40.67 ॥
एतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः।
अभास्करममर्यादं न जानीमस्ततः परम् ॥ 4.40.68 ॥
अधिगम्य तु वैदेहीं निलयं रावणस्य च।
मासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम् ॥ 4.40.69 ॥
ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम।
सिद्धार्थाः सन्निवर्तध्वमधिगम्य च मैथिलीम् ॥ 4.40.70 ॥
महेन्द्रकान्तां वनषण्डमण्डितां दिशं चरित्वा निपुणेन वानराः।
अवाप्य सीतां रघुवंशजप्रियां ततो निवृत्ताः सुखिनो भविष्यथ ॥ 4.40.71 ॥