०३९ वानरसेनासङ्ख्यानिवेदनम्

इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः।
बाहुभ्यां सम्परिष्वज्य प्रत्युवाच कृताञ्जलिम् ॥ 4.39.1 ॥
यदिन्द्रो वर्षते वर्षं न तच्चित्रं भवेत्क्विचित्।
आदित्यो वा सहस्रांशुः कुर्याद्वितिमिरं नभः ॥ 4.39.2 ॥
चन्द्रमा रश्मिभिः कुर्यात्पृथिवीं सौम्य निर्मलाम्।
त्वद्विधो वापि मित्राणां प्रतिकुर्यात्परन्तप ॥ 4.39.3 ॥
एवं त्वयि न तच्चित्रं भवेद्यत्सौम्य शोभनम्।
जानाम्यहं त्वां सुग्रीव सततं प्रियवादिनम् ॥ 4.39.4 ॥
त्वत्सनाथः सखे सङ्ख्ये जेतास्मि सकलानरीन्।
त्वमेव मे सुहृन्मित्रं साहाय्यं कर्तुमर्हसि ॥ 4.39.5 ॥
जहारात्मविनाशाय वैदेहीं राक्षसाधमः।
वञ्चयित्वा तु पौलोमीमनुह्लादौ यथा शचीम् ॥ 4.39.6 ॥
नचिरात्तं हनिष्यामि रावणं निशितैः शरैः।
पौलोम्याः पितरं दृप्तं शतक्रतुरिवाहवे ॥ 4.39.7 ॥
एतस्मिन्नन्तरे चैव रजः समभिवर्तत।
उष्णां तीव्रां सहस्रांशोश्छादयद्गगने प्रभाम् ॥ 4.39.8 ॥
दिशः पर्याकुलाश्चासन् रजसा तेन मूर्च्छता।
चचाल च मही सर्वा सशैलवनकानना ॥ 4.39.9 ॥
ततो नगेन्द्रसङ्काशैस्तीक्ष्णदंष्ट्रैर्महाबलैः।
कृत्स्ना सञ्छादिता भूमिरसङ्ख्येयैः प्लवङ्गमैः ॥ 4.39.10 ॥
निमेषान्तरमात्रेण ततस्तैर्हरियूथपैः।
कोटीशतपरीवारैः कामरूपिभिरावृता ॥ 4.39.11 ॥
नादेयैः पार्वतीयैश्च सामुद्रैश्च महाबलैः।
हरिभिर्मेघनिर्ह्रादैरन्यैश्च वनचारिभिः ॥ 4.39.12 ॥
तरुणादित्यवर्णैश्च शशिगौरैश्च वानरैः।
पद्मकेसरवर्णैश्च श्वेतैर्मेरुकृतालयैः ॥ 4.39.13 ॥
कोटीसहस्रैर्दशभिः श्रीमान् परिवृतस्तदा।
वीरः शतवलिर्नाम वानरः प्रत्यदृश्यत ॥ 4.39.14 ॥
ततः काञ्चनशैलाभस्ताराया वीर्यवान् पिता।
अनेकैर्दशसाहस्रैः कोटिभिः प्रत्यदृश्यत ॥ 4.39.15 ॥
तथाऽपरेण कोटीनां सहस्रेण समन्वितः।
पिता रुमायाः सम्प्राप्तः सुग्रीवश्वशुरो विभुः ॥ 4.39.16 ॥
पद्मकेसरसङ्काशस्तरुणार्कनिभाननः।
बुद्धिमान् वानरश्रेष्ठः सर्ववानरसत्तमः ॥ 4.39.17 ॥
अनीकैर्बहुसाहस्रैर्वानराणां समन्वितः।
पिता हनुमतः श्रीमान् केसरी प्रत्यदृश्यत ॥ 4.39.18 ॥
गोलाङ्गूलमहाराजो गवाक्षो भीमविक्रमः।
वृतः कोटिसहस्रेण वानराणामदृश्यत ॥ 4.39.19 ॥
ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः।
वृतः कोटिसहस्राभ्यां द्वाभ्यां समभिवर्तत ॥ 4.39.20 ॥
महाचलनिभैर्घोरैः पनसो नाम यूथपः।
आजगाम महावीर्यस्तिसृभिः कोटिभिर्वृतः ॥ 4.39.21 ॥
नीलाञ्जनचयाकारो नीलो नामाथ यूथपः।
अदृश्यत महावीर्यस्तिसृभिः कोटिभिर्वृतः ॥ 4.39.22 ॥
ततः काञ्चनशैलाभो गवयो नाम यूथपः।
आजगाम महार्वीयः कोटिभिः पञ्चभिर्वृतः ॥ 4.39.23 ॥
दरीमुखश्च बलवान् यूथपोऽभ्याययौ तदा।
वृतः कोटिसहस्रेण सुग्रीवं समुपस्थितः ॥ 4.39.24 ॥
मैन्दश्च द्विविदश्चोभावश्विपुत्रौ महाबलौ।
कोटिकोटिसहस्रेण वानराणामदृश्यताम् ॥ 4.39.25 ॥
गजश्च बलवान् वीरः कोटिभिस्तिसृभिर्वृतः।
आजगाम महातेजाः सुग्रीवस्य समीपतः ॥ 4.39.26 ॥
ऋक्षराजो महातेजा जाम्बवान्नाम नामतः।
कोटिभिर्दशभिः प्राप्तः सुग्रीवस्य वशे स्थितः ॥ 4.39.27 ॥
रुमण्वान्नाम विक्रान्तो वानरो वानरेश्वरम्।
आययौ बलवांस्तूर्णं कोटिशतसमावृतः ॥ 4.39.28 ॥
ततः कोटिसहस्राणां सहस्रेण शतेन च।
पृष्ठतोऽनुगतः प्राप्तो हरिभिर्गन्धमादनः ॥ 4.39.29 ॥
ततः पद्मसहस्रेण वृतः शङ्कुशतेन च।
युवराजोऽङ्गदः प्राप्तः पितृतुल्यपराक्रमः ॥ 4.39.30 ॥
ततस्ताराद्युतिस्तारो हरिर्भीमपराक्रमः।
पञ्चभिर्हरिकोटिभिर्दूरतः प्रत्यदृश्यत ॥ 4.39.31 ॥
इन्द्रजानुः कपिर्वीरो यूथपः प्रत्यदृश्यत।
एकादशानां कोटीनामीश्वरस्तैश्च संवृतः ॥ 4.39.32 ॥
ततो रम्भस्त्वनुप्राप्तस्तरुणादित्यसन्निभः।
अयुतेनावृतश्चैव सहस्रेण शतेन च ॥ 4.39.33 ॥
ततो यूथपतिर्वीरो दुर्मुखो नाम वानरः।
प्रत्यदृश्यत कोटिभ्यां द्वाभ्यां परिवृतो बली ॥ 4.39.34 ॥
कैलासशिखराकारैर्वानरैर्भीमविक्रमैः।
वृतः कोटिसहस्रेण हमुमान् प्रत्यदृश्यत ॥ 4.39.35 ॥
नलश्चापि महावीर्यः संवृतो द्रुमवासिभिः।
कोटीशतेन सम्प्राप्तः सहस्रेण शतेन च ॥ 4.39.36 ॥
ततो दधिमुखः श्रीमान् कोटिभिर्दशभिर्वृतः।
सम्प्राप्तोऽभिमतस्तस्य सुग्रीवस्य महात्मनः ॥ 4.39.37 ॥
शरभः कुमुदो वह्निर्वानरो रंह एव च।
एते चान्ये च बहवो वानराः कामरूपिणः ॥ 4.39.38 ॥
आवृत्य पृथिवीं सर्वां पर्वातांश्च वनानि च।
यूथपाः समनुप्राप्तास्तेषां सङ्ख्या न विद्यते ॥ 4.39.39 ॥
आगताश्च विशिष्टाश्च पृथिव्यां सर्ववानराः ॥ 4.39.40 ॥
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः।
अभ्यवर्तन्त सुग्रीवं सूर्यमभ्रगणा इव ॥ 4.39.41 ॥
कुर्वाणा बहुशब्दांश्च प्रहृष्टा बाहुशालिनः।
शिरोभिर्वानरेन्द्राय सुग्रीवस्य न्यवेदयन् ॥ 4.39.42 ॥
अपरे वानरश्रेष्ठाः संयम्य च यथोचितम्।
सुग्रीवेण समागम्य स्थिताः प्राञ्जलयस्तदा ॥ 4.39.43 ॥
सुग्रीवस्त्वरितो रामे सर्वांस्तान् वानरर्षभान्।
निवेदयित्वा धर्मज्ञः स्थितः प्राञ्जलिरब्रवीत् ॥ 4.39.44 ॥
यथासुखं पर्वतनिर्झरेषु वनेषु सर्वेषु च वानरेन्द्राः।
निवेशयित्वा विधिवद्बलानि बलं बलज्ञः प्रतिपत्तुमीष्टे ॥ 4.39.45 ॥