प्रतिहृह्य च तत्सर्वमुपायनमुपाहृतम्।
वानरान् सान्त्वयित्वा च सर्वानेव व्यसर्जयत् ॥ 4.38.1 ॥
विसर्जयित्वा स हनीन् शूरांस्तान्कृतकर्मणः।
मेने कृतार्थमात्मानं राघवं च महाबलम् ॥ 4.38.2 ॥
अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं सम्प्रहर्षयन्।
किष्किन्धाया विनिष्क्राम यदि ते सौम्य रोचते ॥ 4.38.3 ॥
तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम्।
सुग्रीवः परमप्रीतो वाक्यमेतदुवाच ह ॥ 4.38.4 ॥
एवं भवतु गच्छावः स्थेयं त्वच्छासने मया ॥ 4.38.5 ॥
तमेवमुक्त्वा सुग्रीवो लक्ष्मणं शुभलक्षणम्।
विसर्जयामास तदा तारामन्याश्च योषितः ॥ 4.38.6 ॥
एतेत्युच्चैर्हरिवरान् सुग्रीवः समुदाहरत्।
तस्य तद्वचनं श्रुत्वा हरयः शीघ्रमाययुः ॥ 4.38.7 ॥
बद्धाञ्जलिपुटाः सर्वे ये स्युः स्त्रीदर्शनक्षमाः।
तानुवाच ततः प्राप्तान् राजाऽर्कसदृशप्रभः ॥ 4.38.8 ॥
उपस्थापयत क्षिप्रं शिबिकां मम वानराः ॥ 4.38.9 ॥
श्रुत्वा तु वचनं तस्य हरयः शीघ्रविक्रमाः।
समुपस्थापयामासुः शिबिकां प्रियदर्शनाम् ॥ 4.38.10 ॥
तामुपस्थापितां दृष्ट्वा शिबिकां वानराधिपः।
लक्ष्मणारुह्यातां शीघ्रमिति सौमित्रिमब्रवीत् ॥ 4.38.11 ॥
इत्युक्त्वा काञ्चनं यानं सुग्रीवः सूर्यसन्निभम्।
बृहद्भिर्हरिभिर्युक्तमारुरोह सलक्ष्मणः ॥ 4.38.12 ॥
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि।
शुक्लैश्च वालव्यजनैर्धूयमानैः समन्ततः ॥ 4.38.13 ॥
शङ्खभेरीनिनादैश्च हरिभिश्चाभिनन्दितः।
निर्ययौ प्राप्य सुग्रीवो राज्यश्रियमनुत्तमाम् ॥ 4.38.14 ॥
स वानरशतैस्तीक्ष्णैर्बहुभिः शस्त्रपाणिभिः।
परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः ॥ 4.38.15 ॥
स तं देशमनुप्राप्य श्रेष्ठं रामनिषेवितम्।
अवातरन्महातेजाः शिबिकायाः सलक्ष्मणः ॥ 4.38.16 ॥
आसाद्य च ततो रामं कृताञ्जलिपुटोऽभवत्।
कृताञ्जलौ स्थिते तस्मिन् वानराश्चाभवंस्तथा ॥ 4.38.17 ॥
तटाकमिव तद् दृष्ट्वा रामः कुड्मलपङ्कजम्।
वानराणां महत्सैन्यं सुग्रीवे प्रीतिमानभूत् ॥ 4.38.18 ॥
पादयोः पतितं मूर्ध्ना तमुत्थाप्य हरीश्वरम्।
प्रेम्णा च बहुमानाच्च राघवः परिषस्वजे ॥ 4.38.19 ॥
परिष्वज्य च धर्मात्मा निषीदेति ततोऽब्रवीत् ॥ 4.38.20 ॥
तं निषण्णं ततो दृष्ट्वा क्षितौ रामोऽब्रवीद्वचः ॥ 4.38.21 ॥
धर्ममर्थं च कामं च यस्तु काले निषेवते।
विभज्य सततं वीर स राजा हरिसत्तम ॥ 4.38.22 ॥
हित्वा धर्मं तथाऽर्थं च कामं यस्तु निषेवते।
स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते ॥ 4.38.23 ॥
अमित्राणां वधे युक्तो मित्राणां सङ्ग्रहे रतः।
त्रिवर्गफलभोक्ता तु राजा धर्मेण युज्यते ॥ 4.38.24 ॥
उद्योगसमयस्त्वेष प्राप्तः शत्रुविनाशन।
सञ्चिन्त्यतां हि पिङ्गेश हरिभिः सह मन्त्रिभिः ॥ 4.38.25 ॥
एवमुक्तस्तु सुग्रीवो रामं वचनमब्रवीत् ॥ 4.38.26 ॥
त्वत्प्रसादान्महाबाहो पुनः प्राप्तमिदं मया।
तव देव प्रसादाच्च भ्रातुश्च जयतां वर ॥ 4.38.27 ॥
कृतं न प्रतिकुर्याद्यः पुरुषाणां स दूषकः ॥ 4.38.28 ॥
एते वानरमुख्याश्च शतशः शत्रुसूदन।
प्राप्ताश्चादाय बलिनः पृथिव्यां सर्ववानरान् ॥ 4.38.29 ॥
ऋक्षाश्चावहिताः शूरा गोलाङ्गूलाश्च राघव।
कान्तारवनदुर्गाणामभिज्ञा घोरदर्शनाः ॥ 4.38.30 ॥
देवगन्धर्वपुत्राश्च वानराः कामरूपिणः।
स्वैः स्वैः परिवृताः सैन्यैर्वर्तन्ते पथि राघव ॥ 4.38.31 ॥
शतैः शतसहस्रैश्च कोटिभिश्च प्लवङ्गमाः।
अयुतैश्चावृता वीराः शङ्कुभिश्च परन्तप ॥ 4.38.32 ॥
समुद्रैश्च परार्धैश्च हरयो हरियूथपाः।
आगमिष्यन्ति ते राजन् महेन्द्रसमविक्रमाः ॥ 4.38.33 ॥
ते त्वामभिगमिष्न्यन्ति राक्षसं ये सबान्धवम्।
निहत्य रावणं सङ्ख्ये ह्यानयिष्यान्ति मैथिलीम् ॥ 4.38.34 ॥
ततस्तमुद्योगमवेक्ष्य बुद्धिमान् हरिप्रवीरस्य निदेशवर्तिनः।
बभूव हर्षाद्वसुधाधिपात्मजः प्रबुद्धनीलोत्पलतुल्यदर्शनः ॥ 4.38.35 ॥